सत्त्वं रजस्तम इति...
श्लोकः[सम्पादयतु]
![]() | अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |

- सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।
- निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥ ५ ॥
अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य पञ्चमः(५) श्लोकः ।
पदच्छेदः[सम्पादयतु]
सत्त्वं रजः तम इति गुणाः प्रकृतिसम्भवाः निबध्नन्ति महाबाहो देहे देहिनम् अव्ययम् ॥ ५ ॥
अन्वयः[सम्पादयतु]
महाबाहो ! सत्त्वं रजः तमः इति प्रकृतिसम्भवाः गुणाः । देहे अव्ययं देहिनं निबध्नन्ति ।
शब्दार्थः[सम्पादयतु]
- प्रकृतिसम्भवाः = मायास्वरूपभूताः अपि जन्याः इव स्थिताः
- अव्ययम् = अक्षयम्
- देहिनम् = आत्मानम्
- निबध्नन्ति = बध्नन्ति ।
अर्थः[सम्पादयतु]
अर्जुन ! सत्त्वं रजः तमः इति प्रकृतेः स्वरूपभूताः गुणाः । ते च प्रकृतितः जाताः इव भासमानाः शरीरे आत्मानं बध्नन्ति ।