सदस्यः:डॉ अजयकुमार ठाकर/प्रयोगपृष्ठम्/1

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

नत्वेवाहं जातु नासम् () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः सदसतोः पदार्थयोः कृते शोकस्य अनुचितत्वं बोधयति । पूर्वस्मिन् श्लोके अर्जुनस्य शोकनिवृत्त्यै उपदेशम् आरब्धवान् श्रीकृष्णः अर्जुनस्य पाण्डित्यपूर्णवचनानां माध्यमेन शोकः न करणीयः इति उक्तवान् । अत्र शोकः किमर्थं न करणीयः इत्यस्य समाधानं वदति । सः वदति यत्, कस्मिंश्चित् काले अहं नासं, त्वं नासिः, एते राज्ञः च नासन् इति नास्ति । एवञ्च इतः परम् अहं, त्वम्, एते राज्ञः च न भविष्यामः इत्यपि नास्ति इति ।

भावार्थः[सम्पादयतु]

संसारमात्रे वस्तुद्वयम् अस्ति । शरीरी, शरीरञ्च । अर्थात् सत्, असच्च । एते वस्तुनी अशोच्ये स्तः । अर्थात् शोकः शरीरित्वात् उत शरीरत्वात् भवितुं नार्हति । किञ्च शरीरिणः कदापि अभावः न भवति । शरीरञ्च कदापि स्थायि न भवति । एतयोः कृते एव पूर्वस्मिन् श्लोके "अशोच्यान्" इत्यस्य पदस्य उपयोगः कृतः । तस्य पदस्य टीकां कर्तुं भगवान् शरीरिणः नित्यतायाः, शरीरस्य अनित्यतायाः च उपस्थापनं करोति । 'न त्वेवाहं जातु... जनाधिपाः' – लौकिकदृष्ट्या यावता मया एषः अवतारः (श्रीकृष्णरूपेण) न स्वीकृतः आसीत्, तावता अहम् अप्रत्यक्षः, अप्रकटश्च आसम् । त्वमपि यावता एतस्मिन् रूपे जन्म न प्राप्तवान् आसीत्, तावता सर्वेभ्यः अप्रकटः आसिः । एते राज्ञः अपि यावता जन्म न प्राप्तवन्तः, तावता अप्रत्यक्षाः आसन् । परन्तु अहं, त्वम्, एते राज्ञः च एतस्मिन् रूपे अप्रकटितेषु सत्सु अपि न आसन् इति नास्ति ।

"अहं, त्वम्, एते राज्ञः पूर्वे आसन्" इत्युक्ते सत्यपि विषयबोधः शक्यः आसीत् । तथापि "अहं, त्वम्, एते राज्ञः च पूर्वे नासन्" इति उक्तम् । यतो हि "पूर्वं नासन् इति नास्ति" इत्युक्ते "पूर्वे वयं सर्वे अवश्यम् आस्म" इति दृढसङ्केतः भवति । तात्पर्यम् अस्ति यत्, नित्यतत्त्वं सर्वदा नित्यम् अस्ति । तस्य कदापि अभावः न भवति । "जातु" इत्यस्य पदस्योपयोगस्य कारणम् अस्ति यत्, भूतभविष्यवर्तमानकालेषु, कस्मिंश्चित् स्थले, परिस्थितौ, अवस्थायां, घटनायां, वस्त्वित्यादिषु नित्यतत्त्वस्य किञ्चदिप अभावः असम्भवः ।

अत्र "अहम्" इत्यस्य पदस्य उपयोगेन भगवान् विलक्षणं चर्चां करोति । अग्रे चतुर्थेऽध्याये भगवान् अर्जुनं कथयिष्यति यत्, "मम, तव च अनेकानि जन्मानि जातानि । परन्तु तानि अहं जानामि, त्वं न" इति [१] । एवं भगवान् स्वस्य ईश्वरत्वं प्रकट्य जीवेभ्यः स्वस्य भिन्नत्वं प्रदर्शयिष्यति । परन्तु अत्र भगवान् जीवैः सह स्वस्य ऐक्यं प्रदर्शयति । अर्थात् चतुर्थेऽध्याये भगवान् स्वस्य महत्तां, विशेषतां च प्रकटयति, अत्र च तात्त्विकदृष्या नित्यत्त्वं प्रदर्शयति ।

