सदस्यः:डॉ मोहनभाई पटेल/प्रयोगपृष्ठम्/1

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

जलवायुः[सम्पादयतु]

आन्ध्रप्रदेश-राज्यस्य जलवायुः आर्द्रः, उष्णकटिबन्धीयः च भवति । अस्मिन् प्रदेशे अक्टूबर-मासतः फरवरी-मासपर्यन्तं शीतर्तुः भवति । शीतर्तौ अस्य प्रदेशस्य तापमानं १० तः १२ डिग्रीसेल्सियसमात्रात्मकं भवति । मार्च-मासतः जून-मासपर्यन्तं तत्र ग्रीष्मर्तुः भवति । ग्रीष्मर्तौ वातावरणम् अत्युष्णं भवति । तस्मिन् समये अस्य प्रदेशस्य तापमानं प्रायः २३ तः २८ डिग्रीसेल्सियसमात्रात्मकं भवति । जुलाई-मासतः सितम्बर-मासपर्यन्तम् तत्र वर्षर्तुः भवति [१]

जनसङ्ख्या[सम्पादयतु]

ई. स. २०११ तमस्य वर्षस्य जनगणनानुसारम् आन्ध्रप्रदेश-राज्यस्य जनसङ्ख्या ८,४६,६५,५३३ अस्ति । तेषु ४,२५,०९,८८१ पुरुषाः, ४,२१,५५,६५२ महिलाः च सन्ति । अस्मिन् राज्ये प्रतिचतुरस्रकिलोमीटरमिते ३०८ जनाः वसन्ति अर्थात् अस्य राज्यस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३०८ जनाः । आन्ध्रप्रदेश-राज्ये पुरुषस्त्रियोः अनुपातः १०००-९९२ अस्ति [२] । प्रदेशेऽस्मिन् सर्वधर्माणां जनाः निवसन्ति । तेषु हिन्दुधर्मस्य ८८.५ प्रतिशतं जनाः, इस्लामधर्मस्य ९.६ जनाः, अन्यधर्माणां १.९ प्रतिशतं जनाः च निवसन्ति । अस्मिन् राज्ये तेलुगु-भाषा, उर्दु-भाषा च व्यवह्रीयते । एते अस्य प्रदेशस्य प्रमुखे भाषे स्तः । किन्तु साम्प्रतम् आङ्ग्ल-भाषायाः प्रभावः अधिकः वर्तते । अतः आङ्ग्ल-भाषा अपि अधिकाधिकं व्यवह्रीयते । प्रदेशेऽस्मिन् तमिळ-जनाः अपि निवसन्ति । ते तमिल-भाषायां व्यवहारं कुर्वन्ति ।

महानगराणि[सम्पादयतु]

आन्ध्रप्रदेशराज्ये चत्वारि प्रमुखनगराणि सन्ति । विशाखापट्टनम-नगरं, तिरुपति-नगरं, कर्नूलु-नगरं, गुण्टूर-नगरं च [३]

विशाखापट्टनम[सम्पादयतु]

विशाखापट्टनम-नगरं भारतस्य आन्ध्रप्रदेश-राज्यस्य विशाखापट्टनम-मण्डलस्य मुख्यालयः वर्तते । इदं नगरं “विजाग” इति नाम्ना अपि प्रसिद्धम् अस्ति । नगरमिदम् आन्ध्रप्रदेश-राज्य प्रसिद्धः पोताश्रयः वर्तते । विशाखापट्टनम-नगरं भारतस्य दक्षिण-पूर्वसमुद्रतटे स्थितम् अस्ति । इदम् आन्ध्रप्रदेशराज्यस्य विकासशीलनगरेषु अन्यतमम् अस्ति । मुख्यतया इदं नगरम् औद्योगिकं वर्तते । अस्य नगरस्य इतिहासः अपि समृद्धः वर्तते । अस्य नगरस्य पूर्वदिशि बङ्गाल-समुद्रकुक्षिः अस्ति । नगरमिदं “भाग्यनगरम्” अपि कथ्यते । प्रायः २००० वर्षाणि प्राक् विशाखापट्टनम-नगरे “विशाखा वर्मा” इत्याख्यः राजा शासनं करोति स्म । रामायणे, महाभारते चापि अस्य नगरस्य उल्लेखः प्राप्यते । ई. स. २६० तमे वर्षे नगरमिदं कलिङ्ग-राज्यस्य कश्चन भागः आसीत् । तस्मिन् काले अशोक-राज्ञः शासनम् आसीत् । अनन्तरं ई. स. १६०० तमवर्षपर्यन्तं विशाखापट्टनम-नगरम् उत्कल-राज्यान्तर्गतम् आसीत् । ततः परम् अस्मिन् नगरे पल्लव-राजभिः, मुगल-शासकैः च शासनं कृतम् । अनन्तरं फ्रेञ्च्-जनाः अपि विशाखापट्टनम-नगरं शासितम् आसीत् । विशाखापट्टनम-नगरस्य समीपे बहूनि पर्यटनस्थलानि सन्ति । समुद्रतटानि, पर्वताः, प्राकृतिकं सौन्दर्यं च अस्य नगरस्य आकर्षणकेन्द्राणि सन्ति । इदं नगरं परितः त्रयः पर्वताः सन्ति । “वेङ्कटेश्वर कोण्डा-पर्वतः”, “रॉस्-पर्वतः”, “दरगाह-कोण्डा-पर्वतः” च । एतेषु पर्वतेषु विभिन्नधर्माणां पवित्रस्थलानि स्थितानि सन्ति । वेङ्कटेश्वरा-पर्वते भगवतः शिवस्य मन्दिरं विद्यते । रॉस्–पर्वते “वर्जिन् मैरी चर्च्” स्थितम् अस्ति । दरगाह-कोण्डा-पर्वते मुस्लिमसन्तस्य “बाबा इशाक मदीना” इत्याख्यस्य समाधिः अस्ति । ऋषिकोण्डा-समुद्रतटं, गङ्गावरम-समुद्रतटं, भिमली, यारदा-समुद्रतटं च विशाखापट्टनम-नगरस्य पूर्वभागे स्थितम् अस्ति । कैलासगिरि हिल् पार्क्, सिंहचलम पर्वताः, अरकू घाटी, कम्बलकोण्डा-वन्यजीवाभयारण्यं, सबमरीन-सङ्ग्रहालयः, नवल-सङ्ग्रहालयः इत्यादीनि अस्य नगरस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । अस्मिन् नगरे विशाखा-उत्सवः प्रसिद्धः अस्ति । अयम् उत्सवः दिसम्बर-जनवरी-मासयोः आचर्यते । अस्मिन् उत्सवे भारतस्य विभिन्न-नगरेभ्यः जनाः तत्र गच्छन्ति । विशाखापट्टनम-नगरस्य जलवायुः उष्णकटिबन्धीयः भवति । अतः ग्रीष्मर्तौ वातावरणम् अत्यधिकम् उष्णं, शीतर्तौ च वातावरणं शीतलं भवति । अक्टूबर-मासतः मार्च-मासपर्यन्तम् अस्य नगरस्य वातावरणं सामान्यं, मनोहरं च भवति अतः तस्मिन् काले विशाखापट्टनम-नगरस्य भ्रमणार्थं गन्तव्यम् । विशाखापट्टनम-नगरं ५ क्रमाङ्कस्य, ७ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमौ राष्ट्रियराजमार्गौ विशाखापट्टनम-नगरं भारतस्य विभिन्ननगरैः सह सञ्योजयतः । आन्ध्रप्रदेश-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः तिरुपति-नगरं गन्तुं शक्यते । विशाखापट्टनम-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः विशाखापट्टनम-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकम् आन्ध्रप्रदेश-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । अस्मात् रेलस्थानकात् मुम्बई-नगराय, देहली, हैदराबाद-नगराय, चेन्नै-नगराय इत्यादिभ्यः भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । विशाखापट्टनम-नगरे एकं विमानस्थानकम् अपि अस्ति । इदम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य, विदेशस्य च प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण विशाखापट्टनम-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया विशाखापट्टनम-नगरं प्राप्तुं शक्नुवन्ति ।

तिरुपति[सम्पादयतु]

