सामग्री पर जाएँ

सदस्यः:अरूणा सिन्हा/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

बराक उपत्यका

‘बराक' इति शब्द: ‘ब्रा' एवं ‘क्रो' शब्दाभ्यामागत:। ‘ब्रा' इत्यस्य अर्थः विभाजनम् एवं ‘क्रो' इत्यस्य अर्थः उपरिभागः/शाखा। बराकउपत्यकायां एका बराकनदी वर्तते। बराकनदी करिमगञ्ज जनपदस्य हरितिकरस्य पार्श्वे सुरमा एवं कुशियारा नदी नाम्ना विभाजिता अभवत्। एतस्याः विभाजिताया: नद्याः शाखाश्रोतं स्थानीयजना: ‘ब्राक्रो' इति नाम्ना उच्चारणं कुर्वन्ति स्म। बहुभ्यः वर्षेभ्यः उच्चारणस्य विकृते: हेतोः ब्राक्रो नाम बराक नाम्नि परिणत: अभवत्।

               बराकउपत्यका दक्षिण् असम नाम्ना अपि अभिज्ञायते। भारतस्य असमराज्यस्य दक्षिणभागे वर्तते वराकउपत्यका। बराकउपत्यकाया: आयतनं ६९२२ वर्ग किलोमीटर वर्तते। अस्याः उपत्यकाया: प्रधान: शहर: शिलचर: वर्तते। अस्याः उपत्यकाया: महत्वपूर्णं फसलं ‘चायम्'। बराकनद्या: नाम्न: एव अस्य अञ्चलस्य नाम बराकउपत्यका अभवत्। बराकउपत्यका असमराज्यस्य त्रयप्रशासनिकजनपदै: निर्मितः। ते जनपदाः यथा- काछाड, करिमगञ्ज एवं हाइलाकान्दि। बराकउपत्यकाया: सरकारी भाषा वङ्ग भाषा अस्ति, परन्तु जातिगताधिवासीनां ८०% त: अधिकजनाः सिलेटी भाषया वदन्ति। बराकउपत्यकाया: संख्यागरिष्ठधर्म: हिन्दुधर्म:। २०११ तमवर्षस्य गणनानुसारेण बराकउपत्यकाया: संख्यागरिष्ठसंख्या एवं वर्तते यत्- हिन्दु ५०•१%(१, ८१२,१४१), मुसलमान ४८•१%(१,७४४, ९५८), ख्रिष्टान् १•६%(५८,६७५) एवम् अन्यान्य ०•२%। काछाडजनपदे हिन्दूनां संख्यागरिष्ठता (५९•८३%), मुस्लिमजनाः हाइलाकान्दि जनपदे(६०•३१%) एवं करिमगञ्ज जनपदस्य (५६•२६%) संख्यागरिष्ठ । बराकउपत्यकाया: लोकसभाद्वयं वर्तते।ते यथा- १) करिमगञ्ज (लोकसभा निर्वाचनी एलाका) २) शिलचर(लोकसभा निर्वाचनी एलाका। बराकउपत्यकायां विभिन्ना: जनगोष्ठ्य: वर्तन्ते। ते यथा- मणिपुरी, विष्णुप्रिया मणिपुरी, वङ्ग समाज:, भोजपुरी, असमीया, राजवंशी, राजस्थानी, बर्मन्, रंगमंच, नागा इत्यादयः। भिन्न भिन्न जनगोष्ठीषु भिन्न भिन्न संस्कृतय: वर्तन्ते। वराकउपत्यकाया: त्रिषु जनपदेषु अनेका: धर्मीयानुष्ठाना: भवन्ति ते यथा- दुर्गापूजा, कालिपूजा ,सरस्वतीपूजा, गणेशचतुर्थी एतादृशा: अनेकाः धर्मीयानुष्ठाना: भवन्ति।नृतत्वविद: अपि बराकउपत्यकां (Anthropological Garden)  नाम्ना सम्बोधितं कृतवन्तः। अस्यां उपत्यकायां बहवः विद्यालयाः, महाविद्यालयाः सन्ति एवम् एकः विश्वविद्यालय: अस्ति। अस्याम् उपत्यकायां संस्कृतस्य स्थितिः उत्तमा दृश्यते। अनेकाः जनाः संस्कृतभाषया वार्तालापं कुर्वन्ति। अनेकानि संस्कृतशिविराणि अपि प्रचलन्ति। अस्याः उपत्यकाया: करिमगञ्ज जनपदे एक: संस्कृतग्रामः अपि अस्ति। अस्यामुपत्यकायां शिलचरजनपदे एकः चिकित्साविद्यालयः अस्ति। एकः इन्जीनियारिं कलेज अपि अस्ति। पठनपाठनस्य स्थित्यपि अस्यामुपत्यकायाम् उत्तमा अस्ति। एतादृशी वराकउपत्यकाया: स्थितिः अतीव उत्तमा वर्तते।

                                          धन्यवादा: