सामग्री पर जाएँ

सदस्यः:अर्पिता दास/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वैदिककाले कृषिव्यवस्था  

         वेदः विश्वस्य प्राचीनतमो ग्रन्थ एतद्सर्वैः सर्वथा स्वीकृतम् । वेदमुला ह्यार्यसंस्कृतिः । प्राचीनादेव कालात् एषा आर्यसंस्कृतिः प्रवाहमाना विद्यते । आर्यसंस्कृतिः समाजसत्तात्मका आसीत् । समाजेऽस्मिन् वस्त्र-आवास-भोजनम्-इत्यादयः वहवः वस्तुनाम् आवश्यकं वर्तन्ते । एतेषां मध्ये भोजनमपि मनुष्यानां कृते आत्यावश्यकीयं वर्तते । भोजनस्य मुख्याधारोऽस्ति कृषिः । कृषिशब्दः कृष् धातोः निष्पन्नो भवति । कृषिः अर्थात् पद्धतेः द्योतकम् । पाणिनीयकृत-अष्टाध्याय्यां “तृषिमृषिकृशेः काश्यपस्य” इति सूत्रमस्ति । वैदिकमतानुसारं काश्यप् ऋषिः सर्वप्रथमं कृषेः आरम्भं कृतवान् । तत् पश्चात् पाराशर-ऋषिणा कृषिपाराशरनाम्ना कृषिव्यवस्थायाः ग्रन्थरूपो दत्तवान् । पुनः केचन् मतानुसारं आदिनाथ-भगवानः आद्यैव अषि, मषि-कृषेः च व्यवस्था स्थापितवान् । ऋग्वेदे चतुर्थमण्डले अक्षसूक्ते अक्षक्रियायाः निन्दनं कृषिकार्यस्य च प्रशंसा वचनम् उपलभ्यते । तदुक्तं –

“ अक्षैर्मा दीभ्यः कृषिमित् कृषस्व वित्ते रमस्व वहु मन्यमानः ।

तत्र गावः कितवः तत्र जाया तन्मे विचष्टे सवितायमर्यः ॥” इति ।(ऋ.सं-१०/३४/१३)

       एवं कृषिकर्मणा अतीव सन्मानं धनसम्पदं च लभते । न केवलम् एतत् गोधनं पत्नीलाभः चापि अनेन कृषिकर्मणा एव साधितं भवति, अतः अक्षक्रिया न करणीयम् इति मन्त्रेऽस्मिन् उल्लिखितम् । कृषिः पवित्र अस्ति ।कृषि एव प्राणिनां जीवनं वर्तते । तदुक्तं महर्षिपाराशरेण-

“ कृषिर्धन्या कृषिर्मेध्या जन्तुनां जीवनं कृषिः ।

हिंसादिदोषयुक्तोऽपि मुच्यतेऽतिथिपूजनात् ॥” इति । (कृ.पा.-१/८)

     मानवानां कृते कृषिः अत्यन्तावश्यकीयं वर्तते ।  भूमेः अनादिसिद्धेः उर्वराशक्तेः संरक्षणं कृषिकार्य एव सम्पादितं करोति । वैदिककृषिसूक्तस्य वर्णनम् अथर्ववेदस्य तृतीयकाण्डस्य सप्तदशतमे सूक्ते सम्प्राप्यते । तस्मिन् सूक्ते ऋषिः विश्वामित्रः कृषिं प्राणीजगतस्य मानवः, पशु-पक्ष्यादयः सर्वेषां कृते सौभाग्यवर्द्धकं तथा सर्वदा कल्याणकारकं इति उच्यते । प्राणरक्षक अन्नस्योत्पत्तिः कृषिकर्मणा एव भवति । कृष्णयजुर्वेदीय तैत्तिरीयारण्यके  नवमप्रपाठकस्य भृगुवल्याम् अन्नसञ्चयरूपव्रतस्य निर्देशः दीयते –

“अन्नं बहु कुर्वीत । तद्व्रतम् । पृथिवी वा अन्नम् ॥” इति ।(तै.उ.भृ-९/१)