'न चैव... वयमतः परम्' – भविष्ये शरीराणाम् एतादृशी अवस्था न भविष्यति । एकस्मिन् दिने शरीराणि अपि न भविष्यन्ति । परन्तु तादृशीषु अवस्थासु सर्वे न भविष्यन्ति इति नास्ति । अर्थात् वयं सर्वे अवश्यं भविष्यामः । किञ्च नित्यतत्त्वस्य कदापि अभावः नासीत्, न भविष्यति च । अहं, त्वम्, एते राज्ञः च सर्वे पूर्वमपि नासन् इति नास्ति, अग्रेऽपि न भविष्यामः इत्यपि नास्ति । एवं भूतभविष्ययोः चर्चां भगवान् कृतवान् । परन्तु वर्तमानस्य विषये भगवान् किमपि नावदत् । यतः शरीरस्य दृष्ट्या वयं सर्वे सद्यः प्रत्यक्षाः स्मः । तस्मिन् विषये न कस्यापि संशयः अस्ति । अतः "वयम् अधुना न स्मः इति नास्ति" इति भगवान् नावदत् । यदि तात्त्विकदृष्ट्या पश्यामः, तर्हि वयं सर्वे अधुना स्मः । केवलं शरीरमिदं प्रतिक्षणं परिवर्तितं भवति । एतस्मात् शरीरात् भिन्नत्वानुभवः अस्माभिः वर्तमानकाले एव करणीयः । तात्पर्यम् अस्ति यत्, यथा भूतभविष्ययोः स्वस्य सत्तायाः अभावः नास्ति, तथैव वर्तमानकालेऽपि स्वस्य सत्तायाः अभावः नास्ति इत्यनुभवः करणीयः । यथा प्रत्येकप्राणी निद्रायाः जागरूकात् प्राग् अपि "अधुना अहमस्मि" इत्यस्य अनुभवं करोति, तथा निद्राभङ्गोत्तरम् अपि "अहम् अधुना अस्मि" इति अनुभवति । निद्रावस्थायां, जागरूकावस्थायां च वयं तु तथैव आस्म, केवलं बाह्य ज्ञानसामग्रीणाम् अभावः आसीत्, परन्तु अस्माकम् अभावः नासीत् । एवम् अहं, त्वम् एते राज्ञः च एतेभ्यः शरीरेभ्यः प्राग् अपि आस्म, पश्चात् अपि भविष्यामः । एतत् शरीरम् अधुनापि नाशं प्रति गच्छत् अस्ति, परन्तु अस्माकं सत्ता पूर्वमपि आसीत्, पश्चात् भविष्यति, अधुनापि अस्ति च । अस्माकं सत्ता कालातीता अस्ति । किञ्च वयं सर्वे कालज्ञातारः स्मः । अर्थात् भूतभविष्यवर्तमानानां त्रिकालानां ज्ञातारः । तत् कालातीततत्त्वं बोधयितुम् एव भगवान् एनं श्लोकम् अवदत् ।

मर्मः[सम्पादयतु]

"अहं, त्वम्, एते राज्ञः च पूर्वे नासन् इति नास्ति, अग्रे न भविष्यन्ति इत्यपि नास्ति" इत्यस्य तात्पर्यम् अस्ति यत्, यदा शरीराणि नासन्, तदा वयं सर्वे आस्म । यदा शरीराणि न भविष्यन्ति, तदापि वयं भविष्यामः । अर्थात् एतानि शरीरादिवस्तूनि तु अनित्यानि सन्ति इति सिद्ध्यति । "शरीरात् पूर्वं वयम् आस्म, शरीरोत्तरम् अपि भविष्यामः" इत्यनेन स्वरूपस्य नित्यता सिद्ध्यति । एवं सिद्धान्तः भवति यत्, आद्यन्तौ यः भवति, सः मध्येऽपि भवति । तथा च यः आद्यन्तौ न भवति, सः मध्येऽपि न भवति इति ।

