सामग्री पर जाएँ

सदस्यः:अनुपमा रणा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

शिक्षणम्' इत्यनेन अभिप्रायः !

अयं कविरकविषु प्रचेता मर्तेष्वग्निरमृतो निधायि । (ऋग्वेदः ७।४।४)

(अर्थात् एषः ज्ञानी विशेषत्वेन बुद्धिमान्, अज्ञानिषु मनुष्येषु स्थापितः ।)

विद्योपादाने इत्यर्थे 'शिक्ष' इति धातुना निष्पन्नः शिक्षा इति शब्दः ज्ञानमिति द्योतयति । सामान्यतः ज्ञानस्य आदानस्य प्रदानस्य प्रक्रिया एव शिक्षणम् इति मन्यते । अनेन एषः एव अभिप्रायः यत् यया प्रक्रियया कोऽपि जनः अन्यान् जनान् पाठयितुं प्रयतते तत् एव शिक्षणम् इति। ऋग्वेदस्य उपर्युक्तं वचनं शिक्षाविदाम् अभिमतं प्रतिपादयति । शिक्षायाः प्रक्रिया प्रायः द्विमुखी प्रक्रिया' इति मन्यते यस्यां कश्चन जनः अन्यस्य जनस्य विकासस्य संशोधनार्थं प्रयासं करोति -

शिक्षकच्छात्रयोः शिक्षणाधिगमप्रक्रिया समानकाले एव प्रवर्तते इत्येव अस्याः द्विमुखप्रक्रियायाः सौन्दर्यं वर्तते ।

अत्र केवलं छात्राः एव न पठन्ति अपि तु छात्राणाम् अनुभूतैः अनुभवैः समस्याभिः व्यवहारेण च अध्यापकाः अपि पठन्ति । शिक्षकाः अपि शैक्षिकवातावरणस्य निर्माणं, पूर्वसिद्धता, पाठ्यक्रमस्य नियोजनं, पाठ्यपुस्तकस्य साध्यत्वं साघनत्वं च, सामग्रीणाम् उपयोगिता, विधीनां पद्धतीनां च प्रयोगः इत्यादीनां विषये ज्ञानम् अर्जयन्ति ।

कठोपनिषदि एषा द्विमुखी प्रक्रिया इत्थं वर्णिता -

सहनाववतु सह नौ भुनक्तु सहवीर्यं करवावहै। तेजस्विनावधीतमस्तु मा विद्विषावहै ।। (कठोपनिषद्, शान्तिपाठः)

सहनाववतु अर्थात् शिक्षकाः शिक्षार्थिनः च परस्परं रक्षां कुर्युः। सह नौ भुनक्तु अर्थात् ज्ञानार्जनेन उपलब्धसिद्धीनां मिलित्वा उपभोगं कुर्युः। सहवीर्यं करवावहै अर्थात् परस्परं शौर्यरक्षां कुर्युः ।

तेजस्विनावधीतमस्तु अर्थात् अध्ययनं कृत्वा तेजस्विनः भवेयुः ।

मा विद्विषावहै अर्थात् परस्परम् ईर्ष्यारहिताः भवेयुः ।

सत्यमेव यत् शिक्षाप्रक्रिया काचित् चेतनशीला प्रक्रिया एव । एषा प्रक्रिया प्रायः छात्राणां शिक्षकाणां शिक्षिकाणां वा मध्ये प्रचलति १९९० तमे वर्षे आचार्यराममूर्तिनः आध्यक्ष्ये गठितशिक्षासमितेः प्रतिवेदनस्य नाम एव आसीत् "प्रबुद्ध-मानवीय समाजं प्रति' इति । पाश्चात्त्यः शिक्षाविद् जॉन डीवी महोदयः शैक्षिकप्रक्रिया त्रिमुखप्रक्रिया इति विवृणोति । पुनश्च एषा शैक्षिकी प्रक्रिया 'चेतनसमाजस्य वैयक्तिकसहभागितया प्रवर्तते' इति । अत्र चेतनसमाजस्य वैयक्तिकसहभागिता एव तृतीयः घटकः अस्ति। अस्य निर्माणे सामाजिकसिद्धान्तानां महती भूमिका भवति। समाजेन अपेक्षितानि मूल्यानि, उद्देश्यानि, आवश्यकताः, अपेक्षाः, विधिस्वरूपं, समस्यासमाधानादीनि तत्त्वानि च अस्मिन् घटके एव सन्निविष्टानि भवन्ति । एषा एव पाठ्यचर्या। अनया विना शिक्षणप्रक्रिया एव न प्रवर्तते ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:अनुपमा_रणा&oldid=496865" इत्यस्माद् प्रतिप्राप्तम्