सामग्री पर जाएँ

सदस्यः:दिव्यांशु आर्य/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सर्वसमस्या समाधान सर्वसमस्या समाधाने गुरुकुल शिक्षा पद्धतिरेव गरीयसी साम्प्रतं न केवलं भारतवर्षमपितु विश्वस्य समस्तान्यपि राष्ट्राणि अनैतिकता- अनाचार- भ्रष्टाचार- अराजकता- व्याधिभिः पीडितानि दृश्यन्ते | विश्वे सर्वत्र नास्तिकतायाः ताण्डवनृत्यम् दृष्टिगोचरताम् आप्नोति| यस्य भयत्वाद क्व धर्मः इति न ज्ञायते| किमत्र मूलम् अस्य अस्माकं विकृत शिक्षा प्रणालिरेव हेतुरस्य आपदामेषां वारणाय मानवस्य सदर्थे मानवकरणाय च परापरज्ञ: ऋषयः गुरुकुल शिक्षा पद्धतिं चक्रिरे | अद्यत्वे छात्रः द्वि त्रि होरा परिमित्कालं विद्यालयं स्थित्वा पुनस्तमेव विद्याविरोधि वातावरणं गन्तुमुद्यतो भवति | परम् गुरुकुलशिक्षापद्धत्यां छात्रः बाह्य विद्यविरोधि वातावरणतः सुरक्षितः सन् आदिनं गुरुगर्भे वसन् निजविद्याव्रतपालने दत्तचित्तः तिष्ठति |