सदस्यः:अम्बिकाप्रभा मिश्र
(छ) आगमन-निगमनविधिः
आगमनपद्धतिः (विधि)-Inductive Method
अर्थ:-उदाहरणानि प्रस्तूय ततो नियम निर्धारणान्नाम आगमनम्। जीसफलेण्डन प्रतिपादयति- "यदि छात्राणां पुरतः बहूत्युदाहरणानि, तत्वानि, वस्तूनि वा अस्माभिः प्रस्तूयनने ततः परं नियमाश्च निश्चीयन्ते, तर्हि आगमनविधिरनुसर्यत इत्यर्थः " । प्रयोग प्रामाण्यमवायचे, उदाहरणानां साहाय्येन सामान्यीकृतस्य नियमस्य निर्धारणमेव आगमनविधिरिति नाम्ना व्यवद्दिश्यते। इयमेका मनोवैज्ञानिकी पद्धतिः । अनया पद्धत्या सर्वासु भाषासु मनोवैज्ञानिक - रीत्या व्याकरणं अध्यापयितुं शक्यते। लक्ष्यं प्रदर्थ्य लक्षणपरिकल्पनाम आगमनम्। लोके लक्ष्यमेव प्रथम गण्यम्। " असत्येवर्त्मनि स्थित्वा ततः सत्यं समीहते" इति भर्तृहरीणां कथनं चरितार्थत्वे-मुरव प्रथमं लक्षणं तदनुयायि इति फलति। पाणिनिना लक्ष्यमवलम्यैव लक्षणमकारीत्यागमनमेव प्रक्रियाग्रन्थाः लक्ष्यप्रदर्शनार्थमेव प्रवृत्ताः, ततः लक्षणसमन्वय इति तेषां क्रमः। एवं भट्टिकाव्यमित्यादयः ग्रन्थाः आगमनविधिमनुसरन्ति । तत्र प्रयोगस्य प्राधान्यम्। न्यायशास्त्रेऽविं इन्द्रियार्थसन्निकर्षजन्यज्ञानं प्रत्यक्षम्' 'इति लक्षणमुक्त्वा यदनुव्याख्यान द्वारा सौदाहरणं विशदी क्रियते। साहित्यशास्त्रेऽपि "गद्यपद्य मयं काव्यं चम्पूरित्यभिधीयते" इति परिकल्पनानन्तरं तथा विधस्य काव्यस्य उत्पत्तिरिति। एवमेव "चाक्यं रसात्मकं काव्यप" "रमणीयार्थ प्रतिपादकः शब्दः काव्यम्" इति लक्ष्यमनुलक्षण-प्रकल्पनम्। भगवान् पतञ्जलिरपि "लक्ष्यलक्षणं व्याकरणम्" इति आगमनविधिं स्वीकुर्वन्ति । छात्राणां पुरतः बहून्युदाहरणानि, तत्त्वानि, वस्तूनि वाऽस्माभिः प्रस्तूयन्ते। ततः परं नियमाश्च निश्चीयते, तर्हि आगमनविधिः अनुसर्तव्यः इत्यर्थः । प्रयोग प्रमाण्यमवलोक्य उदाहरणानां साहाय्येन सामान्यीकृतस्य नियमस्य निर्धारणमेव आगमनविधिरिति नाम्ना व्यवह्रियते । तत्सम्बन्धिनी तत्त्वानि उदाहरणानि वा निरीक्ष्य, तुलनां वर्गीकरणं च विधाय स्वयमेव नियमानां निर्धारणं छात्राः कुर्युः। अत्र विधौ ज्ञातादज्ञातं प्रति, विशेषात्सामान्यं प्रति, स्थूलात्सूक्ष्मं प्रति, इत्यादीनि शिक्षण-सूत्राण्यन्तर्निहितानि वर्तन्ते। Induce इति आंग्लधातोः अंगीकरणम् तत् Induce