सामग्री पर जाएँ

सदस्यः:दीपशिखा वारिक्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

काव्यम्

काव्यस्यार्थः-

काव्यमिति शब्दोऽयं 'कवि' शब्दात् 'घञ् 'प्रत्ययस्य योगेन निष्पन्नः, एवं च क्रम्धातोः औणादिके 'इन् 'प्रत्यये कृते बाहुलकात् मकारस्य वकारादे: रेफस्य लोपे सति कविरिति शब्दः निष्पद्यते। अथवा गत्यर्थकात् कु धातोः इनि प्रत्यये कृते कविः इति रूपं सिध्यति। 'कवेरिदं कर्मभावो वा काव्यम्।

"कवयति वा वर्णयति इति कविः"। अर्थात् यः हृदयस्य भावनां, समाजस्य चित्रं, परिवेशस्य स्वरूपं तथा सार्वजनीन- शाश्वतचिन्तनं लेखन्यां रूपं प्रददाति सः कविः। कवेः सारस्वतसृष्टिः हि काव्यम्।

कविः स्वचिन्तनम् अर्थपूर्णतया शब्दमाध्यमेन प्रकटयति। यदि केवलं शब्दस्याडम्बरं वत्र्तते अथवा केवलम् अर्थस्य गुरुत्वं गाम्भिर्यं वा भवति, तदुत्तमं काव्यं भवितुं नार्हति। यत्र शब्दार्थयो: उभर्योप्राधान्यं वत्र्त्तते अर्थात् कविः यस्मिन् विषये यथा चिन्तयति तच्चिन्तनम् उपयुक्तशब्दसंयोजनेन स्वाभिष्टम् अभिप्रायं सरलरीत्या प्रतिपादयति चेत् तद् 'काव्यम्' इति ।

काव्यस्य विविधलक्षणानि

संस्कृताचार्यैः काव्यस्य लक्षणं स्वविचारानुसारेण भिन्न भिन्न रुपेण प्रदत्तम्। यथा -

(1)(विश्वनाथः)-" वाक्यं रसात्मकं काव्यम्"। (2)(जगन्नाथः)-" रमणीयार्थप्रतिपादक : शब्दः काव्यम्"। (3)(कुन्तकः)-" वक्रोक्तिः काव्यजीवितम्"। (4)(अग्निपुराणम्) -"काव्यं स्फुरदलङ्कारं गुणवरदेोष वर्णितम्" । (5) (दण्डी)-" इष्टार्थव्यवच्छिन्ना काव्यमिति"। (6) "चिरन्तनसत्ये अभिव्यक्तजीवनस्य प्रतिचाया एव काव्यम्" । (7) "सर्वोत्तमक्रमे सर्वोत्तम शब्दमेव काव्यम्।

काव्यस्य प्रयोजनम्

कथ्यते यत्-"प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते। अर्थात् प्रयोजनं विना कोऽपि किञ्चिदपि कार्य कर्तु उसने न प्रवर्तते। अतः ज्ञायते यत् प्रत्येकं कार्यस्य किमपि प्रयोजनम् अस्ति। तद्वत् काव्यपठन-पाठनस्यापि प्रयोजनम् अस्येव। यथा-साहित्यदर्पणकारविश्वनाधकविराजमहोदयानुसार चतुर्वर्गफलप्राप्तिः काव्यस्य प्रयोजनं वर्तते

चतुर्वर्गफलप्राप्तिः सुखादल्पधियामपि ।

काव्यादेव यतस्तेन तत्स्वरूपं निरुप्यते ।। 

पुनश्च काव्यालङ्कारे आचार्य भामहेनोक्तं यत्-

धर्मार्थकाममोक्षाणां वैचक्षण्यं कलासु च। 

करोति प्रीतिं कीर्तिश्च साधुकाव्यनिषेवणम्।।

काव्याध्ययनेन धर्म-अर्थ-काम-मोक्षपुरुषार्थचतुष्णस्व प्राप्तिः भवति। प्रीतिः कीर्तिश्च वर्धते।

(3) (मम्मटः)-"तददोषौ शब्दार्थों सगुणावनलंकृती पुनः क्वापि"।

(4) (वामनः)-" रीतिरात्मा काव्यस्य"।

(5) (आनन्दवर्धनः) -" काव्यस्यात्मा ध्वनिः"।

(6) (कालिदासः)-" क्षणे-क्षणे यन्नवतामुपैति तदेव रूपं रमणईयतायाः" ।