सदस्यः:अमितकुमारझाः/प्रयोगपृष्ठम्
प्रश्नः - परम्परागतविधेः महत्त्वं प्रतिपादयत।
उत्तरम् – परम्परागतविधिना शिक्षारम्भः उपनयनसंस्कारात्परं भवति स्म।गुरुः छात्रेभ्यो गायत्रीमन्त्रम् उपदिशति।मन्त्रस्य दीक्षात्परं शिक्षा प्रारभ्यते । अध्ययनार्थं गुरोः आह्वानस्य व्यवस्था आसीत्। प्रतिदिनं शिष्यः नित्यकर्म कृत्वा गुरोः समीपं गच्छति। पाठारम्भाय छात्रः स्वदक्षिणहस्तेन गुरोः वामहस्तमादधाति स्म। निवेदयति स्म यत् सम्माननीयाः श्रावयन्तु! इति छात्रः दत्तचितो भूत्वा ओमिति शब्दमुच्चारयति स्म। गुरोराज्ञां प्राप्य तस्य दक्षिणहस्ततः उपविशति स्म।छात्रः उत्तराभिमुखं भूत्वा आचमनं कृत्वा, ब्रह्माञजलिमाबध्य गुरोः समीपे विद्यां प्राप्नोति स्म। अध्ययनात्पूर्वे पश्चादा वा चरणस्पर्शे स्वदक्षिणहहस्तं गुरोः दक्षिणपादेन स्ववामहस्तं तु गुरोर्वामपादेन सह मेलयति स्म। पठनारम्भस्य प्रक्रियायाः परं गुरुः छात्रान् आदिशति यत् पठतु।
वैदिककालिकाः प्राचीनतमाः शिक्षणसंस्था ऋषीणां ग्रामेषु आसन्। तस्मि काले केचन आचार्याः शिष्यैः सह नैकदेशेषु परिभ्रमन्तः स्वज्ञानं वितरन्ति स्म।
तदानीं चतुर्वर्गस्यावधारणा प्रचलिता आसीत्। तथा चतुर्वर्गेषु धर्मार्थकाममोक्षेषु चतुर्थस्य प्राप्तिरेव शिक्षायां प्रमुखमुद्देश्यमासीत्। विधिरयं शिक्षणस्य स्थाने मानवस्य जीवनशैल्यामुपरि विशिष्टं बलं दीयते स्म। तस्मिन् काले गुरुशिष्यसम्बन्धः पितापुत्रवत् आसीत्।शिक्षकाः शिष्याणामादरभाजः भवन्ति स्म। ते तु मातृपितृसमाः शिष्याणां कृते आसन् । उच्चशिक्षायाः कृते विश्वविद्यालयस्य प्रवेशद्वारे विद्वद्भिः छात्राणां ज्ञानपरीक्षणं क्रियते स्म।
पाठशालाविधौ निम्नलिखिताः शिक्षणविधयः सन्निहिताः आसन् –
(अ) मौखिकविधिः व्यक्तिगतविधिर्वा – सप्तदशशताब्दीपर्यन्तम् आश्रमेषु, गुरुकुलेषु, मठेषु, पाठशालासु, विद्यापीठेषु अयं विधिः नियमितरूपेण प्रचलित आसीत्। तद् शइक्षणं मौखिकरूपेणैव भवति स्म। वेदमन्त्राणामुच्चारणं छात्रैः वारं वारं क्रियते। छात्रकृतोच्चारणसम्बद्धदोषाणां निवारणं शिक्षकेण व्यक्तिगतरूपेण क्रियते स्म। श्रवणस्य, मननस्य, निदिध्यासनस्य स्थितिपर्यन्तं गमनसम्भवो वर्तते। ते स्वीकुर्वन्ति यत्-
पुस्तकस्था तु या विद्या परहस्तगतं धनम्।
कार्यकाले समुत्पन्ने न सा विद्या न तद् धनम्।।
गुणाः -1. अनेन छात्राणामुच्चारणं शुद्धं भवति।
2. मौखिकाभिव्यक्तिः सशक्ता भवति।
