सदस्यः:नितेश कमार त्रिपाठी
किशोरावस्था:- किशोरावस्था आङ्गलभाषाया: Adolescence इति शब्दस्य रूपान्तरम्। अस्य शब्दस्य व्युत्पत्ति: लेटिनभाषाया: Adolescere शब्दात्भवति। अस्य अर्थ: परिपक्कताया: विकास: (To grow to maturity)। अवस्थारियं विकासस्य सर्वाधिका जटिलावस्था इति मन्यते। अस्यामवस्थायां किशोराणां मध्ये नाना प्रकारा: शारीरिकं मानसिकं च परिवर्तनं भवति।स्टेनली हाल महोदयानुसारं‘Adolescence is a period of great stress and strain, storm and strife.'
किशोरावस्थाया: विकास: :—किशोरावस्थायां बालकानां शारीरिक, मानसि, सामाजिक, सामवेगिक इत्यादिषु क्षेत्रेषु विकास: भवति।
किशोरावस्थायां शारीरिक विकास: :— किशोरावस्थायां द्विधा शारीरिक परिवर्तनं भवति- आन्तरिकं बाह्यं च। एतेषाम् आन्तरिक-बाह्यपरिवर्तनानां कारणेन किशोरस्य व्यक्तित्वं कस्यापि निश्चितदशायां विकशितं भवति। अस्याम् अवस्थायामेव किशोर: पुरुष: भवति, किशोरी स्त्री भवति। अस्याम् अवस्थायामेव बालकानां बालिकानां वा उच्चता निश्चिता भवति, स्वरस्य परिवर्तनं भवति। बालकानां स्वर: कर्कश: तथा बालिकानां स्वर: कोमल: भवति। मांसपेशि- अस्थिन: दृढ़: तथा परिपक्कं च भवति। अस्याम् अवस्थायां प्रजनन क्षमता उत्पन्ना भवति।
किशोरावस्थायां मानसिकविकास: :—किशोरावस्थाया मानसिकविकास: शारीरिकविकासस्य अपेक्षया किञ्चित विलम्बेन भवति। अस्याम् अवस्थायां ध्यानस्य अवधारणा, कल्पना, दिवास्वप्न, स्मृति, तर्कादिशक्ते: अधिक: प्रखर: भवति। बालकानां रुचि: क्रीडायां भवति, बालिकानां रुचि: शृङ्गारे, नाटके,पद्ये, सङ्गीते इत्यादिषु भवति। पठनरुचि: अपि विकसितं भवति।
किशोरावस्थां सामाजिकविकास: :— किशोरावस्थायां बालकबालिका पारस्परिकम् आकर्षणं भवति।विभिन्नवेशभूषा, हाव-भाव, विपरीतलिंगिनां प्रतिआकर्षणाय प्रयास:, द्वयो: मनसि परस्परं पार्श्वे आगमनस्य इच्छा जागृता भवति। अस्यामवस्थायां मैत्रीसम्बन्धेषु अत्यधिक वृद्धि: दृश्यते। अस्यामवस्थायां व्यक्तिं सामाजिकसमायोजनं तथा सामाजिकगुणानाम् अर्जनाय प्रयाप्तावसर: रुचिनां विकासाय विशालंक्षेत्रं भवति। पुन: अत्यधिक सामाजिक चेतना, सामाजिक सम्बन्धानां प्रगाढ़मित्रताया: अवस्था भवति।
किशोरावस्थायां सामवेगिकविकास: :— अस्मिन काले सम्वेगस्य गति: प्रचन्दरूपेण भवति। किशोरावस्थायां दुश्चिन्ताया: कालं भवति। कस्यापि किशोरस्य कृते सम्वेगानामुपरि नियन्त्रणं भवति। यौनग्रन्थिषु तीब्रगत्या क्रियान्वयनकारणात शारीरिकशक्तिषु पर्याप्तरूपेण वृद्धि: भवति। ते सम्वेगात्मकदृष्ट्या चञ्चला: अस्थिरा: च भवन्ति। किशोरावस्थायां व्यक्तित्वविकास: :—किशोरावस्था व्यक्तित्वविकास प्रक्रिया अध्ययनं मनोवैज्ञानिकाध्यनस्य गुरुत्वपूर्णं क्षेत्रम्। व्यक्तित्व इति शब्दस्य आङ्गलशब्द: भवति Personality।शब्दोSयं लेटिनभाषाया: Persona इति शब्दात् उत्पत्ति:।यस्य अर्थ: भवति मुखा।व्यक्तित्व स्थिरावस्था नास्ति। व्यक्तित्व:एक: व्यक्ति: स्वीय परिवेशेन सह समायोजनस्य धारावाहिकप्रचेष्टाया: अन्ते तस्य आचरणस्य गतिशीला, जटिला, सामग्रिका च सत्त्वा।अयं व्यक्तित्व: परिवेशेन सह समायोजनस्य धरण-करणम्, आचार-आचारणम्, गतिविधि:, चलनं, कर्मम् अपि च तेन सह संलग्न: विषयवस्तुमाध्यमेन प्रकाशितं भवति। भिन्ना: मनोवै ज्ञानिकदृष्ट्या व्यक्तित्वस्य संज्ञा यथा— १. Woodworth and Marquis महोदयानुसारं 'एकस्य व्यक्ते: आचरणमाध्यमेन प्रकाशमानं तस्य चिन्ता अपि च अभिव्यक्ते: वैशिष्टपूर्ण: अभ्यास:, तस्य मनोभाव:, आग्रह:, कर्म:, तस्य जीवनदर्शनस्य सामग्रिक गुणागुणमेव व्यक्तित्व इति।' ( Personality is the total quality of an individual's behaviour as it is revealed in his characteristic habits of thought and expression, his attitudes, interests, his manners of acting and his own philosophy of life.) २. Watson महोदयस्य मतानुसारं'Personality is the sum of activities that can be discovered by actual observations over a long enough period of time to give reliable information.'
मनोवैज्ञानिकानां संज्ञानां विश्लेषणं कृत्वा व्यक्तित्वस्य वैशिष्ट्य: भवति— • व्यक्तित्वं व्यक्ते: भिन्नवैशिष्ट्यम्। द्वयो: व्यक्तयो: मध्ये व्यक्तित्वस्य सादृश्यं नैव दृश्यते। • व्यक्तित्वं भवति व्यक्ते: वंशानुक्रम: अपि च परिवेशीय प्रभावस्य संमिश्रितं फलम्। • व्यक्तित्वं भवति व्यक्ते: शारीरिक-मानसिकवैशिष्टानाम् एकं गतिशीलं संगठनम्। • व्यक्तित्वमेव वैयक्तिभिन्नताया: मूलम्। • व्यक्ते: व्यक्तित्वं निरीक्षणयोग्यं परिमापनयोग्यं च।