तिरुपति-नगरं भारतस्य आन्ध्रप्रदेशराज्यस्य चित्तूर-मण्डले स्थितम् अस्ति । इदं नगरं धार्मिकं वर्तते । सांस्कृतिकरूपेण इदं नगरं भारतस्य समृद्धनगरेषु अन्यतमम् अस्ति । नगरमिदं तिरुपति-मन्दिरस्य समीपे स्थितम् अस्ति । अत एव नगरमिदं लोकप्रियम् अस्ति । तिरुपति-मन्दिरस्य निर्माणविषये स्पष्टता नास्ति । किन्तु चतुर्थशताब्द्यां बहूनां शासकानाम् अस्मिन् मन्दिरे नियन्त्रणम् आसीत् । तैः अस्य मन्दिरस्य पुनर्निमाणम् अपि कारितम् आसीत् । अस्मिन् मन्दिरे चतुर्दशशताब्द्यां मुस्लिम-शासकैः आक्रमणाणि कृतानि आसन् । ब्रिटिश्-सर्वकारैः अपि आक्रमणं कृतम् आसीत् । किन्तु मन्दिरमिदं सुरक्षितम् आसीत् । साम्प्रतमपि इदं धार्मिकस्थलं विश्वस्य सुरक्षितधार्मिकस्थलेषु अन्यतमम् अस्ति । ई. स. १९३३ तमे वर्षे मद्रास-क्षेत्रस्य विधानसभया एकस्य अधिनियमान्तर्गतं तिरुमाला-तिरुपतिदेवस्थानम-समितये अस्य मन्दिरस्य प्रबन्धनस्य नियन्त्रणस्य च अधिकाराः प्रदत्ताः । तिरुपति-नगरे भगवतः वेङ्कटेश्वरस्य मन्दिरं प्रसिद्धम् अस्ति । मन्दिरमिदं “तिरुपति बालाजी” इति नाम्ना अपि सम्पूर्णे भारते प्रसिद्धम् अस्ति । वराहमन्दिरं, पद्मावतीदेवीमन्दिरं गोविन्दराजामन्दिरं, श्रीनिवासामङ्गपुरं, अवनाक्षम्मामन्दिरम्, इस्कॉन् इत्यादीनि तिरुपति-नगरस्य प्रमुखाणि धार्मिकस्थलानि सन्ति । परशुरामेश्वरमन्दिरं, रामस्वामीमन्दिरं, कपिलातीर्थम् इत्यादीनि अपि तिरुपति-नगरस्य समीपस्थानि मन्दिराणि सन्ति । तिरुपति-नगरे वेङ्कटेश्वरप्राणी-उद्यानम् अपि अस्ति । अस्मिन् उद्याने विविधाः पशवः, विहगाः च दृश्यन्ते । तिरुपति-नगरं सांस्कृतिकम् अपि विद्यते । अस्मिन् नगरे बहवः उत्सवाः आयोज्यन्ते । “गङ्गम्मा जत्रा” अस्य नगरस्य प्रसिद्धः उत्सवः अस्ति । अयम् उत्सवः मई-मासे आयोज्यते । नगरेऽस्मिन् ब्रह्मोत्सवः अपि आयोज्यते । अयम् उत्सवः तिरुपति-नगरस्य अत्यधिकः प्रसिद्धः उत्सवः वर्तते । भारतस्य विभिन्ननगरेभ्यः बहवः जनाः तत्र गच्छन्ति । दिसम्बर-मासतः फरवरी-मासतः अस्य नगरस्य वातावरणं सामान्यं, सुखदं च भवति । तस्मिन् काले जनाः तत्र भ्रमणार्थं गच्छन्ति । ग्रीष्मर्तौ अस्य नगरस्य वातावरणम् अत्यन्तम् उष्णं भवति । अतः तस्मिन् काले यात्रायां काठिन्यं भवति । तिरुपति-नगरं ५ क्रमाङ्कस्य, ७ क्रमाङ्कस्य, १८ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमे राष्ट्रियराजमार्गाः तिरुपति-नगरं भारतस्य विभिन्ननगरैः सह सञ्योजयन्ति । आन्ध्रप्रदेश-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः तिरुपति-नगरं गन्तुं शक्यते । तिरुपति-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः तिरुपति-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकम् आन्ध्रप्रदेश-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । अस्मात् रेलस्थानकात् मुम्बई-नगराय, विशाखापट्टनम्-नगराय, हैदराबाद-नगराय, चेन्नै-नगराय इत्यादिभ्यः भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । तिरुपति-नगरे एकं विमानस्थानकम् अपि अस्ति । इदम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । किन्तु इदानीं पर्यन्तं अस्मात् विमानस्थानकात् अन्ताराष्ट्रियविमानानि न प्रचालितानि । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण तिरुपति-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया तिरुपति-नगरं प्राप्तुं शक्नुवन्ति ।

कर्नूलु[सम्पादयतु]

कर्नूलु-नगरं भारतस्य आन्ध्रप्रदेशराज्यस्य कर्नूलु-मण्डलस्य केन्द्रम् अस्ति । आन्ध्रप्रदेशराज्यस्य बृहत्तमेषु नगरेषु अन्यतमम् अस्ति इदं नगरम् । जनसङ्ख्यादृष्ट्या अपि नगरमिदं बृहद् अस्ति । इदं नगरं हन्द्री-नद्याः, तुङ्गभद्रा-नद्याः च तटे स्थितम् अस्ति । ई. स. १९५६ तः १९५६ तमवर्षपर्यन्तम् इदं नगरं आन्ध्रप्रदेशराज्यस्य राजधानी आसीत् । नगरमिदं रायलसीमायाः प्रवेशद्वारमपि कथ्यते । अस्य नगरस्य इतिहासः सांस्कृतिकः, पारम्परिकः चास्ति । अतः नगरमिदं सम्पूर्णे भारते प्रसिद्धम् अस्ति । अस्मिन् नगरे बहूनि पर्यटनस्थलानि सन्ति । बहवः दुर्गाः, मन्दिराणि च सन्ति । तत्र दुर्गेषु बहवः शिलालेखाः अपि प्राप्यन्ते । अजान्यस्वामिमन्दिरं, नागारेश्वरस्वामिमन्दिरं, वेनुगोपालस्वामिमन्दिरं, शिरडी सांई बाबा मन्दिरम् इत्यादीनि अस्य नगरस्य प्रमुखाणि धार्मिकस्थलानि सन्ति । “कण्डन्वोलू” अनेन शब्देन “कर्नूलु” शब्दः निष्पद्यते । “कण्डनवोलू” इत्ययं शब्दः तेलुगु-भाषायाः अस्ति । कर्नूलु-नगरस्य इतिहासः सहस्रवर्षाणि पुरातनः अस्ति । “झुआनजङ्ग्” इत्याख्येन चीनी-यात्रिणा लिखितम् अस्ति यत् - “यदा अहं मध्ययुगीनकाले कराची-नगराय यात्रां कुर्वन् आसम्, तदा कर्नूलु-नगरं मार्गे आसीत् । सप्तमशताब्द्यां कर्नूलु-नगरं बीजापुर-साम्राज्यस्य भागः आसीत् । किन्तु तस्मात्पूर्वं तु कृष्णदेवराया-राज्ञा कर्नूलु-नगरे शासनं कृतम् । ई. स. १६६७ तमे वर्षे मुगल-शासकैः अस्मिन् नगरे स्वस्य आधिपत्यं स्थापितम् आसीत् । कर्नूलु-नगरस्य जलवायुः उष्णकटिबन्धीयः वर्तते । अतः ग्रीष्मर्तौ अस्य नगरस्य वातावरणम् अत्यधिकम् उष्णं भवति, शीतर्तौ च शैत्यं सामान्यं भवति । अतः तस्मिन् काले कर्नूलु-नगरस्य भ्रमणं उत्तमं भवति । जनाः अक्टूबर-मासतः मार्च-मासपर्यन्तं तत्र भ्रमणार्थं गच्छन्ति । तस्मिन् समये जनाः पर्यटनस्थलानां सोत्साहेन भ्रमणं कर्तुं शक्नुवन्ति । कर्नूलु-नगरं ७ क्रमाङ्कस्य, ९ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमौ राष्ट्रियराजमार्गौ कर्नूलु-नगरं भारतस्य विभिन्ननगरैः सह सञ्योजयतः । कर्नूलु-नगरात् आन्ध्रप्रदेशस्य प्रमुखनगरेभ्यः नियमितरूपेण बसयानानि, भाटकयानानि वा प्राप्यन्ते । आन्ध्रप्रदेश-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः कर्नूलु-नगरं गन्तुं शक्यते । कर्नूलु-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः कर्नूलु-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे चत्वारि रेलस्थानकानि सन्ति । १ कर्नूलु टाउन् रेलस्थानकं, २ अदोनी-रेलस्थानकं, ३ नन्दयाल-रेलस्थानकं, ४ धोने-रेलस्थान्नकं च । एतानि रेलस्थानकानि आन्ध्रप्रदेशराज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमानि सन्ति । एतेभ्यः रेलस्थानकेभ्यः मुम्बई-नगराय, देहली, हैदराबाद-नगराय, चेन्नै-नगराय इत्यादिभ्यः भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । कर्नूलु-नगरे विमानस्थानकं नास्ति । हैदराबाद-नगरस्य विमानस्थानकं कर्नूलु-नगरस्य समीपस्थम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । कर्नूलु-नगरात् इदं विमानस्थानकं २१३ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य, विदेशस्य च प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण कर्नूलु-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया कर्नूलु-नगरं प्राप्तुं शक्नुवन्ति ।

