सदस्यः:देवस्मिता मिश्रः
प्रश्नकरणकौशलम्
शिक्षाक्षेत्रे सफलताप्राप्त्यर्थं योग्यछात्रस्य तु आवश्यकता अस्त्येव परन्तु सुयोग्यछात्रस्य निर्माणाय योग्य- शिक्षकस्य अतीव आवश्यकताअनुभूयते । एकस्मिन्शिक्षके शतउपाधौस्थितेसति सः दक्षः सफलः भवितुं नार्हति कदाचित्,यतः अस्य कृते कौशलमपेक्ष्यते । शिक्षणप्रक्रियायां साफल्यार्थं शिक्षकः कौशलपूर्णः भवेत् । शिक्षकः कौशलानामाधारेण स्वस्य शिक्षणं प्रभावपूर्णं कर्त्तुं पारयति अपि चछात्रेषु तस्य प्रभावः दृश्यते यद्वारा छात्राः अपि सुयोग्याःभवितुमर्हन्ति।
साधारणतः कौशलमित्युक्ते शिक्षाजगतिश्रवणं (Listening) वाचनं (Speaking)पठनं(Reading) लेखनं (Writing)इत्येतेषामवबोधनं भवति।एतदतिरिक्तंकक्षाशिक्षणे शिक्षकेन विविधानि कौशलानि आश्रित्य शिक्षणप्रक्रिया प्रचाल्यते।अनेन छात्राणां सम्यक्तयाविषयस्य ज्ञानं भवति।कारणं शिक्षणं भवति छात्राणां समन्वि- तविकासाय समुचितमार्गप्रदर्शनं प्रदातुं व्यवहारेषुपरिवर्त्तनमानेतुं च वैभिन्नकौशलानां प्रयोगेनएकः प्रायसः।
शिक्षण प्रक्रियायां वहुनिकौशलानि प्रजुज्यमान भवन्ति।तेषुकौशलेषु शिक्षणप्रक्रियां प्रश्न-करणकौशलस्य महत्वपूर्णं स्थानं वर्त्तते।प्राचीनकालतःइदानीं यावत्प्रश्नकरणकौशलस्य व्यवहारे शिक्षणेप्रक्रियां प्रचल्यमानं भवति।प्रश्नकरण कौशले विषये अधोलिखितमाध्यमेन स्पष्टं क्रियते ।
शिक्षणाधिगमप्रक्रियायां प्रश्नकौशलस्य स्थानमतीव महत्वपूर्णं भवति। प्राचीनशिक्षाप्रमाल्याः आरभ्य अद्यतनीय आधुनिकयुगेऽपिप्रश्नकरणस्येयं परम्परा प्रचल्यते। कठोपनिषदि वर्णितमस्ति ।यत्नचिकेता तस्य पितुःआज्ञां स्वीकृत्ययमराजस्य समीपे गत्वा प्रश्नोत्तरमाध्यमेन ब्रह्मज्ञानं प्राप्तवान् । तथैव महाभारते वनपर्वे यक्षयुधिष्ठिरसंवादः प्रश्नोत्तरमाध्यमेन वर्णितमस्ति।पुनःअस्माकं भारतवर्षस्य सनातनधर्मस्य मूल- ग्रन्थःश्रीमद्भागवतगीता सर्वेषांसुपरिचितः संपूर्णगीताशास्त्रेभगवता श्री कृष्णेन भक्त अर्जुनस्य प्रश्नानां समाधानमेवकृतमुत्तररुपेण।प्रश्नकौशलप्रमङ्गे विविध विदुषां मतानिनिम्नोक्तप्रकारेण उपस्थापितानि।
- • रुसो महोदयानुसारम् :- “ प्रश्नकरणपेक्षया यदावालकान्प्रश्नाः क्रियते । तदा ते अधिकं ज्ञानं प्राप्तवान्।
- प्रश्नकरणकौशलस्य आवश्यकता:-
1.छात्राणां पाठायरुचिं जिज्ञासा च उत्पादनम्। 2. वालकानां पाठं प्रति ध्यानाकर्षणम्। 3. स्वर्जितज्ञानस्य परीक्षणार्थं छात्रेभ्यः प्रश्नः क्रियते। 4. छात्रेषु सर्जनात्मकक्षमतायाः विकासार्थम्। 5. विद्यार्थीषु चिन्तनशक्तेः अभिवृद्धिकरणार्थम्। 6. छात्रेषु कल्पनाशक्तेः विकासर्थम्। 7.छात्रेषु बौद्धिक विकासाय अस्य आवश्यकता वर्त्तते। 8. विद्यार्थिनां पूर्वज्ञानमवगन्तूं प्रश्नकरणस्य आवश्यकता भवति। 9. पूर्वज्ञानेन साकं नवीन ज्ञानस्य सम्पर्क स्थापनार्थं प्रश्नाः क्रियन्ते। 10. कक्षाशिक्षणे विद्यार्थीषु सक्रियता आनयनार्थम्।
- प्रश्नप्रकाराः:-प्रश्नाः विविधप्रकाराः सन्ति । परन्तु शिक्षणे निम्नोक्तप्रकाराः प्रश्नाः प्रयुज्यन्ते।
