सामग्री पर जाएँ

सदस्यः:ओमप्रकाशभट्टराई

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

उमानन्द-मन्दिरम् असमराज्यस्य गुवाहाटी-नगरे ब्रह्मपुत्रनद्याः मध्यमवर्तिनि लघुद्वीपे स्थितः अति प्रसिद्धः शिवालयः अस्ति। अयं द्वीप: उमानन्दद्वीपः अथवा पीकॉक-आइलैण्ड् इति नाम्ना प्रसिद्धम्।

        उमानन्द-मन्दिरस्य निर्माणं सप्तदशशताब्दस्य उत्तरार्धे अहोमवंशीयराजा गदाधर-सिंहेन कृतम्। अहोम-राजानां शासनकाले धर्मावलम्बनं, विशेषतः शिवोपासना बहु प्रचलिता आसीत्। ततः एषः पावनस्थलः शिवभक्तानां प्रमुखतीर्थानि मध्ये ग्राह्यम् अभवत्। यद्यपि काले काले भूकम्पादिभिः किञ्चित् हानि अभवत्, तथापि पुनर्निर्माणेन मन्दिरं सुस्थितं विराजते।
    अत्र भगवान् शिवः “उमानन्द” इति विशेषरूपेण पूज्यते।
स्थानीयकथानुसारं भगवान् शंकरः अस्मिन् द्वीपे तपः अकरोत् इति विश्वासः प्रचलितः। पुराणकथानुसारेण कामदेवस्य दहनेन एतद् स्थानं “भस्माचल:” इति नाम्ना  विख्यातम् इति श्रूयते।