गुण्टूर[सम्पादयतु]

गुण्टूर-नगरं भारतस्य आन्ध्रप्रदेशराज्यस्य गुण्टूर-मण्डलस्य मुख्यालयः अस्ति । इदं नगरं बङ्गाल-समुद्रकुक्ष्याः ६० किलोमीटरमिते दूरे स्थितम् अस्ति । नगरमिदं हैदराबाद-नगरस्य दक्षिणपूर्वदिशि स्थितम् अस्ति । गुण्टूर-नगरम् आन्ध्रप्रदेशराज्यस्य शैक्षणिकनगरं, प्रशासनिकनगरं च कथ्यते । यतः अस्मिन् नगरे बहूनि शैक्षणिकं प्रशासनिकं च सङ्घटनानि सन्ति । नगरमिदम् आन्ध्रप्रदेशराज्यस्य विकसितनगरेषु अन्यतमम् अस्ति । गुण्टूर-नगरम् आन्ध्रप्रदेशराज्यस्य प्रमुखं पर्यटनस्थलं वर्तते । “कोदाविद्दु-दुर्गः”, “उन्दावल्ली-गुहाः”, “अमरावती”, “उप्पालपादु-उद्यानं”, “प्रकासम बैरज” इत्यादीनि स्थलानि गुण्टूर-नगरस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । अस्य नगरस्य इतिहासः अपि पुरातनः अस्ति । अस्मिन् नगरे बहवः शिलालेखाः अपि प्राप्ताः । तेषां शिलालेखानुसारम् अस्य नगरस्य प्राचीनं नाम ग्रथापुरी आसीत् । अस्य आधुनिकः इतिहासः अपि विशिष्टः वर्तते । फ्रेञ्च्-जनाः अपि अस्य विकासेन प्रभाविताः आसन् । अतः एव तैः ई. स. १९५२ तमे वर्षे गुण्टूर-नगरं मुख्यालयत्वेन स्थापितम् । अनन्तरम् अस्मिन् नगरे निजाम-शासकैः, “हैदरा अली” इत्याख्येन शासकेन च शासनं कृतम् । ई. स. १७८८ तमे वर्षे आङ्ग्लैः अस्मिन् नगरे पूर्णतया आधिपत्यं स्थापितम् । गुण्टूर-नगरस्य जलवायुः उष्णकटिबन्धीयः अस्ति । अतः ग्रीष्मर्तौ अस्य नगरस्य वातावरणं उष्णं, शुष्कं च भवति । शीतर्तौ च वातावरणं शीतलं भवति । जनाः अक्टूबर-मासतः मार्च-मासपर्यन्तं भ्रमणार्थं तत्र गच्छन्ति । गुण्टूर-नगरं ५ क्रमाङ्कस्य, ९ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमौ राष्ट्रियराजमार्गौ गुण्टूर-नगरं भारतस्य विभिन्ननगरैः सह सञ्योजयतः । गुण्टूर-नगरात् आन्ध्रप्रदेशस्य प्रमुखनगरेभ्यः नियमितरूपेण बसयानानि, भाटकयानानि वा प्राप्यन्ते । आन्ध्रप्रदेश-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः गुण्टूर-नगरं गन्तुं शक्यते । गुण्टूर-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः गुण्टूर-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकम् आन्ध्रप्रदेशराज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । अस्मात् रेलस्थानकात् मुम्बई-नगराय, देहली, हैदराबाद-नगराय, चेन्नै-नगराय इत्यादिभ्यः भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । गुण्टूर-नगरे विमानस्थानकं नास्ति । विजयवाडा-नगरस्य विमानस्थानकं गुण्टूर-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । गुण्टूर-नगरात् इदं विमानस्थानकं ९६ किलोमीटरमिते दूरे स्थितम् अस्ति । हैदराबाद-नगरस्य विमानस्थानकं गुण्टूर-नगरस्य समीपस्थं अन्ताराष्ट्रियविमानस्थानकम् अस्ति । गुण्टूर-नगरात् इदं विमानस्थानकं २५० किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य, विदेशस्य च प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण गुण्टूर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया गुण्टूर-नगरं प्राप्तुं शक्नुवन्ति ।

शिक्षणम्[सम्पादयतु]

ई. स. २०११ वर्षस्य जनगणनानुसारं आन्ध्रप्रदेश-राज्यस्य साक्षरतामानं ६७.६६ प्रतिशतम् अस्ति । तेषु पुरुषाणां साक्षरतामानं ७५.५० प्रतिशतं, स्त्रीणां च ५९.७४ प्रतिशतं च अस्ति । चित्तूर-नगरस्य “द्रविड-विश्वविद्यालयः”, विशाखापट्टनम-नगरस्य “आन्ध्रविश्वविद्यालयः”, । अनन्तपुर-नगरस्य “श्रीकृष्णदेव राय विश्वविद्यालयः” इत्यादीनि आन्ध्रप्रदेशस्य प्रमुखाणि शैक्षणिकानि संस्थानानि सन्ति । राज्येऽस्मिन् बहूनि संशोधनकेन्द्राणि अपि सन्ति । राष्ट्रियभू-भौतिकानुसन्धानसंस्थानं, सेण्ट्रल् ऑफ् इङ्ग्लिश् एण्ड् फॉरेन् लेङ्ग्वेज्, सेण्ट्रल् टोबेको रिसर्च् सेण्टर्, नेशनल् जिओफिजिकल् रिसर्च् इन्स्टीट्यूट्, क्षेत्रीय अनुसन्धान प्रयोगशाला इत्यादीनि प्रमुखाणि संशोधनसंस्थानानि सन्ति [४]

राजनीतिः[सम्पादयतु]

आन्ध्रप्रदेश-राज्ये द्विसदनात्मकं विधानमण्डलम् अस्ति । विधानपरिषद्, विधानसभा च । अस्मिन् राज्ये विधानसभायाः २९५ स्थानानि सन्ति । राज्ये लोकसभायाः ४२, राज्यसभायाः १८ स्थानानि सन्ति । भारतीयसंविधानानुसारम् अस्मिन् राज्ये द्विसदनात्मकविधानमण्डलस्य व्यवस्था कृता । आन्ध्रप्रदेश-राज्ये ई स. १९५७ तमे वर्षे विधानपरिषद् सर्जिता । किन्तु ई. स. १९८५ तमे वर्षे इयं परिषद् स्थगिता । अनन्तरं द्वाविंशतिवर्षाण्यनन्तरम् ई. स. २००७ तमस्य वर्षस्य अप्रैल-मासस्य २ दिनाङ्के विधानपरिषद् पुनर्स्थापिता । अस्मिन् राज्ये बहवः राजनैतिकसमूहाः सन्ति । “भारतीय राष्ट्रीय कॉङ्ग्रेस्”, “ऑल् इण्डिया मजलिस्-ए-इत्तेहादुल”, “भारतीय कम्युनिस्ट् पार्टी (मार्क्स्वादी)”, “भारतीय जनता पार्टी” इत्यादीनि आन्ध्रप्रदेश-राज्यस्य प्रमुखाः राजनैतिकसमूहाः सन्ति [५]

अर्थव्यवस्था, कृषिः, उद्योगश्च[सम्पादयतु]

आन्ध्रप्रदेशस्य अर्थव्यवस्था मुख्यरूपेण कृष्याधारिता अस्ति । अस्य प्रदेशस्य ६२ प्रतिशतं जनाः कृष्याधारितान् व्यवसायान् कुर्वन्ति । तण्डुलाः, तमालपत्रं, कार्पासः, गोधूमः, ईक्षुः इत्यादीनि अस्य प्रदेशस्य प्रमुखाणि सस्यानि सन्ति । अस्य राज्यस्य गुण्टूर-मण्डलं तमालपत्रस्य प्रमुखम् उत्पादकम् अस्ति । अस्मात् प्रदेशात् भारतस्य विभिन्नराज्यान् प्रति तमालपत्राणां व्यवसायः क्रियते । विदेशे अपि तमालपत्राणां निर्यातं क्रियते । अस्मिन् राज्ये खानिजाः अपि प्राप्यन्ते । प्राकृतिकवायवः, तैलं, चूर्णपाषाणः, लौहः, स्वर्णं, रजतं, हीरकः, कौलिकेयं (Graphite), क्षीरयवः (Dolomite) इत्यादयः अस्य राज्यस्य प्रमुखाः खानिजाः सन्ति । आन्ध्रप्रदेशराज्यम् औद्योगिकदृष्ट्या अपि भारते प्रसिद्धम् अस्ति । अस्मिन् प्रदेशे वाहनावयवनिर्माणं क्रियते । विशाखापट्टनम-नगरे जलयाननिर्माणाय यन्त्रागारः अपि स्थितः अस्ति । विशाखापट्टनम-नगरं भारतस्य प्रमुखेषु पोताश्रयेषु अन्यतमम् अस्ति । “हिन्दुस्तान शिप् यार्ड् लिमिटेड्” इतीयं संस्था विशाखापट्टनम-नगरे एव स्थिता अस्ति । अनेन प्रकारेण अस्य राज्यस्य आर्थिकव्यवस्था सुदृढा वर्तते [६]

