सामग्री पर जाएँ

सदस्यः:आलोक प्रधान

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संवेदना (Sensation)

संवेदना ज्ञानस्य प्रथमसोपानं वर्तते। केनचित् प्रेरकेण जीवे जायमाना प्रथमप्रतिक्रियैव संवेदना इति वक्तुं शक्यते। यथा- कस्मिंश्चित् समतलप्रदेशे भ्रमणाय गच्छामः । तत्र दूरे कश्चन पदार्थः दृश्यते। सः पशुः अथवा प्रतिमा अथवा अन्यपदार्थ इति निर्णेतुमशक्ताः। अतः दृश्यमानवस्तुनः एतादृशज्ञानम् एव संवेदना इति कथ्यते। परन्तु यदा वयमितोपि समीपं गत्वा दृश्यमानवस्तुनः कपिलवर्णं दृष्ट्वा अश्वः इति निश्चयः भवति चेत् मनोविज्ञानदृष्ट्या तादृशज्ञानं प्रत्यक्षम् इति वदामः। जन्मसमये बालकः बाह्यजगतः विषये किमपि न जानाति । मन्दं मन्दं तस्य ज्ञानेन्द्रियाणि विकसन्ति येन सः परिवेषस्य ज्ञानं प्राप्नोति । इत्थं ज्ञानेन्द्रियैः व्यक्तौ जायमानप्रभावः संवेदना इति कथ्यते। संवेदनायै पूर्वज्ञानस्य अथवा अनुभवस्य आवश्यकता नास्ति। ज्ञानेन्द्रियैः संवेदनाः उत्पद्यन्ते, अत एताः ज्ञानद्वाराणि इत्यपि वक्तुं शक्नुमः ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:आलोक_प्रधान&oldid=483743" इत्यस्माद् प्रतिप्राप्तम्