यः आद्यन्तौ न भवति, सः मध्ये कथं न भवति ? इति । वर्तमाने तु वयं तत् द्रष्टुं शक्नुमः खलु ? तस्योत्तरम् अस्ति यत्, यत् दृष्ट्या अर्थात् मनोबुद्धीन्द्रैः दृश्यम् अस्ति, तत् दृश्यं मनोबुद्धीन्द्रियसहितं प्रतिक्षणं परिवर्तनशीलम् अस्ति । तत् एकक्षणम् अपि स्थायि न भवति । परन्तु यदा स्वस्य दृश्येन सह तादात्म्यसम्बन्धः स्थापितः भवति, तदा सः दृष्टा भवति । यदि दृश्यमाध्यमानि (मनोबुद्धीन्द्रियाणि), दृश्यं (मनोबुद्धीन्द्रियाणां विषयाः) च एकक्षणम् अपि स्थायित्वं न प्राप्नुवन्ति, तर्हि दृष्टा स्थायी कथम् ? तात्पर्यम् अस्ति यत्, दृष्टा संज्ञा दृश्यस्य, दर्शनस्य च सम्बन्धेन एव । दृश्यदर्शनयोः सम्बन्धाभावे 'दृष्टा' इति संज्ञा तु न भवत्येव । प्रत्युत तयोः आधारभूतं नित्यत्त्वम् एव अवशिष्यते । तत् नित्यत्त्वम् अस्माकं सर्वेषां कारणं, प्रलयाधारादीनां प्रकाशकं च वक्तुं शक्नुमः । परन्तु तत्र आधेयः, प्रकाश्यश्च इत्येतयोः सम्बन्धौ एव स्तः । आधेयप्रकाश्ययोः असत्ययोः अपि तस्य सत्ता तथैव भवति । तत् सत्यतत्त्वं प्रति यस्य दृष्टिः भवति, सः शोकं कथं कुर्यात् ? अर्थात् सः कदापि शोकं न करोति । एवम् अहं, त्वम्, एते राज्ञः च अशोच्याः ।

भाष्यार्थः[सम्पादयतु]

ते भीष्मादयः अशोच्याः कथम् ? यतः ते नित्याः सन्ति । कथं ते नित्याः ? चेत्, -

कस्मिंश्चित् काले अहं नासम् इति नास्ति, यतः अवश्यम् आसम् । अर्थात् भूतपूर्वशरीराणाम् उत्पत्तौ, विनाशे च अहं सर्वदा आसम् । तथैव त्वम्, एते राज्ञः चापि आसन् । इतः परम् अर्थात् एतेषां शरीराणां नाशे सत्यपि वयं भविष्यामः । त्रिषु कालेषु आत्मरूपे सर्वे नित्याः इत्यभिप्रायः । अत्र देहभेदत्वात् बहुवचनान्तस्य प्रयोगः, न तु आत्मभेदाभिप्रायत्वात् ।

भाष्यार्थः[सम्पादयतु]

अहं सर्वेश्वरः वर्तमानकालात् पूर्वमपि अनादिकालेऽवश्यम् आसम् । मम शासने स्थिताः त्वया सहितम् एते क्षेत्रज्ञाः (आत्मानः) अपि पुरा अवश्यम् आसन् । अहं, त्वम्, एते च अग्रे न भविष्यामः इति नास्ति, अर्थात् अग्रे निश्चयेन भविष्यामः । यथाहं सर्वेश्वरः परमात्मा नित्यः इत्यस्मिन् न कोऽपि सन्देहः, तथैव क्षेत्रज्ञात्मगणोऽपि निस्सन्देहः नित्यः इति बोध्यम् ।