वीक्षणीयस्थलानि[सम्पादयतु]

आन्ध्रप्रदेश-राज्ये बहूनि पर्यटनस्थलानि सन्ति । “ऋषिकोण्डा-समुद्रतटं”, “डॉल्फिन् नोज्”, “सिंहाचलम-मन्दिरं”, “वेङ्कटेश्वरमन्दिरं”, “अगस्तेश्वरस्वामिमन्दिरं”, “अलमेलमुङ्गादेवीमन्दिरं”, “हार्सली-पर्वताः”, “गोविन्दराजस्वामिमन्दिरं”, “कनकदुर्गादेवीमन्दिरं”, “सेण्ट् मेरी चर्च्”, “हजरत बल मस्जिद्”, “विक्टोरिया जुबली सङ्ग्रहालयः”, “मुगल राजापुरम गुहाः”, “गण्डीकोटा-दुर्गः”, “चाँद फिरा गुम्बद”, “महावीरराजकीयसङ्ग्रहालयः” इत्यादीनि आन्ध्रप्रदेश-राज्यस्य प्रमुखाणि पर्यटनस्थलानि सन्ति । अतः जनाः प्रतिवर्षम् आन्ध्रप्रदेश-राज्यस्य पर्यटनाय गच्छन्ति [७]

पुट्टपर्थी[सम्पादयतु]

“पुट्टपर्थी” इत्येतत् स्थलं आन्ध्रप्रदेश-राज्यस्य अनन्तपुर-मण्डले स्थितम् अस्ति । नगरमिदम् आध्यात्मिकं वर्तते । “सत्य सांई बाबा” इत्याख्याय नगरमिदं प्रसिद्धम् अस्ति । इदं स्थलं चित्रावती-नद्याः तटे स्थितम् अस्ति । समुद्रतलात् इदं नगरं ४७५ मीटरमितम् उन्नतम् अस्ति । पुरा इदं नगरं “गोलापल्ली” इति नाम्ना ज्ञायते स्म । गोपालकानां गृहम् इति तस्य अर्थः भवति । अस्मिन् नगरे बहूनि पर्यटनस्थलानि स्थितानि सन्ति । हनुमान-मन्दिरं, सत्यभामा-मन्दिरं च अस्य नगरस्य प्रमुखे धार्मिकस्थले वर्तेते । पुट्टपर्थी-नगरे नैकानि शैक्षणिकसंस्थानानि, सांस्कृतिकसंस्थानानि चापि सन्ति । मार्च-मासतः जून-मासपर्यन्तं नगरेऽस्मिन् औष्ण्यम् अधिकं भवति । सितम्बर-मासतः फरवरी-मासपर्यन्तं अस्य नगरस्य वातावरणं मनोहरं भवति । अतः जनाः प्रायः तस्मिन् काले पुट्टपर्थी-नगरं गच्छन्ति । पुट्टपर्थी-नगरं ७ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः पुट्टपर्थी-नगरं भारतस्य विभिन्ननगरैः सह सञ्योजयति । आन्ध्रप्रदेश-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः पुट्टपर्थी-नगरं गन्तुं शक्यते । पुट्टपर्थी-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः पुट्टपर्थी-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं “श्री सत्यसांई प्रशान्ति निलयम” इति नाम्ना ज्ञायते । अस्मात् रेलस्थानकात् मुम्बई-नगराय, बेङ्गळूरु-नगराय, विशाखापट्टनम्-नगराय, हैदराबाद-नगराय, भुवनेश्वर-नगराय इत्यादिभ्यः भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । पुट्टपर्थी-नगरस्य समीपे एकं विमानस्थानकं स्थितम् अस्ति । पुट्टपर्थी-नगरात् इदं विमानस्थानकं ४ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं “सत्य सांई” इति नाम्ना विख्यातम् अस्ति । इदं राष्ट्रियविमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण पुट्टपर्थी-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया पुट्टपर्थी-नगरं प्राप्तुं शक्नुवन्ति ।

अरकू घाटी[सम्पादयतु]

“अरकू घाटी” इत्येतत् स्थलम् आन्ध्रप्रदेश-राज्यस्य विशाखापट्टनम-मण्डलस्य एकं प्रसिद्धं पर्वतीयं क्षेत्रं विद्यते । अस्य स्थलस्य इतिहासः सांस्कृतिकः पारम्परिकश्च वर्तते । स्थलमिदं दक्षिणभारतस्य सुन्दरतमं पर्वतीयस्थलं वर्तते । अस्मिन् क्षेत्रे प्रादेशिकचलच्चित्राणि अपि निर्मीयन्ते । स्थलमिदं ओडिशा-राज्यस्य सीमायां स्थितम् अस्ति । इदं स्थलं परितः पर्वताः स्थिताः सन्ति । तत्र कॉफीपेयोत्पादनाय उद्यानानि अपि सन्ति । अस्य स्थलस्य समीपे बहूनि वीक्षणीयस्थलानि सन्ति । “जनजातीय-सङ्ग्रहालयः”, “टाईडा”, “बोर्रा-गुहाः”, “साङ्गडा-जलप्रपाताः”, “पदमपुरम बॉटनिकल उद्यानम्” इत्यादीनि अस्य स्थलस्य समीपस्थानि पर्यटनस्थलानि सन्ति । “अरकू घाटी” अस्य स्थलस्य जलवायुः शान्तः भवति । अतः तस्य वातावरणम् अपि सुकदं एव भवति । जनाः शीतर्तौ तत्र गच्छन्ति । अरकू-नगरं ७ क्रमाङ्कस्य, ५ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमौ राष्ट्रियराजमार्गौ अरकू-नगरं भारतस्य विभिन्ननगरैः सह सञ्योजयतः । आन्ध्रप्रदेश-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः अरकू-नगरं गन्तुं शक्यते । अरकू-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः अरकू-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । अस्मात् रेलस्थानकात् मुम्बई-नगराय, विशाखापट्टनम्-नगराय, हैदराबाद-नगराय, भुवनेश्वर-नगराय इत्यादिभ्यः भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । अरकू-नगरे विमानस्थानकं नास्ति । विशाखापट्टनम-नगरस्य विमानस्थानकं अरकू-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । अरकू-नगरात् इदं विमानस्थानकं ११२ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं राष्ट्रियविमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण अरकू-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया अरकू-नगरं प्राप्तुं शक्नुवन्ति ।

नेल्लूर[सम्पादयतु]

नेल्लूर-नगरं भारतस्य आन्ध्रप्रदेश-राज्यस्य नेल्लूर-मण्डलस्य केन्द्रं विद्यते । नगरमिदम् आन्ध्रप्रदेश-राज्यस्य विकासशीलनगरेषु अन्यतमम् अस्ति । इदं नगरं पेन्ना-नद्याः तटे स्थितम् अस्ति । अस्मिन् क्षेत्रे विविधानि सस्यानि उद्याद्यन्ते । इदं नगरं तमिळनाडु-राज्येन, चेन्नै-नगरेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । “श्रीरङ्गनाथस्वामी-मन्दिरं” नेल्लूर-नगरस्य प्रमुखम् आकर्षणस्य केन्द्रं विद्यते । मन्दिरमिदं ६०० वर्षाणि पुरातनम् अस्ति । अस्मिन् मन्दिरे ७० पादोन्नतः स्तम्भः स्थितः अस्ति । अयं स्तम्भः गालिगोपुरम् इति कथ्यते । अस्य स्तम्भस्य शीर्षभागे एकः स्वर्णधातुना आवृतः कलशः स्थापितः अस्ति । नेल्लूर-नगरस्य समीपे “नेलापाट्टु-विहङ्गाभयारण्यं” स्थितम् अस्ति । तस्य विविधप्रकारकाः विहगाः दृश्यन्ते । तस्मात् १३ किलोमीटरमिते दूरे नरसिंहास्वामी-मन्दिरं स्थितम् अस्ति । नेल्लूर-नगरे बहुभिः शासकैः शासनं कृतम् आसीत् । सर्वप्रथमं मौर्य-साम्राज्यस्य शासकैः इदं नगरं शासितम् । पल्लव-वंशेन, तेलुगुचौलस-वंशेन, सप्तवाहन-वंशेन इत्यादिभिः वंशैः अस्मिन् नगरे शासनं कृतम् आसीत् । नेल्लूर-नगरस्य वातावरणम् आर्द्रम्, उष्णं च भवति । अतः जनाः शीतर्तौ अस्य नगरस्य यात्रां कुर्वन्ति । नेल्लूर-नगरं ५ क्रमाङ्कस्य, ९ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमौ राष्ट्रियराजमार्गौ नेल्लूर-नगरं भारतस्य विभिन्ननगरैः सह सञ्योजयतः । आन्ध्रप्रदेश-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः नेल्लूर-नगरं गन्तुं शक्यते । नेल्लूर-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः नेल्लूर-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । अस्मात् रेलस्थानकात् मुम्बई-नगराय, विशाखापट्टनम्-नगराय, हैदराबाद-नगराय, चेन्नै-नगराय इत्यादिभ्यः भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । नेल्लूर-नगरे विमानस्थानकं नास्ति । चेन्नै-नगरस्य विमानस्थानकं नेल्लूर-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । नेल्लूर-नगरात् इदं विमानस्थानकं १७७ किलोमीटरमिते दूरे स्थितम् अस्ति । इदम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय इत्यादिभ्यः भारतस्य, विदेशस्य च प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण नेल्लूर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया नेल्लूर-नगरं प्राप्तुं शक्नुवन्ति ।