(ब) परायणविधिः – अयं विधिरपि कण्ठस्थीकरणोपरि बलं ददाति। वैदिकमन्त्राणा सस्वरपिठकरणं परायणं कथ्यते स्म। नियमानुसारं पारायणकर्तृछात्रः पारायणिको भवति। पारयणमनेकप्रकारस्य भवति। पाठस्य कथिनातायाः सरलतायाश्चानुसारेण अस्य संख्याऽपि निर्धारिता आसीत् यथा पञ्चरूपम् (पञ्चवारं पठनम्)। अनेन प्रकारेण सप्तवारम्, अष्टवारं, नववारमपि पारायणं क्रियते स्म।उच्चारणसमये अशुद्ध्यनुसारेण छात्राणां परीक्षा अपि भवति स्म। एकाशिद्धिकर्त्तारं छात्रम् एकान्यिकः द्वयशुद्धिकर्त्तारं छात्रं द्वैयन्यिकः त्र्यशुद्धिकर्तारं छात्रं त्रैयन्यिकः कथ्यन्ते।
गुणः – अनेन विधिना प्राप्तज्ञानस्य रक्षणम् आगामिवंशपरम्परायाः कृते भवति स्म।
( स) वाद-विवादविधिः – पाठशालाविधौ वाद-विवादविधेरपि प्रयोगो भवति स्म। कण्ठस्थीकरणेन सह अवबोधोपरि अपि पर्याप्तबलं दीयते स्म्। तत्स्थलीयभाषण-व्याख्या-सम्यक्-अवबोध-सम्यक्ज्ञान्-प्रदर्शन-विमति-विप्रलाप-भिन्नमतानामभिव्यक्ति-आदीनां शब्दानां प्रयोगोऽपि पाणिना कृतः। एतैः शब्दैः विभिन्नशैक्षिकविधीनां प्रतीतिर्भवति। एते शब्दाः वादविवादस्य द्योतकाः सन्ति यः शिषअयः वादविवादे विजयी भवति स्म तस्यातिसम्मानो भवति स्म तथा स एव तस्यक विषयस्य अधइकारी मन्यते स्म्। शास्त्रार्थः संववादश्च अस्य विधेः उदाहरणानि सन्ति यथा –यम-यमी संवादः, गार्गी –मैत्रेयी संवादश्च। दार्शनिकतत्त्वानां शिक्षणं मुख्यतः न्यायशास्त्रस्य अध्यापनं तर्कविधिना प्रचलितम् आसीत्।
गुणाः (1) अनेन छात्रेण भावप्रकाशस्य शक्तेर्विकासो भवति।
(2) छात्रेषु स्वाध्यायस्य प्रवृत्तिरायाति।
द. प्रश्नोत्तरविधिः – वैदिककाले ओंकार इति शब्दस्योच्चारणात्परं पाठस्य पाठनारमभं भवति स्म। शिक्षकेण प्रश्नोत्तरविधिना शिक्षणणं क्रियते स्म। प्रतिप्रश्नानन्तरं छात्रेण तस्य आवृत्तिः क्रियते सम्। अनया प्रक्रियया वायाख्यानं सम्पन्नं भवति स्म। यदा कदा प्रशनानां विस्तृतोत्तरस्थाने केवलं सङ्केतमेव प्रदीयते। छात्राः सङ्केतामाधारेण उचितोत्तरमन्विष्यन्ति स्म। वैदिकशिक्षायां प्रश्नानां गौरवं स्वीकृतमासीत्। वेदे आ शिक्षायै प्रश्नानां तथा च उपशिक्षायै अभिप्रश्ननानाम् इत्यादिभिः मन्त्रैः प्रश्नकर्त्तुः महत्त्वं प्रतिपादितं वर्तते। यते हि जिज्ञसायाः अभावे ज्ञानं नास्ति, अतः प्रश्नानाम् आवश्यकता भवत्येव। प्राचीनयूनानीदार्शिक ‘सुकरात्’ अनेन विधिना समाजे उपदेशम् अददत्।
गुणाः – 1. छात्राः सक्रियाः भवन्ति।
2. तेषां चिन्तन-तर्क-निरीक्षणशक्तेश्च विकासो भवति।
( य) सूत्रविधिः – विधिरयं संस्कृतव्याकरणशिक्षणस्य, दर्शनशिक्षणस्य च प्राचीनतमो विधिर्विद्यते। सूत्राणां मुख्यम् उद्देश्यं घटे समूद्रपूरणम् आसीत्। अनेन नियमानां सूत्ररूपेण कण्ठस्थीकरणं क्रियते स्म। एतेषां सूत्राणां व्याख्यायाः कृते भाष्यविधेः टीकाविधेश्च अनुसरणं क्रियते स्म।
