सदस्यः:अजय सिंह 1
शैक्षिकप्रविधिः शाखाः वैज्ञानिकाष्कारैः प्रविधिनां विकासेन च मानवजीवनस्य प्रत्येकं पक्षः प्रभावितः दृष्यते। उद्योग-वाणिज्य-सुरक्षा-प्रषासनादिषु क्षेत्रेषु यान्त्रिकीकरणं तीव्रगत्या जायमानं वर्तते।तथैव षिक्षायाः प्रत्येकं पक्षः अनेन प्रभावितः इति दृष्यते। भेदान् शाखाष्च- 1.व्यवहारप्रविधिः 2.अनुदेषनप्रविधिः 3.शिक्षणप्रविधिः (१) व्यवहारप्रविधिः - व्यवहारप्रविधिः शैक्षिकप्रविधेः प्रमुखम् अगंम् अस्ति।मनोवैज्ञानिकाः व्यवहारविज्ञानम् इति कथ्यन्ते। सामान्यतः मनोवैज्ञानिकाः जीवने व्यक्तिनां व्यवहारस्य एवं च प्रकृतिं स्वरूपं अध्ययनं कुर्वन्ति। अध्ययनस्य तात्पर्यं व्यवहारे परिवर्तनं भवति। शैक्षिकप्रविधेः शाखायाः व्यवहारपरिवर्तनेन सम्बन्धाः सन्ति। मनोविज्ञाने जीवानां सर्वव्यवहाराणां अध्ययनं क्रियते। एवं रीत्या व्यवहारिकप्रविधेः क्षेत्रं शैक्षिकप्रविधेः अपेक्षया अधिकं व्यापकं वर्तते। बी.एफ.स्किनर महोदयेन- शिक्षणानुदेष्नयोः क्रिययोः मुख्यं लक्ष्यं तावत् छात्राणां व्यवहारस्य परिवर्तनसम्पादनं,येन निर्धारिेतोद्दष्यानां सम्यक् रूपेण प्राप्ति भवेत। शिक्षकव्यवहारस्य संषोधनार्थं परिवर्तनार्थं च प्रायोगिक ज्ञानं भवति। तदेव व्यवहारिकप्रविधिः कथ्यन्ते। बी.एफ.स्किनर महोदयेन- शिक्षणस्य पारस्परिकान्तः क्रिया स्वीकृतास्ति। यथा- छात्रशिक्षकयोर्मध्ये पाठ्यवस्तुनः आदानप्रदानं भवति। पारस्परिकक्रियाः शिक्षणस्य प्रकारः अस्ति।- पाठ्यवस्तु सम्प्रेषणष्च। अस्मिन् षिक्षकः पाठ्यवस्तु,स्मृतिस्तरः,बोधस्तरः,चिन्तनस्तरादि च प्रस्तौति। व्यवहारप्रविधेः वैशिष्टयानि- 1.व्यवहारप्रविधेः लक्ष्यं तावत् क्रियात्मकपक्षस्य विकासः।एतेन शिक्षणस्य विषिष्टकौषलानां विकासः क्रियते। 2.शिक्षणाभ्यासकाले छात्राध्यापकेभ्यः पुनर्लनमपि प्रदीयते। 3.वैयक्तिकभिन्नताषु विशेषमहत्वं दीयते। 4.कक्षायां शाब्दिकाशाब्दिकव्यवहाराणाम् अध्ययनं क्रियते। (२) अनुदेशनप्रविधिः - मानवस्य अधिगमे अनुदेशनस्य महत्वपूर्णं स्थानं वर्तते। अधिकांश मनुष्याणां व्यवहारपरिवर्तनं अनुदेशनेन भवति। शिक्षणे अनुदेशनं निहितमस्ति। सर्वाः अपि क्रिया अधिगमे सहाय्यं कुर्वन्ति। अनुदेशनपदेन अधिगम कुर्वन्ति। अधिगमे सम्यक् कल्पयितुं विहिता क्रियाः अनुदेषनम् इति वक्तुं पार्यते। किन्तु छात्रशिक्षकयोर्मध्ये अन्तः क्रियायाः आवष्यकता न भवति। मनोवैज्ञानिकानां सामाजिकानां च सिद्धान्तानां अनुदेशने उपयोगेन प्रमुख उद्देश्यानाम प्राप्ति अनुदेशनप्रविधिः कथ्यते। अनुदेशनप्रविधेः प्रकृतिः - 1.अनुदेशने काष्चन् सुचना प्रदीयन्ते। 2.शिक्षकस्य उपस्थितिं विनाऽपि छात्रः स्वयमधित्य अवगन्तुम् अर्हति। 3.मानवीयविकासार्थं सप्प्रेषणसिद्धान्तः अत्यन्तं महत्वपूर्णं भवति। 