राजमण्ड्री[सम्पादयतु]

राजमण्ड्री-नगरं भारतस्य आन्ध्रप्रदेश-राज्यस्य पूर्वगोदावरी-मण्डले स्थितम् अस्ति । नगरमिदम् आन्ध्रप्रदेश-राज्यस्य राजधानीत्वेन ज्ञायते । इदं नगरं गोदावरी-नद्याः तटे स्थितम् अस्ति । महाकविः “नन्नाया” अपि अनेन स्थलेन सह सम्बद्धः अस्ति । तेन एव तेलुगू-लिपेः कल्पना कृता आसीत् । सः तेलुगू-भाषायाः “आदिकविः” अपि कथ्यते । इदं नगरम् आन्ध्रप्रदेशस्य बृहत्तमेषु नगरेषु अन्यतमम् अस्ति । जनसङ्ख्यादृष्ट्या इदं नगरम् आन्ध्रप्रदेशस्य राज्यस्य अष्टमम् अस्ति । अपि च क्षेत्रफलदृष्ट्या इदं नगरं चतुर्थस्थाने आयाति । इदं “ग्राण्ड् सिटी ऑफ् कल्चर्” इत्यपि ज्ञायते । राजमुण्ड्री-नगरं भारतस्य प्राचीननगरेषु अन्यतमं विद्यते । चालुक्य-वंशस्य राजनरेन्द्र-नामकेन राज्ञा १००० वर्षाणि प्राक् इदं नगरं स्थापितम् । राजमुण्ड्री-नगरे बहूनि धार्मिकस्थलानि, पर्यटनस्थलानि च सन्ति । कोटिलिङ्गेश्वर-मन्दिरं, श्रीबालात्रिपुरासुन्दरी-मन्दिरं, इस्कॉन्-मन्दिरं च धार्मिकस्थलेषु प्रमुखं विद्यते । राजमुण्ड्री-नगरस्य वातावरणं सामान्यतः उष्णम्, आर्द्रं च भवति । ग्रीष्मर्तौ अस्य नगरस्य तापमानं अधिकं भवति । अतः शीतर्तौ जनाः भ्रमणार्थं तत्र गच्छन्ति । राजमुण्ड्री-नगरं ५ क्रमाङ्कस्य, ९ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमौ राष्ट्रियराजमार्गौ राजमुण्ड्री-नगरं भारतस्य विभिन्ननगरैः सह सञ्योजयतः । आन्ध्रप्रदेश-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः राजमुण्ड्री-नगरं गन्तुं शक्यते । राजमुण्ड्री-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः राजमुण्ड्री-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकम् आन्ध्रप्रदेश-राज्यस्य बृहत्तमेषु रेलस्थानकेषु अन्यतमम् अस्ति । अस्मात् रेलस्थानकात् मुम्बई-नगराय, विशाखापट्टनम्-नगराय, हैदराबाद-नगराय, चेन्नै-नगराय इत्यादिभ्यः भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । राजमुण्ड्री-नगरे एकं विमानस्थानकम् अस्ति । इदं विमानस्थानकम् राजमुण्ड्री-नगरात् १८ किलोमीटरमिते दूरे स्थितम् अस्ति । इदम् राष्ट्रियविमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण राजमुण्ड्री-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया राजमुण्ड्री-नगरं प्राप्तुं शक्नुवन्ति ।

लेपाक्षी[सम्पादयतु]

लेपाक्षी-ग्रामः भारतस्य आन्ध्रप्रदेश-राज्यस्य अनन्तपुर-मण्डले स्थितः अस्ति । बेङ्गळूरु-नगरात् अयं ग्रामः १२० किलोमीटरमितः दूरे स्थितः अस्ति । ग्रामः अयम् ऐतिहासिकः, धार्मिकश्च वर्तते । अस्य स्थलस्य समीपे लघुपर्वतः अस्ति । सः कूर्मसदृशः दृश्यते । अतः तस्य नाम “कुरमा शैला” इति अभवत् । तस्मिन् लघुशैले भगवतः श्रीरामस्य, रघुनाथस्य, वीरभ्रद्रस्य, पापनाथेश्वरस्य, दुर्गादेव्याः च मन्दिरं स्थितम् अस्ति । एतेषां मन्दिराणां वास्तुकला अपि विशिष्टा वर्तते । बहवः श्रद्धालवाः दर्शनार्थं तत्र गच्छन्ति । लेपाक्षी-ग्रामस्य वातावरणं सर्वदा सुखदं, मनोहरं च भवति । जनाः वषर्तौ, शीतर्तौ च लेपाक्षी-ग्रामं गच्छन्ति । लेपाक्षी-ग्रामः ७ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धः अस्ति । अयं राष्ट्रियराजमार्गः लेपाक्षी- ग्रामः भारतस्य विभिन्ननगरैः सह सञ्योजयति । आन्ध्रप्रदेश-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः लेपाक्षी- ग्रामं गन्तुं शक्यते । लेपाक्षी- ग्रामे भाटकयानानि अपि प्रचलन्ति । अतः तैः लेपाक्षी- ग्रामस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् ग्रामे रेलस्थानकं नास्ति । अनन्तपुर-नगरस्य रेलस्थानकम् अस्य ग्रामस्य समीपस्थं रेलस्थानकम् अस्ति । लेपाक्षी-ग्रामात् इदं रेलस्थानकं १२४ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् रेलस्थानकात् बेङ्गळूरु-नगराय, देहली-नगराय, हैदराबाद-नगराय, चेन्नै-नगराय इत्यादिभ्यः भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । लेपाक्षी-ग्रामे विमानस्थानकम् अपि नास्ति । हैदराबाद-नगरस्य विमानस्थानकम् अस्य ग्रामस्य समीपस्थं विमानस्थानकं वर्तते । अस्मात् ग्रामात् इदं विमानस्थानकं ४७८ किलोमीटरमिते दूरे स्थितम् अस्ति । इदम् अन्तराष्ट्रियविमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय इत्यादिभ्यः भारतस्य, विदेशस्य च प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण लेपाक्षी-ग्रामः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धः अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया लेपाक्षी-ग्रामं प्राप्तुं शक्नुवन्ति ।

विजयवाडा[सम्पादयतु]