भगवतः सर्वेश्वरात् परमात्मनः जीवानां, जीवानां परस्परं भेदः च यथार्थः अस्ति इति भगवता उक्तेन अनेन श्लोकेन प्रतीयते । किञ्च भगवान् अज्ञानमोहितम् अर्जुनं प्रति अज्ञाननिवृत्त्यै पारमार्थिकनित्यतायाः उपदेशं कुर्वन् "अहं", "त्वम्", "इमे", "सर्वे", "वयम्" इत्येतेषां पदानाम् उपयोगः कुर्वाणः अस्ति ।

उपाधिकृतस्य आत्मभेदस्य स्वीकारे सति आत्मनां भेदः तात्त्विकः न सिद्ध्यति । अतः तत्त्वज्ञानस्य उपदेशं कुर्वन् भेदानाम् उपदेशः सुसङ्गतः न । भगवता उक्त एष आत्मभेदः स्वाभाविकः अस्ति । एतदेव वचनं श्रुतौ अपि विद्यते यत् – अनेकेषां नित्यचेतनात्मनां यः एकः नित्यः चेतनात्मा अस्ति, सः तेषां कामनाः पूर्णयति इति [२] । आत्मभेददृष्टिम् अज्ञानजनितमन्यमानस्य मते यः दोषः भवति, तं प्रदर्शयति । परमार्थदृष्ट्या ये युक्तपरमपुरुषाः निर्विशेषकूटस्थस्य नित्यचैतन्यात्मानः यथार्थस्वरूपस्य साक्षात्कारं कृतवन्तः, तेषु अज्ञानस्य, अज्ञानसम्बद्धकार्याणां च अभावः अस्ति । अत एव तैः अज्ञानजनितभेददर्शनस्य, अज्ञानजनितोपदेशादिनां च व्यवहारः असम्भवः ।

यः अद्वैतज्ञानप्राप्तः परमपुरुषः श्रीकृष्णः अस्ति, तस्य बाधितानुवृत्तिरूपं भेदज्ञानमेतत् दग्धवस्त्रादिवत् तस्य कृते बन्धनकारकं नास्ति इति यदि कथयामः, तर्हि तत् असङ्गतं सिद्ध्यति । यतः मृगतृष्णादिषु जायमानं जलज्ञानं वास्तविकज्ञानेन बाधिते सति तत् (मृगतृष्णादि) पूर्ववत् दृश्यमाने सत्यपि जलं प्राप्तुं प्रेरकं न भवति । एवम् अत्रापि अद्वैतज्ञानात् बाधितं भेदज्ञानं कथनमात्राय एव अवशिष्टम् अस्ति । परन्तु तस्य ज्ञानस्य मिथ्यात्वे सिद्धे सति तत् ज्ञानम् उपदेशादीनां प्रवृत्तिकारणं न भवितुम् अर्हति । एतस्मात् अतिरिक्तम् एवमपि वक्तुं न शक्नुमः यत्, ईश्वरः पुरा ज्ञानी आसीत्, ततः सः शास्त्रैः तत्त्वज्ञानं प्राप्तवान् एवं तस्मिन् बाधितानुवृत्तिद्वैतभावः अवशिष्टः इति । यतः एवम् उक्ते सति "यः सर्वज्ञः सर्वविद् अस्ति" [३], तस्य परमेश्वरस्य ज्ञानबलक्रियारूपस्वाभाविकी पराशक्तिः विविधप्रकारकी श्रूयते [४], हे अर्जुन ! अहं भूतवर्तमानभविष्येषु उत्पन्नान् सर्वान् प्राणिनः जानामि, मां कोऽपि न जानाति [५] इत्यादिषु श्रुतिस्मृतिभ्यः तत् विरुद्धम् अस्ति ।