गुणः – क्लिष्टविषयणाम् अवगमने स्मरणे च सौविध्यं भवति स्म ।
(र) कथाकथनविधिः – कथाश्रावणमपि एका कला वर्तते। विषये रुच्युत्पादनाय, विषयस्य स्पष्टीकरणाय च प्राचीनकालेऽपि पाठस्य मध्ये मध्ये पञ्चतन्त्र-हितोपदेशसदृशीकथानाम् उदाहरणानि शिक्षकैः दीयन्ते स्म।
गुणाः – 1. बालकेषु कल्पनाशक्तेः विकासो भवति।
2. शिक्षणं, सरलं सरसञ्च भवति।
3. बालकेषु श्रुत्वा अर्थग्रहणस्य क्षमतोत्पादनं भवति।
(ल) भाषणविधिः – विषयस्पषटीकरणाय गुरु उदाहरणानां कथानां च प्रयोगं करोति स्म अष्टाध्यायीग्रन्थे प्रयुक्तभाषणशब्दात् भाषणविधेः आभासो भवति।
गुणः – अनेन छात्राः कस्मिन्नपि विषये विस्तृतं ज्ञानं प्राप्नुवन्ति।
(व) व्याख्याविधिः – छात्राणां शङ्कासमाधनाय गुरुः व्याख्याविधेरनुसरणं करोति स्म। याख्यानस्य षडङ्गत्वं, यथा –
पदच्छेदः पदार्थोक्तिः संशयो वाक्ययोजना।
आक्षेपश्च समाधानं व्याख्यानं षड्विधं स्मृतम्।।
एतादृश षड्विधव्याक्यानाय शक्तिग्रहोपायाः शास्त्रकारैः ज्ञापिताः।
ते च – शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्याव्यवहारतश्च।
वाक्यस्य शेवाद्विवृतेर्वदन्ति सन्निध्यतः सिद्धपदस्य वृद्धाः।।
माधवाचार्येण व्याख्यायाः कृते पञ्चबिन्दवः स्वीकृताः –
विषयो संशयश्चैव पूर्वपक्षस्थोत्तरः।
संगतिश्चेति पञ्चाङ्गं शास्त्रेऽधिकरणं स्मृतम्।।
भर्तृहरिणाप्युक्तम् –
संयोगो विप्रयोगश्च साहचर्य विरोधिता।
अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः।।
शनैः शनैः क्लिष्टपदानामर्थज्ञापनाय संस्ककृतभाषया सहैव प्राकृतान्यभाषाणाञ्च प्रयोगः भवति स्म।
गुणाः -1. शब्दानां संरचनाया परिचयो भवति स्म।
2. विषयस्य विस्तृतं ज्ञानं भवति स्म।
3. अनेन बालकस्य मानसिकक्रियाशीलतयाः वृद्धिर्भवति।
अध्यापनं नाम एका कला वर्तते। वैदिककालादारभ्य संस्कृताध्यापनाय काश्चन शिक्षणपद्धतः सन् एतासु पद्धतिषु काचन प्राचीना नवीनाश्च छात्राणां विकासाय समीचीना पद्धतिराश्रयणीया।
परम्परागतविधिः – परम्परागतपद्धतिः द्विधा विभक्तुं शक्यते । पाठशाला पद्धतिः व्याकरणपद्धितिश्चेति।
पाठशालापद्धतेः साहित्यसम्बन्धाः अंशाः व्याकरणपद्धतेश्च व्याकरणांशाः आधारः भवन्ति । पाठशालापद्धतेः नामान्तरणमस्ति। पण्डितप्रणालिपद्धतिरिति। एषा प्राचीनभारतीशिक्षापद्धतेः प्रतिनिधिरस्ति। सप्तदशसताब्देः पूर्वं यावत् आश्रमेषु गुरुकुलेषु मठेषु च अनया पद्धत्या संस्कृमाध्यमासीत्।
परम्परागतपद्धतेरूद्देश्यानि –
