सञ्चिहोन्नम्मा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


मैसूरुमण्डले 'यऴ्न्दूरु' इति कश्चन ग्रामः विद्यते । अत्रत्या कवयित्री सञ्चिहोन्नम्मा (Sanchi Honnamma)। मैसूरुसंस्थानस्य राज्ञः चिक्कदेवरायस्य काले (१७ शतके ) एषा पट्टराज्ञ्याः सेविका असीत् । ताम्बूलसज्जीकरणम् एतस्याः कार्यम् आसीत् । अतः एव सा सञ्चिहोन्नम्मा इति प्रसिद्धा जाता । (कन्नडभाषायां 'सञ्चि' इत्येतत् पदं ताम्बूलस्थापनाय उपयुज्यमानस्य लधुस्यूतस्य निर्देशनाय उपयुज्यते । राज्ञः आश्रये एषा बहूनि काव्यानि रचितवती । तेषु अत्यन्तं प्रसिद्धं जातं हदिबदेय धर्मइत्येतत् काव्यम् । 'हदिबदे' इत्येतत् 'पतिव्रता'इत्येतम् अर्थं बोधयति । स्त्रीणां कृते पुरुषाणां कृते च पार्थक्येन धर्मं व्यवहारनीतिञ्च हितवचनैः अबोधयत् सा । त्या लिखितं हदिबदेय धर्म इत्येषा कृतिः अतुत्तमा इति वक्तुं शक्यते ।

"https://sa.wikipedia.org/w/index.php?title=सञ्चिहोन्नम्मा&oldid=389114" इत्यस्माद् प्रतिप्राप्तम्