तथा च भेदवादम् अज्ञानजनितमन्यमानैः वक्तव्यं भवति यत्, परमपुरुषाः, एतावता सर्वाः गुरुपरम्पाराः च अद्वितीयात्मरूपस्य निश्चये जाते सति कल्पितभेदज्ञानावशिष्टे सत्यपि स्वनिश्चयानुगुणम् अद्वितीयात्मज्ञानस्य उपदेशं कं प्रति कुर्वन्ति ? इति । प्रतिबिम्बवत् प्रतीयमानम् अर्जुनं प्रति करोति इति यदि वदामः, तर्हि तत् अयोग्यम् । किञ्च यः कोऽपि अनुन्मत्तः मनुष्यः मणिः, असिः, दर्पणः इत्यादिषु दृश्यमानं प्रतिबिम्बं दृष्ट्वा स्वस्य, प्रतिबिम्बस्य भेदं जानाति एव । एवं सः स्वं प्रतिबिम्बं प्रति किमपि उपदेशनं न करोति ।

ते अद्वैतवादिनः एतस्मिन् प्रसङ्गे बाधितानुवृत्तिम् अपि सिद्धयितुं न प्रभवन्ति । यतो हि भेदज्ञानस्य बाधकेन अद्वितीयात्मज्ञानेन आत्मातिरिक्तान्यभेदज्ञानस्य कारणरूपाज्ञानदीनाम् अभावः जातः अस्ति । दृष्टिदोषत्वात् द्वयोः चन्द्रमसोः दर्शनादिषु तु चन्द्रमसः एकत्वज्ञाने सत्यपि चक्षुदोषनाशाभावात् बाधितानुवृत्तिः उचिता अस्ति । तथा च द्वयोः चन्द्रमसोः दर्शनादि पूर्ववत् स्थिते सत्यपि प्रबलप्रमाणबाधिते सति सः किमपि कर्तुं न शक्नोति । परन्तु अत्र अद्वैतज्ञानस्य विषये तु विषयकारणसहितं भेदज्ञानं मिथ्या अस्ति । अतः वस्तोः यथार्थज्ञानेन तस्य समूलविनाशः भवति । एतादृश्यां स्थितौ बाधितानुवृत्तिः तु असम्भवा एव । अतः अद्वैतसिद्धान्तानुगुणं यदि सर्वेश्वरः, एतावताः सर्वाः गुरुपरम्पराः च तत्त्वज्ञानं धरते, तर्हि तेषां कार्यम्, उपदेशादि च असम्भवम् अस्ति ।

तेषु भेददर्शनम् अवशिष्यते इति यदि उच्यते, तर्हि अज्ञानम्, अज्ञानकारणं च अवशिष्टे सति तेऽपि अज्ञानिनः सिद्ध्यन्ति । अतः तैः एतादृशः उपदेशः कदापि सम्भवः नास्ति । एतत् अतिरिच्य गुरोः अद्वितीयात्मज्ञाने सत्येव ब्रह्मणः अज्ञानस्य कार्यसहितात्यन्ते अभावे सति शिष्यं प्रति उपदेशः व्यर्थः अस्ति । गुरुः, तस्य ज्ञानं च कल्पितम् अस्ति इति वदामः, तर्हि शिष्यः, तस्य ज्ञानम् अपि कल्पितम् अस्ति । अतः सोऽपि अज्ञाननिवर्तकः न भविष्यति । शिष्यः कल्पिते सत्यपि अज्ञानविरोधी अस्ति, अतः तस्य निवर्तकत्वं भवति इति यदि वदामः, तर्हि आचार्यस्य ज्ञानेऽपि तादृशी शक्तिरेव विद्यते । एवं स एव समस्ताज्ञानस्य निवर्तकः भवति । एवपि उपदेशः तु व्यर्थः एव । अत एव यस्योपरि खण्डनं जातम् अस्ति, तस्मात् असमीचीनवादात् (असङ्गतसिद्धान्तात्) अस्माकं किमपि प्रयोजनं नास्ति ।

  1. गीता, अ. ४, श्लो. ५
  2. नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्, श्वेताश्वतरोपनिषद्, ६/१३
  3. यः सर्वज्ञः सर्ववित्, मुण्डकोपनिषद्, १/१/९
  4. परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च, श्वेताश्वतरोपनिषद्, ६/८
  5. गीता, अ. ७, श्लो. २६
    वेदाहं समतीतानि वर्तमानानि चार्जुन ।
    भविष्याणि च भूतानि मां तु वेद न कश्चन ।।