वैदिककृषिपद्धतिः -   

            वैदिककाले कृषकः कृषेः विभिन्नपद्धतेः विषये परिचितो आसीत् । एवं कृषिकार्ये चतस्रः पद्धतयः प्राप्यन्ते , ते क्रमशः यथा - कृषन्तः, वपन्तः, लुनन्तः, मृणन्तःच। कृषिपद्धतिना कृषकः भूमौ यः प्रथमः क्रिया करोति सोऽस्ति भूकर्षणम् । अतः कृषिकर्मणः सर्वप्रथमं साधनं वर्तते भूमिः । भूमेः कर्षणं विना अन्नोत्पादनं न भवति । भूकर्षणम् एव कृषन्तः इत्युच्यते ।   

          एवं कृषकः हलेन बारं बारं भूमिकर्षणं कृत्वा बीजवपनं करोति स्म । तस्मिन् काले बीजवपनप्रक्रियां वपन्तः इत्युच्यते ।

         बीजवपनस्यानन्तरं सिञ्चनं भवति स्म । वेदे वृष्टेः जलेन सिञ्चनं तथा अन्यस्थानात् जलमानयित्वा सिञ्चनस्य विधिः अपि प्राप्यते ।

         वपनं तथा सिञ्चनस्य अनन्तरं निराई भवति अर्थात्, समये समये शस्यस्य चतुर्दिके उत्पन्नम् अनावश्यकीयं वनादेः स्वच्छः करणीयं भवति येन भूमेः उर्वराशक्तिः शस्यैव प्राप्नोति ।

        शस्यस्य परिपक्वस्य पश्चात् लुनन्तः अर्थात् शस्यकर्तनस्य प्रक्रिया भवति । तस्मिन् समये  लुनन्तप्रक्रियायाः कृते दात्रनामकोपकरणस्य व्यवहारं अकरोत् । तत्पश्चात् लुनन्तः शस्यं बन्धनं कृत्वा खलियाने आनयति  स्म ।

       धान्यं खलियाने संग्रहित्वा अन्नं काण्डात् पृथक्करणाय मृणन्तः प्रक्रिया भवति । शस्यान् पाषाणे प्रहारं कृत्वा मृणन्तः क्रियते   स्म । मृणन्तस्य पश्चात् तृणात् तथा तुषात् शस्यं पृथक् करणीयं भवति । तत्पश्चात् रथेन शस्यं खलियानात् गृहे आनयित्वा शस्यस्य मापनकृत्वा संरक्षणस्य व्यवस्थां अकरोत् । तस्मिन् समये मापनक्रिया “उर्दर”नामकपात्रेण भवति स्म ।अन्नानां संरक्षणाय तस्मिन् समये अन्नागारस्य व्यवस्था अपि आसीत् । एवं तस्मिन् समये एव आर्यजनाः अन्नोत्पादनस्य अनेकपद्धतेः विषये सम्यकतया परिचिताः आसन्।

         यजुर्वेदे अनेकप्रकारकाः अन्नस्य नामानि प्राप्यन्ते । ते यथा -  व्रीहि, यवः, माषः, तिलः, मुद्गः, खल्वः, प्रियंगु, अणु, श्यामाकः, नीवारः, गोधूमः, मसूरः, च । तदुक्तं यजुर्वेदसंहितायाम् –

“व्रीहयश्च मे यवाश्च मे माषाश्च मे तिलाश्च

मे मुद्गाश्च मे खल्वाश्च मे प्रियङ्गवश्च

मेऽणवश्च मे श्यामाकाश्च मे नीवाराश्च मे

गोधूमाश्च मे मसूराश्च मे यज्ञेन कल्पन्ताम् ॥” इति ।(यजु.सं-१८/१२)

        अनेकप्रकारकमन्नं यज्ञेन एव कल्पन्ताम् एवं मन्त्रेऽस्मिन् स्तुतिः क्रियते ।

        एवं वैदिककालादेव आर्यजनाः सर्वेषु विषयेसु उच्चस्थानं लभते । अन्नं विना प्राणिनां मरणं निश्चितमेव । अतः आर्यजनाः कृषेः अनेकोपकरणं, प्रक्रियायाः ज्ञानम्, कृषेः अनेको विधिः, सिञ्चनस्य साधनानि तथा शस्यादिनां विषये सम्यकतया परिचिताः आसन् । एवं वैदिककालादेव आर्यजनाः कृषिकार्यं प्रधानकार्यरूपेण स्वीकृत्य ब्रह्मस्वरूप-अन्नस्योत्पादने सर्वथा निरता आसन् ।

धन्यवादाः