विजयवाडा-नगरं भारतस्य आन्ध्रप्रदेशराज्यस्य कृष्णा-मण्डले स्थितम् अस्ति । नगरमिदम् आन्ध्रप्रदेशराज्यस्य बृहत्तमेषु नगरेषु अन्यतमम् अस्ति । इदं नगरं कृष्णानद्याः तटे स्थितम् अस्ति । कृष्णा-नदी अस्य नगरस्य दक्षिणभागे प्रवहति । अस्य नगरस्य उत्तरभागे बुडामेरू-नदी प्रवहति । एवं च विजयवाडा-नगरस्य पूर्वदिशि बङ्गाल-समुद्रकुक्षिः, पश्चिमदिशि च इन्द्रकीलाद्री-पर्वतः स्थितः अस्ति । नगरस्यास्य पश्चिमक्षेत्रे “कोण्डापल्ली रिजर्व् फॉरेस्ट्” स्थितम् अस्ति । विजयस्थलम् इति “विजयवाडा” इत्यस्य अर्थः भवति । कनकदुर्गादेव्याः नाम्ना अस्य नगरस्य नामकरणम् अभवत् । सा देवी “विजया” इति नाम्ना अपि ज्ञायते । विजयवाडा-नगरं “बैजवाडा” इति नाम्ना अपि प्रसिद्धम् अस्ति । इदं नाम प्राचीनम् अस्ति । विजवाडा-नगरं भारतस्य प्रसिद्धं पर्यटनस्थलं वर्तते । आम्रफलाय, मिष्ठान्नेभ्यः, जलप्रपातेभ्यः च नगरमिदं भारते प्रसिद्धं वर्तते । साम्प्रतं विजवाडा-नगरम् आन्ध्रप्रदेशराज्यस्य प्रमुखं व्यापारिकं, व्यावसायिकं च केन्द्रं विद्यते । इदं नगरम् आन्ध्रप्रदेश-राज्यस्य विकासशीलनगरेष अन्यतमम् अस्ति । अनेन नगरेण भविष्यत्कालस्य “ग्लोबल् सिटी” इति ख्यातिः अपि प्राप्ता । विजयवाडा-नगरे बहूभिः राजभिः शासनं कृतम् । अस्मिन् नगरे विजयनगर-साम्राज्यस्य “कृष्णदेव राया” इत्याख्येन राज्ञा शासनं कृतम् आसीत् । पौराणिककथासु अपि अस्य नगरस्य उल्लेखः प्राप्यते । मन्यते यत् – “इन्द्रकीलाद्री-पर्वते एव भगवता शिवेन अर्जुनाय वरं प्रदत्तम् आसीत्” इति । अन्याः अपि बह्व्यः मान्यताः सन्ति । यथा – “दुर्गादेव्या महिषासुर-राक्षस्य वधानन्तरं अस्मिन् स्थले एव विश्रामः कृतः” इति । विजयवाडा-नगरे बहूनि पर्यटनस्थलानि सन्ति । तत्र बहूनि धार्मिकस्थलानि अपि सन्ति । कनकदुर्गा-मन्दिरं, मङ्गलगिरिः च विजयवाडा-नगरस्य प्रमुखे धार्मिकस्थले वर्तेते । एतयोः मङ्गलगिरिः भारतस्य पुरातनतमं वैष्णवमन्दिरम् अस्ति । अस्य नगरस्य समीपे अमरावती-स्थले बहूनि शिवमन्दिराणि सन्ति । “मोगलराजपुरम्-गुहाः”, “उण्डावल्ली-गुहाः”, “गान्धि-स्तूपः”, “कोण्डापल्ली-दुर्गः”, “भवानी-द्वीपः”, “राजीवगान्धि-उद्यानम्” इत्यादीनि अस्य नगरस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । तत्र प्रकाशम-जलबन्धः अपि विद्यते । तस्मात् जलबन्धात् एकः जलप्रपातः उद्भवति । “दीपावलिः”, “विजयादशमी”, “लुम्बीनी”, “दक्कन” इत्यादयः अस्य नगरस्य प्रमुखाः उत्सवाः सन्ति । अस्य नगरस्य जनाः सोत्साहेन सर्वान् उत्सवान् आचरन्ति । अक्टूबर-मासतः मार्च-मासपर्यन्तं विजयवाडा-नगरस्य वातावरणं मनोहरं, सुखदं, शान्तं च भवति । अतः तस्मिन् समये जनाः भ्रमणार्थं तत्र गच्छन्ति । विजयवाडा-नगरं ५ क्रमाङ्कस्य, ९ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमौ राष्ट्रियराजमार्गौ विजयवाडा-नगरं भारतस्य विभिन्ननगरैः सह सञ्योजयतः । आन्ध्रप्रदेश-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः विजयवाडा-नगरं गन्तुं शक्यते । विजयवाडा-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः विजयवाडा-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकम् आन्ध्रप्रदेश-राज्यस्य बृहत्तमेषु रेलस्थानकेषु अन्यतमम् अस्ति । अस्मात् रेलस्थानकात् मुम्बई-नगराय, विशाखापट्टनम्-नगराय, हैदराबाद-नगराय, चेन्नै-नगराय इत्यादिभ्यः भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । विजयवाडा-नगरे एकं विमानस्थानकम् अस्ति । इदं विमानस्थानकं विजयवाडा-नगरात् २० किलोमीटरमिते दूरे गन्नावारम्-स्थले स्थितम् अस्ति । इदम् राष्ट्रियविमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण विजयवाडा-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया विजयवाडा-नगरं प्राप्तुं शक्नुवन्ति ।

अमरावती[सम्पादयतु]

अमरावती-नगरं भारतस्य आन्ध्रप्रदेशराज्यस्य गुण्टूर-मण्डले स्थितम् अस्ति । नगरमिदं कृष्णानद्याः तटे स्थितम् अस्ति । अस्मिन् नगरे अमरेश्वर-मन्दिरं विद्यते । अस्मै मन्दिराय इदं नगरं सम्पूर्णे भारते प्रसिद्धम् अस्ति । भारतस्य बृहत्तमेषु बौद्धस्तूपेषु एकःस्तूपः अमरावती-नगरे अपि स्थितः अस्ति । अस्मै स्तूपाय अपि नगरमिदं भारते प्रसिद्धम् अस्ति । “अयं स्तूपः मौर्यसाम्राज्यस्य स्थापनायाः पूर्वमेव स्थापितः आसीत्” इति मन्यते । तस्मिन् काले इदं नगरं “धान्यकटक”, “धरणीकोटा” वा इति नाम्ना ज्ञायते स्म । इदं नगरं सप्तवाहन-वंशस्य राजधानी आसीत् । सप्तवाहन-वंशजः आन्ध्रप्रदेशस्य प्रथमः शासकः आसीत् । तेन ई. पू. द्वितीयशताब्दीतः ई. तृतीयशताब्दीपर्यन्ते काले अस्य राज्यस्य स्थापना कृता आसीत् । अस्मिन् नगरे एव भगवता बुद्धेन उपदेशः प्रदत्तः, कालचक्रसमारोहस्य आयोजनं च कृतम् आसीत् । अतः “अमरावती-नगरम् ऐतिहासिकम् अस्ति” इति निश्चयेन कथ्यते । तत्र एकः सङ्ग्रहालयः अपि अस्ति । अस्य नगरस्य जलवायुः उष्णकटिबन्धीयः भवति । अतः ग्रीष्मर्तौ अस्य नगरस्य वातावरणम् अत्यधिकम् उष्णं, शुष्कं च भवति । शीतर्तौ च शैत्यम् अपि अधिकं भवति । जनाः सितम्बर-मासतः दिसम्बर-मासपर्यन्तं भ्रमणार्थं तत्र गच्छन्ति । अमरावती-नगरं ५ क्रमाङ्कस्य, ९ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमौ राष्ट्रियराजमार्गौ अमरावती-नगरं भारतस्य विभिन्ननगरैः सह सञ्योजयतः । आन्ध्रप्रदेश-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः अमरावती-नगरं गन्तुं शक्यते । अमरावती-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः अमरावती-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे एकं लघुरेलस्थानकम् अस्ति । इदं रेलस्थानकम् आन्ध्रप्रदेश-राज्यस्य गुण्टूर-नगरस्य रेलस्थानकेन सह श्रेष्ठतया सम्बद्धम् अस्ति । गुण्टूर-रेलस्थानकात् मुम्बई-नगराय, विशाखापट्टनम्-नगराय, हैदराबाद-नगराय, चेन्नै-नगराय इत्यादिभ्यः भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । अमरावती-नगरे विमानस्थानकं नास्ति । विजयवाडा-नगरस्य विमानस्थानकम् अस्य नगरस्य समीपस्थं विमानस्थानकम् अस्ति । अमरावती-नगरात् विजयवाडा-विमानस्थानकं ६५ किलोमीटरमिते दूरे स्थितम् अस्ति । इदम् राष्ट्रियविमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । विजयवाडा-विमानस्थानकात् भाटकयानैः, बसयानैः वा अमरावती-नगरं गन्तुं शक्यते । अनेन प्रकारेण अमरावती-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया अमरावती-नगरं प्राप्तुं शक्नुवन्ति ।

कडपा[सम्पादयतु]