1. प्रस्तावनात्मकप्रश्नाः :- पाठस्य प्रारम्भावस्थायाम् एते प्रश्नाः क्रियन्ते।एतेषां प्रश्नानां मुख्यतः उद्येस्यत्रस्ति। यथा :-1 विद्यार्थिनां पूर्वज्ञानानामभिज्ञानम् 2.पूर्वज्ञानेन साकं नवीन ज्ञानस्य संर्पक स्थापनम्। 3. एतादृशः प्रश्नाः क्रमवद्धाः भवेयुः ।प्रश्नाः परस्पर समुचित संपर्केण आवद्धाः स्युः ।पूर्वप्रश्नस्य अग्रिमप्रश्नेन सार्द्धं नूनमेव संबन्धः स्यात् । एतेषां प्रश्नानां संख्या त्रयः चत्वारः वा भवेयुः। 2 .विकासात्मकप्रश्नाः :-एते प्रश्नाः पाठस्य विकासय तथा अभिवृद्धये क्रियते । पूर्वज्ञानमाश्रित्यैव एतेप्रश्नाः क्रियन्ते। पुनः एतेषामुत्तराणि पाठ्यांशे एव भवति।एतेषां प्रश्नानां माध्यमेन शिक्षकः पाठ्मग्रेसारयति । छात्राःएतेषां प्रश्नानामुत्तरं दत्वा स्वस्य चिन्त तर्कशक्ते श्व विकासं कुर्वन्ति । विशेषतः इतिहासशिक्षणे ईदृशानां प्रश्नानाम- निवार्यता वर्त्तते। 3. विचारात्मकप्रश्नाः:- विद्यार्थिन अन्तर्निहित विचाराणामभिज्ञानं भवति।एतेषां प्रश्नानां माध्यमेन विद्यार्थीषु तर्कशक्तेः सर्जनशक्तेः चिन्तनशक्ते श्च विकासः जायते । अनेनछात्रेभ्यः गहनचिन्तनस्य अवसरः प्रदीयते। तदनन्तरं तेषां विचारान्स्वीकृत्य अधिगमस्य मूल्यांकनं कर्त्तुं शक्यते । क ,किम्, कथम्, केन, कदा, इत्यादयः शव्दाः तेषु प्रश्नेषु प्रयुज्यन्ते । 4. समस्यात्मकप्रश्नाः :-संपूर्णपाठे समस्यागयाः समाधानार्थ समस्यात्मकप्रश्नाः उपस्थाप्यन्ते । प्रस्तावनायामपि अन्तिमप्रश्नः सर्वदा समस्यात्मकःभवेत् । यतःछात्रैः तस्याः समस्यायाः समाधानमग्रिमस्तो पानेषु लभ्यन्ते । कदापि पाठस्य मध्ये अपि एते प्रश्नाः आगच्छन्ति । ईदृशानां प्रश्नानां मुख्योदेस्यमस्ति । यत्छात्रेषु सक्रियता प्रदानम् एवं चिन्तनशक्तेः विकासश्च । विद्यार्थिनः कक्षायां सक्रियो भूत्वा एतेषां प्रश्नानामुत्तराणि दातुं समर्थाः भवन्ति। 5. वोधप्रश्नाः : - विषयस्य पाठस्य वा संपूर्णतया अवबोधनादनन्तरमते प्रश्नाः शिक्षकेण क्रियन्ते । एतेषां प्रश्नानां मुख्यमुद्येस्यं भवति।यत्छात्राः कियत्परिमाणं अवगच्छन्ति । शिक्षकस्य शिक्षणस्य साफल्यम् एतैः प्रश्नैः अवगन्तुं शक्यते । एतेप्रश्नाः पाठमध्ये पाठान्ते च स्युः । प्रश्नाः सरलाः शुद्धाः स्पष्टाश्च भवेयुः ।विषयवस्तुमाश्रित्यएव एते प्रश्नाः प्रष्ठव्याः ।प्रत्येक सोपानस्यान्तेऽपि भवेयुः।एतेषां प्रश्नानां माध्यमेन विद्यार्थिनां वौद्धिकविकासः नूनं एव जायते । 6. तुलनात्मकप्रश्नाः :- विद्यार्थिनां समीपे यदा विषयस्य वस्तुद्वयस्य , त्रयस्यवाज्ञानंवर्त्तते, तदातैः परस्परविषयं स्वीकृत्य तुलना क्रियते । एतदर्थं शिक्षकेण तुलनात्मकप्रश्नाः पृच्छ्यन्ते । उदाहरणार्थं–रामायणविषयस्य शिक्षणं प्रचलति ।चेत्तदा रामरावणयॅर्मध्ये कः श्रेष्ठः अथवा कस्य कस्य मार्गमनुसरणीया- मित्यादयः प्रश्नाःशिक्षकेणप्रष्ठव्याः।अनेनविद्यार्थीषुचिन्तनशक्तेःवौद्धिकशक्तिनां च विकासः भवति। 7. पुनरावृत्तिप्रश्नाः :- सकलपाठस्य अववोधनादन्तरम् एतेप्रश्नाः क्रियन्ते । एतेषां मुख्यमुद्येस्यमस्ति । मुख्यांशानावृत्तिः अर्थात्छात्राणां ज्ञानं स्थाय्यधिगमाय अभिप्रेरणं भवति । एतेषां प्रश्नानामुद्येस्यम् अनेन छात्रेषु स्मृति-चिन्तन-बोधादिस्तत्रयाणां विकासः जायते । एतेषां प्रश्नानां माध्यमेन छात्राणां पठितपाठस्य पुनः स्मरणं भूत्वा स्थायीकरणमपि भवति।