सामग्री पर जाएँ

सदस्यः:नायक सुबल/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

स्त्री शिक्षायाः परिचयः अस्माकं समाजः न केवलं पुरूषाणां, किन्तु नारीणामापि अस्ति।अतः सुसस्कृते समाजे पुरूषाणां शिक्षा आवश्यकी अस्ति तथा स्त्रीणामापि। स्त्रीणां समाजे स्थान समानरूपेणास्ति।समाजस्य द्वे चक्रे स्तः।यथा एकेन चक्रेण रथस्य गतिः असंभवा,तथा जीवनस्य गति नारीणां विना असंभवा। अशिक्षिता नारी संसार रथ कथं चालयति।अतः स्त्रीशिक्षा अतीवावशयकी।


प्राचीन कालेऽपि स्त्रीशिक्षा अनिवार्या आसीत्।वैदिककाले नार्यः अधिकशिक्षिता आसन्।गार्गी मैत्रेयी आद्यः विदुष्यः वेदशास्र्तार्थनिपुणाः आसन्। कालिदासस्य पत्नी विद्योत्तमा महती विदुषी आसीत्।आधुनिककाले स्त्रीयः शिक्षणमनिवार्यम्।यदि माता सुशिक्षिता भवेत् तर्हि सा स्वपुत्राणां पालनं शिक्षणम् च सूचाररूपेण कर्त्तुं शक्नोति।यदि सा अशिक्षिता,तर्हि तस्याः सन्तानः अपि विद्याहीना,संस्कारहीना च भविष्यति।शिक्षिताः नारी अधिकयोग्याता गृहकार्यसंचालने समर्थाः भवति।


अद्य एकमपि क्षेत्रं नास्ति, यत्र नार्याः प्रभावं नास्ति। विद्यालयेषु,महाविद्यालये षु,कार्यालयेषु सर्वत्र नार्यः कार्यरताः सन्ति।किं बहुना अनेकाः नार्यः संसदसदस्याः सन्ति।नगरपालिका षु,विधानसभासु,लोकसभासु अपि सदस्याः सन्ति,ताः सूचाररूपेण कार्यं कुर्वन्ति च।श्रीमती इन्दिरागान्धी महोदया अस्माकम् देशस्य प्रधानमन्त्रीपदम् अलंकृता।श्रीमती सोनिया गांधी महोदया अपि राजनीत्यां कार्यरताः अस्ति।


कुलस्य तथा समाजस्य उन्मत्यथं स्त्रीशिक्षा अनिवार्या खलु।यतः शिक्षिता नारी न केवलं स्वजीवनं स्वीकरोति, किन्तु सा परिवारस्य राष्ट्रस्यापि अभ्युदयं करोति।सुशिक्षिता नारी सर्वत्र पूज्यते। उचितमिदं कथितं यत्र नार्यस्तु पूज्यन्ते, रमन्ते तत्र देवताः।