कडपा-नगरं भारतस्य आन्ध्रप्रदेशराज्यस्य कडपा-मण्डलास्य केन्द्रम् अस्ति । नगरमिदं “कड्डपाह” इति नाम्ना अपि ज्ञायते स्म । इदं नगरम् आन्ध्रप्रदेशराज्यस्य दक्षिणमध्यभागे स्थितम् अस्ति । “गडपा” इति तेलुगुभाषायाः नाम्ना अस्य नगरस्य नामकरणम् अभवत् । सीमा, द्वारं वा इति “गडपा” इत्यस्य शब्दस्य अर्थः भवति । तत्र तिरुमला-नामकः पवित्रपर्वतः स्थितः अस्ति । तस्य पर्वतस्य मार्गस्य आरम्भः अपि ततः एव भवति । अतः एव “गडपा” इत्यस्य अर्थः सार्थकः भवति । तिरुमला-पर्वतः कडपा-नगरस्य पश्चिमभागे स्थितः अस्ति । ई. स. २०१० तमात्वर्षात् प्राक् अस्य नाम कड्डपाह आसीत् । अनन्तरम् ई. स. २०१० तमे वर्षे अस्य नाम “कडपा” इति कृतम् । अस्य नगरस्य एकस्मिन् भागे नल्लामला-पर्वः, अपरे भागे पलाकोण्डा-पर्वतः स्थितः अस्ति । कडपा-नगरं एकादशशताब्दीतः चतुर्दशशताब्दीपर्यन्तं चोल-साम्राज्यस्य महत्त्वपूर्णः भागः आसीत् । चतुर्दशशताब्द्याः अन्ते इदं नगरं विजयनगरे सम्मिलितम् । सम्पूर्णभारतस्य विभिन्ननगरेभ्यः जनाः कडपा-नगरस्य पर्यटनस्थलानि दृष्टुं गच्छन्ति । अस्य नगरस्य जलवायुः उष्णकटिबन्धीयः वर्तते । ग्रीष्मर्तौ अस्य नगरस्य वातावरणं अत्युष्णं भवति । शीतर्तौ च वातावरणं शीतलं भवति । अक्टूबर-मासतः मार्च-मासपर्यन्तं जनाः कडपा-नगरं गच्छन्ति । कडपा-नगरं ५ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः कडपा-नगरं भारतस्य विभिन्ननगरैः सह सञ्योजयति । आन्ध्रप्रदेश-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः कडपा-नगरं गन्तुं शक्यते । कडपा-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः कडपा-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । कडपा-रेलस्थानकात् मुम्बई-नगराय, विशाखापट्टनम्-नगराय, हैदराबाद-नगराय, चेन्नै-नगराय इत्यादिभ्यः भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । कडपा-नगरे विमानस्थानकम् अपि अस्ति । कडपा-नगरात् विमानस्थानकं ८ किलोमीटरमिते दूरे स्थितम् अस्ति । इदम् राष्ट्रियविमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण कडपा-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया कडपा-नगरं प्राप्तुं शक्नुवन्ति ।

मन्त्रालयम[सम्पादयतु]

मन्त्रालयम-नगरं भारतस्य आन्ध्रप्रदेश-राज्यस्य करनूल-मण्डले स्थितम् अस्ति । इदं नगरं तुङ्गभद्रा-नद्याः तटे स्थितम् अस्ति । अस्य नगरस्य समीपे कर्नाटक-राज्यं स्थितम् अस्ति । नगरमिदं “मनचले” इति नाम्ना अपि प्रसिद्धम् अस्ति । गुरुणा राघवेन्द्रेण वृन्दावन-स्थलं स्थापितम् आसीत् । तस्मै राघवेन्द्राय इदं नगरं लोकप्रियम् अस्ति । सः पवित्रः आसीत् । सः माधवासन्तसम्प्रदायस्य अनुयायी आसीत् । माधवाचार्यः अस्य सम्प्रदायस्य प्रमुखः आसीत् । स्थानीयजनानां कथनानुसारं “गुरुराघवेन्द्रः ३३९ वर्षेभ्यः अस्मिन् नगरे निवसति । इतः परं ३६१ वर्षाणि यावत् अस्मिन् नगरे एव निवासं करिष्यति” इति । अतः एव हिन्दूजनैः इदं स्थलं पवित्रं मन्यते । “श्रीगुरुराघवेन्द्रस्वामीमन्दिरं”, “बिक्षालयः”, “पञ्चमुखी आञ्जनेय मन्दिरम्” इत्यादीनि अस्य नगरस्य समीपस्थानि पर्यटनस्थलानि सन्ति । अस्य नगरस्य जलवायुः उष्णकटिबन्धीयः भवति । ग्रीष्मर्तौ अस्य नगरस्य वातावरणम् उष्णं, शुष्कं च भवति । शीतर्तौ च वातावरणं सामान्यं शीतलं भवति । जनाः अक्टूबर-मासतः फरवरी-मासपर्यन्तं भ्रमणार्थं तत्र गच्छन्ति । मन्त्रालयम-नगरं ७ क्रमाङ्कस्य, ९ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमौ राष्ट्रियराजमार्गौ मन्त्रालयम-नगरं भारतस्य विभिन्ननगरैः सह सञ्योजयतः । आन्ध्रप्रदेश-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः मन्त्रालयम-नगरं गन्तुं शक्यते । मन्त्रालयम-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः मन्त्रालयम-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । मन्त्रालयम-नगरस्य समीपे १६ किलोमीटरमिते दूरे “मन्त्रालयम रोड” नामकं एकं रेलस्थानकम् अस्ति ।अस्मात् रेलस्थानकात् मुम्बई-नगराय, विशाखापट्टनम्-नगराय, हैदराबाद-नगराय, चेन्नै-नगराय इत्यादिभ्यः भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । मन्त्रालयम-रोड-रेलस्थानकात् भाटकयानैः, बसयानैः वा मन्त्रालयम-नगरं प्राप्यते । मन्त्रालयम-नगरे विमानस्थानकं नास्ति । तेलङ्गाना-राज्यस्य हैदराबाद-नगरस्य विमानस्थानकं मन्त्रालयम-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । मन्त्रालयम-नगरात् इदं विमानस्थानकं २७५ किलोमीटरमिते दूरे स्थितम् अस्ति । इदम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय इत्यादिभ्यः भारतस्य, विदेशस्य च प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण मन्त्रालयम-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया मन्त्रालयम-नगरं प्राप्तुं शक्नुवन्ति ।

श्रीशैल[सम्पादयतु]

श्रीशैल-नगरं भारतस्य आन्ध्रप्रदेशराज्यस्य कर्नुलु-मण्डले स्थितम् अस्ति । इदं नल्लमाला-पर्वते स्थितम् अस्ति । कृष्णानद्याः तटे स्थितम् इदं नगरम् । श्रीशैल-नगरं हैदराबाद-नगरस्य दक्षिणदिशि स्थितम् अस्ति । स्थलमिदं हिन्दुधर्मस्य प्रमुखं धार्मिकं स्थलम् अस्ति । आभारतात् बहवः जनाः तत्र गच्छन्ति । अस्मिन् नगरे बहूनि प्रसिद्धानि मन्दिराणि सन्ति । “भर्मरम्भामल्लिकार्जुनस्वामिमन्दिरम्” अस्य नगरस्य प्रमुखं मन्दिरं विद्यते । अस्मिन् मन्दिरे शिवपार्वत्योः प्रतिमा स्थिता अस्ति । अस्मिन् मन्दिरे मल्लिकार्जुनस्वामिनः स्वरूपे भगवतः शिवस्य पूजनं क्रियते । एवं च पार्वती देवी भर्मरम्भास्वरूपे पूज्यते । इदं मन्दिरं भारतस्य द्वादशज्योतिर्लिङ्गेषु अन्यतमम् अस्ति । अस्य नगरस्य वातावरणं सर्वदा मनोहरं भवति । किन्तु शीतर्तौ वातावरणम् अत्युत्तमं भवति । ग्रीष्मर्तौ उष्णतायाः आधिक्ये सति भ्रमणे कष्टं भवति । जनाः भारतस्य विभिन्ननगरेभ्यः श्रीशैल-नगरस्य भ्रमणं कर्तुं गच्छन्ति । श्रीशैल-नगरं ५ क्रमाङ्कस्य, ९ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमौ राष्ट्रियराजमार्गौ श्रीशैल-नगरं भारतस्य विभिन्ननगरैः सह सञ्योजयतः । आन्ध्रप्रदेश-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः श्रीशैल-नगरं गन्तुं शक्यते । श्रीशैल-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः श्रीशैल-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । मार्कापुर-नगरस्य रेलस्थानकं श्रीशैल-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । अस्मात् रेलस्थानकात् मुम्बई-नगराय, देहली, हैदराबाद-नगराय, चेन्नै-नगराय इत्यादिभ्यः भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । श्रीशैल-नगरात् मार्कापुर-रेलस्थानकं ९५ किलोमीटरमिते दूरे स्थितम् अस्ति । मार्कापुर-नगरात् भाटकयानैः, बसयानैः वा श्रीशैल-नगरं प्राप्यते । श्रीशैल-नगरे विमानस्थानकम् अपि नास्ति । हैदराबाद-नगरस्य विमानस्थानकं श्रीशैल-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । श्रीशैल-नगरात् इदं विमानस्थानकं २३२ किलोमीटरमिते दूरे स्थितम् अस्ति । इदम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य, विदेशस्य च प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण श्रीशैल-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया श्रीशैल-नगरं प्राप्तुं शक्नुवन्ति ।

सिंहाचलम[सम्पादयतु]