1. समुदायः , सभ्यता , संस्कृतिः, देशभक्तिः, आस्तिकभावना चेत्यादीनां सम्पादनम्।
2. वेदाः, उपनिषदः, पुराणानि चेत्यादीनां ज्ञानं सम्पाद्य ईश्वरभक्तेः धार्मिकभावनाश्च चतुर्ण्णां पुरुषार्थानां सम्पादनम्।
3. सच्चरित्रसम्पादनम्
4. समीचीनं व्यक्तित्वसम्पादनम्।
5. आत्मसंयमन्-चिन्तनं तर्कशक्त्यादीनां सम्पादनम्।
6. प्राचीनधार्मिकशिक्षाणामभिरुच्युत्पादनम्।
परम्परागतस्य सर्वस्यापि ज्ञानस्य संरक्षणं विस्तृतं प्रचारं प्रधानं लक्ष्यं भवति।
परम्परागतपद्धतेः पाठ्यक्रमः
1. प्रारम्भे शब्दरूपावलिः, धातुपाठः, सन्धिः, समासचक्रम् अमरकोषादीनां कण्ठस्थीकरणम्
2. वेदः, उपनिषदः, लघुकौमुदी, सूत्राणां कण्ठस्थीकरणं , व्याख्यायाः प्रस्तुतिकरणञ्च।
3. संस्कृतस्य सरलगद्यपद्यरूपकाणां पाठनम्।
4. मध्यसिद्धान्त, सिद्धान्तकौमुदी, अष्टाध्यायी, महाभाष्यादीनां ग्रन्थानां पाठनम्।
5. काव्यानां प्रकरणग्रन्थानाञ्च दृढतरमध्ययनम्।
6. कविता, गद्यम्, रूपकम्, चम्पूः , साहित्यिकसमालोचनाञ्च पाठनम्।
पारम्परिकपद्धतेः गुणाः –
1.मानसिकानुगुणं स्मरणशक्त्यश्चाधिकं प्राधन्यं वर्तते।
2.गुरुशिष्ययोर्मध्ये समीचीनः सम्बन्धः भवति।
3. आवर्तनोच्चारणगताः दोषाः निवारिताः भवन्ति।
4. रटनप्रक्रियायाः कण्ठस्थीकरणस्य च प्रामुख्यं प्रदीयते।
पारम्परिकपद्धतेः दोषाः –
1 अस्मिन् पाठ्यक्रमस्य एक एव पक्षः अधिकः वर्धते।
2.पद्धतिरेषा निरसा फलतः छात्राः अध्ययने अभिरुचिं नैव प्रदर्शयन्ति।
3. लौकिकैतिहासिकतुलनात्मकालोचनात्मकविषयणां प्रामुख्यं न दीयते।
4. स्मरणशक्त्याधिका अवकाशः प्रकल्पनेन जीवनप्रगतेः विकासः भवितुं नार्हति।
5. पाठ्यसहगामिक्रयाणां कृते सर्वात्मनः अवकाशः नास्ति।
6. शिक्षा अध्यापककेन्द्रिता भवति।
7. कल्पनाशक्तेः चिन्तनशक्तयश्च ह्रासो भवति।
8. छात्राः जीविकोपार्जने असमर्थाः भवन्ति।
9. शारीरिकसामाजिमानसिकविकासाश्च कुण्ठिताः भवन्ति।
निष्कर्षः - पाठशालापद्धतिरिदानिमपि मठेषु, आश्रमेषु , पाठशालासु , विद्यालयेषु , महाविद्यालयेषु , संस्कृतविद्यालयेषु च प्रचलिता वर्तते। अनुभवेन ज्ञायते यत् अनया पद्धत्या उत्कृष्टाः पण्डिताः समुत्तमाः विद्वांसः कवयश्च निर्मिताः भवन्ति। भारतीयसंस्कृतेः साहित्यश्च संरक्षणाय इयं पद्धतिः नितरामुपयुक्ता भवति।
प्रश्नः – खण्डान्वयविधेः लक्षणानि लिखत।
उत्तरम् – अभ्यासार्थे द्रुतां वृत्तिं प्रयोगार्थे तु मध्यमा।
शिष्याणाम् उपदेशार्थं कुर्याद् वृत्तिं बिलम्बिताम्।।
एवं वर्णाः प्रयोक्तव्याः नाऽव्याक्ता न च पीडिता।
सम्यक् वर्णप्रयोगेण ब्रह्मलोके महीयते।।(पा. शि.)
