सामग्री पर जाएँ

सदस्यः:दीपान्विता

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोक: - अधमा: धनमिच्छन्ति धनमानौ च मध्यमा: | उत्तमा: मानमिच्छन्ति मानो हि महतां धनम् ।।

व्याख्यानम् -

अस्माकं देशे समाजे वा वयं पश्याम: चेत् द्रष्टुं शक्नोम: यत् अत्र कार्यस्य आधारेण जनानां वर्गीकरणं कृतम् अस्ति ।अर्थात ये उत्तमकार्याणि कुर्वन्ति ते उत्तमा: जना: भवन्ति । ये अधमकार्याणि कुर्वन्ति ते अधमा: जना: भवन्ति । किन्तु केचन् जना: अधमकार्याणि अपि न कुर्वन्ति उत्तमोत्तमकार्याणि अपि न कुर्वन्ति ते मध्ये एव तिष्ठन्ति अत: ते मध्यमा: । उत्तममध्यमअधमजनानां चिन्तनस्तर: अपि भिन्न: वर्तते । अधमा: चिन्तयन्ति धनम् एव सुखस्य मुलम् अत: ते धनम् एव इच्छन्ति , धनेन् सर्वं लभते इत्येव तेषां चिन्तनम् । अर्थात् ये चौरा: भवन्ति ते केवलं धनमेव इच्छन्ति समाजे सम्मानं ते न इच्छन्ति एव । अपरपक्षे पश्याम: चेत् उत्तमा: मानमिच्छन्ति , कारणं ते चिन्तयन्ति मानमेव अस्ति अमूल्य धनम् । ते सर्वदा स्वस्वार्थं त्यक्त्वा समाजस्य कृते कार्यं कुर्वन्ति यथा समाजसेवका:। किन्तु मध्यमा: जना: धनं तु इच्छन्ति एव किन्तु मानम् अपि इच्छन्ति कारणं केवलं धनेन् किमपि न भवति समाजे जीवितुं स्थातुं वा मानम् अपि अपेक्षते । उदाहरणरूपेण वयं वक्तुं शक्नुम: यत् ये शिक्षका: , चिकित्सका: , इत्यादया: भवन्ति तेषा धनं तु अस्ति एव किन्तु समाजे तेषां सम्मानम् अपि तथैव अस्ति ।


       ।।   धन्यवाद: ।।
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:दीपान्विता&oldid=483715" इत्यस्माद् प्रतिप्राप्तम्