सदस्यः:डॉ. मदनकुमारझा/प्रयोगपृष्ठम्
दिखावट
कर्णपुरग्रामः बिहारराज्यस्य मधुबनीमण्डालन्तर्गते सुप्रतिष्ठितः अस्ति । अयं ग्रामः पञ्चायतराज्यमपि वर्तते। अस्य ग्रामस्य आरक्षकस्थलं रुद्रपूरम् अस्ति। अस्मिन् ग्रामे प्रायशः त्रिशतं गृहाणि सन्ति । समीपस्थं रेलस्थानकं महरैलस्थानकम् अस्ति। अस्य ग्रामस्य पूर्वस्यां दिशि जटेश्वरशिवमन्दिरम् अस्ति। पश्चिमायां दिशि देवीमन्दिरम् अस्ति । यस्मिन् मन्दिरे प्रतिवर्षं चैत्रमासे शुक्लपक्षे चैत्रनवदूर्गायां समाराधनं भवति । उत्सवश्चायोज्यते ग्रामीणैः ।