खण्डान्वयप्रणाल्यां क्रियापदानां सरलवर्णानुक्रमेण स्थिताः भवन्ति । गद्यपाठे अन्यसोपानानि यथावत् भवन्ति, तथा कर्ता एव कर्तुः अन्यपदं यथा कर्मविशेषणं क्रियापदादिनाम् अध्यापकेन छात्रेभ्यः एव पृच्छते। अनन्तरं तेन छात्रेण अध्यापकेन वा अन्वयं क्रित्वा गद्यपद्यानां व्याख्यायते।
अयं विधिः अपेक्षां करोति यत् अध्यापकेन सर्वविधविचारविश्लेषणानि पूर्वमेव करणीयानि। यतोहि एतेषु शब्देषु एनं संश्लेषणक्रमे विधियते। छात्राः पूर्वमेव क्रमं ज्ञास्यन्ति। तेन छात्राः कक्षायां निष्क्रियाः भवन्ति। एवं भ्रान्तिकारणेन मनोविज्ञानदृष्टया अयं क्रमः दोषपूर्णो भवति। परन्तु यत्र पदानां शब्दानाञ्च क्रमः अत्यन्तगुढः भवति। तत्र आवश्यकता भवति। यथा नैषिधीयचरितग्रन्थे पद्यानाम् उचितक्रमान्वेष्णाय छात्राणां सहाय्यं करणीयमिति। यदि एकवारं शब्दानां क्रमः अन्विष्यते चेत् अर्थः स्वयमेव स्पष्टो भवति।
खण्डान्वयविधिः – एषः विधिः पद्यशिक्षणस्य सर्वोत्तमो विधिर्वर्तते। विधिरयं प्रत्येकं स्तरे उपयुक्तो वर्तते। अस्मिन्विधौ श्लोकस्य खण्डान्वयविधिना भावविचारसम्बन्धिप्रश्नाः पृच्छन्ते। व्याकरणस्य स्थाने श्लोकविषयस्योपरि आधारिताः प्रश्नाः भवन्ति।अर्थात् अस्मिन् विधौ केवलं भावाधारितप्रश्नाः भवन्ति। श्लोकानाम् अन्वयं कर्तुं सर्वप्रथमं श्लोके प्रधानवाक्यम् अन्विष्यते। अस्मिन् विधौ छात्रा सर्वदा सक्रियाः भवन्ति तेषां श्लोकपाठे रुचिर्भवति। अस्मिन् विधौ छात्राः सौन्दर्यस्य रसस्य च अनुभूतिं कुर्वन्ति।
काव्यशिक्षणे खण्डानव्यविधेः महत्त्वपूर्णा भूमिका वर्तते। खण्डान्वयविधिना छात्राः पाठोन्मुखः यथा भवन्ति तत् प्रस्तुतश्लोकेन ज्ञायते – श्रोत्रं श्रुतिनैव न कुण्डलेन , दानेन पाणेर्नतु कुण्डलेन ।
विभाति कायः खलु सज्जनानां परोपकारेण न तु चन्दनेन।।
अत्र मुख्यं वाक्यं खण्डविशेषप्रधानभूताक्रिया अन्विष्यते। अनन्तरमेषा क्रिया कर्त्रा सह योज्यते। तथा कर्म सम्बन्धेन सह योज्यते।
खण्डान्वयविधेः लक्षणानि –
आद्यं विशेषणं योज्यं विशेष्यं तदनन्तरम्।
क्त्वा ण्मुल प्रभृत्येव पूर्वं दण्डानव्यो भवेत्।।
कर्तृ कर्म क्रियास्तावत् श्लोके योज्यः ततः परम्।
किमोरूपं पुरस्कृत्य तृतीयादिः नियोजयेत्।।
ल्यबन्तं च तुमन्तञ्च क्त्वान्तं कर्म विभूषितम्।
खण्डान्वये पुनर्प्रश्न पूर्वमन्ते प्रयोजयेत्।।
विद्या नाम नरस्यरूपमधिकं प्रच्छन्नगुप्तं धनम्,
विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः।
विद्या बन्धुजनोविदेशगमने विद्या परा देवता,
विद्या राजसु पूज्यते न हि धनं विद्या विहीनः पशुः।।(नी.श.)
आकाङ्क्षाप्रश्नाः-
कः पशुः?
उत्तरम् – विद्याविहीनः पशुः।
विद्यानाम कीदृशं धनम्?
उत्तरम्- विद्या गुप्तंधनम्।
कीदृशी विद्या?
उत्तरम् - भोगकरी, यशकरी, सुखकरी च।
विद्या कस्मिन् बन्धुजनः?
उत्तरम् -विदेशगमने।