सिंहाचलम इत्येतत् स्थलं भारतस्य आन्ध्रप्रदेश-राज्यस्य विशाखापट्टनम-मण्डलस्य लघुग्रामः अस्ति । ग्रामः अयं विशाखापट्टनम-नगरात् समीपे एव स्थितः अस्ति । हिन्दुधर्मस्य प्रसिद्धतीर्थस्थलेषु अन्यतमम् अस्ति । भारतस्य विभिन्ननगरेभ्यः बहवः जनाः दर्शनार्थं तत्र गच्छन्ति । स्थलमिदं भगवतः विष्णोः नृसिंहावताराय सम्पूर्णे भारते प्रसिद्धम् अस्ति । भगवतः नृसिंहस्य प्रतिमा अस्य ग्रामस्य मन्दिरे स्थिता अस्ति । मन्दिरमिदं प्राचीनं वर्तते । मन्दिरे केचन शिलालेखाः प्राप्यन्ते । तैः शिलालेखैः ज्ञायते यत् – “इदं मन्दिरं ई. स. १०९८ तमस्य वर्षस्य अस्ति । तस्मिन् काले चोल-वंशस्य कुलोत्तुङ्गा-राज्ञः शासनम् आसीत् । अन्यैः शिलालेखैः ज्ञायते यत् – ई. स. ११३७ तः ११५६ तमवर्षेण सह मन्दिरमिदं सम्बद्धम् अस्ति । अस्य मन्दिरस्य भित्तिषु २५२ शिलालेखाः सन्ति । ग्रीष्मर्तौ वातावरणम् अत्यधिकम् उष्णं भवति । किन्तु शीतर्तौ अस्य ग्रामस्य वातावरणं सुखदं, शान्तं च भवति । अतः जनाः तस्मिन् समये भ्रमणार्थं तत्र गच्छन्ति । सिंहाचलम-ग्रामः ५ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धः अस्ति । अयं राष्ट्रियराजमार्गः सिंहाचलम-ग्रामं भारतस्य विभिन्ननगरैः सह सञ्योजयति । सिंहाचलम-ग्रामात् आन्ध्रप्रदेशस्य प्रमुखनगरेभ्यः नियमितरूपेण बसयानानि, भाटकयानानि वा प्राप्यन्ते । आन्ध्रप्रदेश-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः सिंहाचलम-ग्रामं गन्तुं शक्यते । सिंहाचलम-ग्रामे भाटकयानानि अपि प्रचलन्ति । अतः तैः सिंहाचलम-ग्रामस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् ग्रामे रेलस्थानकं नास्ति । विशाखापट्टनम-नगरस्य रेलस्थानकं सिंहाचलम-ग्रामस्य समीपस्थं रेलस्थानकम् अस्ति । सिंहाचलम-ग्रामात् इदं रेलस्थानकं १८ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकम् आन्ध्रप्रदेशराज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । अस्मात् रेलस्थानकात् मुम्बई-नगराय, देहली, हैदराबाद-नगराय, चेन्नै-नगराय इत्यादिभ्यः भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । सिंहाचलम-ग्रामे विमानस्थानकं नास्ति । विशाखापट्टनम-नगरस्य विमानस्थानकं सिंहाचलम-ग्रामस्य समीपस्थं विमानस्थानकम् अस्ति । सिंहाचलम-ग्रामात् इदं विमानस्थानकं १६ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण सिंहाचलम-ग्रामः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धः अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया सिंहाचलम-ग्रामं प्राप्तुं शक्नुवन्ति ।

परिवहनम्[सम्पादयतु]

आन्ध्रप्रदेश-राज्यस्य परिवहनं समृद्धम् अस्ति । अयं प्रदेशः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च भारतस्य, विदेशस्य च प्रमुखनगरैः सह सम्बद्धानि सन्ति । अतः जनाः सरलतया आन्ध्रप्रदेश-राज्यं प्राप्नुवन्ति ।

भूमार्गः[सम्पादयतु]

आन्ध्रप्रदेश-राज्यस्य सर्वकारेण भूमार्गस्य व्यवस्था दृश्यते । सर्वकारेण सम्पूर्णे राज्ये भ्रमणार्थं बसयानानि प्रचालितानि सन्ति । अतः तैः बसयानैः आन्ध्रप्रदेश-राज्यस्य विभिन्ननगराणां भ्रमणं कर्तुं शक्यते । आन्ध्रप्रदेश-राज्यं ५ क्रमाङ्कस्य, ७ क्रमाङ्कस्य, ९ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । एते राष्ट्रियराजमार्गाः आन्ध्रप्रदेश-राज्यं भारतस्य प्रमुखनगरैः सह सञ्योजयन्ति । अस्मिन् राज्ये आहत्य १,४६,९४४ किलोमीटरमिताः दीर्घाः मार्गाः सन्ति । तेषु राष्ट्रियराजमार्गाः २९४९ किलोमीटरमिताः, राज्यराजमार्गाः ४२,५११ किलोमीटरमिताः, मण्डलमार्गाः १,०१,४८४ किलोमीटरमिताः च दीर्घाः सन्ति । अतः सरलतया भूमार्गेण आन्ध्रप्रदेश-राज्यं प्राप्यते ।

धूमशकटमार्गः[सम्पादयतु]

आन्ध्रप्रदेश-राज्यस्य धूमशकटमार्गः भारतस्य प्रमुखनगरैः सह सम्बद्धः अस्ति । अस्मिन् राज्ये धूमशकटमार्गाः ५,०४६ किलोमीटरमिताः दीर्घाः सन्ति । भारतस्य प्रमुखेषु रेलस्थानकेषु बहूनि रेलस्थानकानि आन्ध्रप्रदेशराज्ये स्थितानि सन्ति । विशाखापट्टनम-नगरस्य, गुण्टूर-नगरस्य, गुन्तकल-नगरस्य, विजयवाडा-नगरस्य इत्यादीनि रेलस्थानकानि आन्ध्रप्रदेशे स्थितान् सन्ति । एतेभ्यः रेलस्थानकेभ्यः देहली-नगराय, मुम्बई-नगराय, चेन्नै-नगराय, अमृतसर-नगराय, जयपुर-नगराय इत्यादिभ्यः भारतस्य विभिन्ननगरेभ्यः रेलयानानि प्राप्यन्ते । अनेन प्रकारेण आन्ध्रप्रदेश-राज्यं धूमशकटमार्गेण भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । जनाः धूमशकटमार्गेण आन्ध्रप्रदेश-राज्यस्य विभिन्ननगराणि सरलतया गन्तुं शक्नुवन्ति ।

वायुमार्गः[सम्पादयतु]

आन्ध्रप्रदेश-राज्यं वायुमार्गेण अपि सुदृढम् अस्ति । राज्येऽस्मिन् विशाखापट्टनम-नगरे एकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । विशाखापट्टनम-विमानस्थानकात् भारतस्य विदेशस्य च नगरेभ्यः वायुयानानि प्राप्यन्ते । अपि च पञ्च राष्ट्रियविमानस्थानकानि सन्ति । विजयवाडा-नगरे, राजमुण्ड्री-नगरे, तिरुपति-नगरे, कडपा-नगरे पुट्टपर्थी-नगरे च अस्य राज्यस्य राष्ट्रियविमानस्थानकानि सन्ति । एतेभ्यः विमानस्थानकेभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । एतानि विमानस्थानकानि देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय इत्यादिभिः भारतस्य प्रमुखविमानस्थानकैः सह सम्बद्धम् अस्ति । अनेन प्रकारेण आन्ध्रप्रदेश-राज्यं वायुमार्गेण भारतस्य, विदेशस्य च विभिन्ननगरैः सह श्रेष्ठतया सम्बद्धम् अस्ति । जनाः सरलतया आन्ध्रप्रदेश-राज्यस्य प्रमुखनगराणि गन्तुं शक्नुवन्ति ।

जलमार्गः[सम्पादयतु]

आन्ध्रप्रदेशराज्ये विशाखापट्टनम-नगरं पोताश्रयः अस्ति । नगरमिदं भारतस्य प्रमुखेषु पोताश्रयेषु अन्यतमम् अस्ति । अयं पोताश्रयः भारतस्य बृहत्तमः पोताश्रयः विद्यते । तत्र अन्ये अपि पोताश्रयाः सन्ति । कृष्णपट्टनम-पोताश्रयः, गङ्गावरम-पोताश्रयः, काकिनाडा-पोताश्रयः च अस्य राज्यस्य अन्ये पोताश्रयाः सन्ति । एतेषु गङ्गावरम-पूताश्रयः अत्यन्तः गहनः वर्तते । अनेन पोताश्रयेण २,००,००० तः २,५०,००० टनमात्रात्मिकानि भारसहितानि जलयानानि अपि उपश्रयन्ते ।

  1. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – २५६
  2. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – २४९
  3. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – २४९
  4. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – २५७
  5. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – २५२-२५३
  6. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – २५६
  7. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – २५८