4. अनुदेशनप्रविधिः शिक्षाप्रक्रियायां सूचनारूपेण प्रवर्तते। अनुदेशनप्रविधेः वैशिष्टयानि - 1.अस्मिन् प्रविधौ छात्राः स्वस्य वैयक्तिकभिन्नतानुसारं शिक्षितुमवसरं प्राप्नुवन्ति। 2.एषः प्रविधिः योग्यशिक्षकाणाम् अभावं पूरयितुमर्हति। 3.अनुदेशनप्रविधिः माध्यमेन ज्ञानात्मकोद्देश्यानी अत्यन्तप्रभावशालिविधिना प्राप्तुं शक्यन्ते। दृश्य श्रव्य साधनानाम् उपयोगेन प्रतिपादितस्य अनुदेशनप्रविधेः विषये स्पष्टकल्पना प्राप्तुं शक्यते। अतः अनुदेशनप्रविधिः शैक्षिकप्रविधेः तादृशी काचन् शाखा या शिक्षणसाधनानाम् उपयोगविषये सैद्धान्तिक-व्यावहारिकसूचनाः प्रयच्छतीति वक्तुं शक्यते। (३) शिक्षणप्रविधि: - शिक्षाशास्त्रे शिक्षणमेव सामाजिकी व्यावसायिकी च क्रिया वर्तते। शिक्षणं विकासस्य प्रमुख प्रक्रिया वर्तते। शिक्षणप्रक्रियायां केषांचित् विशिष्टोद्देष्यनां प्राप्तये सामाजिक-दार्शनिक-मनोवैज्ञानिक-वैज्ञानिक-सिद्धान्तानां उपयोगः शिक्षणप्रविधिः इति उच्यते। शिक्षणमेका सोद्देश्यप्रक्रिया भवति। यस्याः अन्तिं लक्ष्यं बालकस्य पूर्णविकासः यदि केचन् सिद्धान्तः शिक्षणे प्रयुजन्ते,तर्हि अपेक्षितोद्देश्य प्राप्तिः भवेत्। तदैव तत् पाठ्यवस्तु शिक्षणप्रविधीनां अभिज्ञायते। शिक्षणं न केवलं एका कला अपि तु विज्ञानम् इत्यपि स्वीक्रियन्त्ेा,यतो हि शिक्षणप्रक्रियायाः विष्लेषणं वस्तुनिष्ठरूपेेण कर्तुं शक्यते। शिक्षणस्य आधारस्तु वैज्ञानिकः भवति। अस्मिन् क्षेत्रे बहवो मनोवैज्ञानिकाः योगदानं वर्तते। सिल्वर्मेन् महोदयेन-शिक्षणप्रविधि: रचनात्मकशैक्षणिकप्रविधित्वेन अङ्गिकृत:।
शिक्षणप्रविधे: प्रमुखतत्वद्वयम् - १.विषयवस्तु २. संप्रेषणम् पाठ्यवस्तु छात्रान् प्रापयितुं सम्प्रेषणम् अत्यन्तं महत्वपूर्णं भवति। छात्रशिक्षकौ द्वापि सक्रियौ सन्तौ परस्परं प्रभावयत:अत्र ज्ञानस्य आदानप्रदान्मपि सुष्ठु सञ्जायते सर्वेषां क्रियाकलापानां केन्द्र: तु छात्रः यव भवेत्। तदा पाठ्यवस्तुन: सम्प्रेषणम् समुचितरूपेण भवितुमअर्हति।
शिक्षणप्रविधे: आधार:- १. शिक्षणम् ऐका वैज्ञानिक प्रक्रिया स्यात्। २. शिक्षण क्रियाभि: अधिगमोद्देस्यानि प्राप्तुं शक्यते। ३. मुख्यतत्वं पाठ्यवस्तु संप्रेषणश्च भवति। ४. शिक्षणेन विभिन्नोपागानां माध्यमेन शिक्षणकौशलानि विकिसितानि क्रियन्ते। ५. शिक्षणेन् सर्जनात्मक शिक्षकाणां निर्माणं कर्तुं शक्यते।
शिक्षणप्रविधे: वैशिष्टयानि- १. शिक्षणप्रविधे: माध्यमेन ज्ञानत्मकस्य प्रभावात्मकस्यय मनोगत्यात्मकस्य च पक्षस्य अध्ययनं क्रियते। २. शिक्षणप्रविधे: माध्यमेन पाठ्यवस्तु संप्रेषणस्य च स्वरूपे समन्वय: संस्थापयते। ३.शिक्षणप्रविधे: सम्बन्ध: अन्तःक्षेप:, प्रक्रिया, प्रतिफलम् इत्येतेषु त्रिषु पक्षेषु भवति। ४. शिक्षणप्रविधिना शिक्षणप्रक्रिया प्रभावशालिनी सार्थिका च सम्पाद्यते।