सामग्री पर जाएँ

सदस्यः:पण्डा अभिजित/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

     उत्कलप्रदेशम्

   भारतवर्षे ओडिशाराज्यस्य महत्वं सुविदितम् ।  एतत् राज्यं कृषिप्रधानम् । या कृषकजातिः अस्य भूखण्डस्य मूलाधिवासिनी सा उड्रानाम्ना प्रसिध्दा । कृषिजीबनः उड्राः इति कथ्यन्ते । तेषां भाषायाः नाम आसीत् उड्रभाषा । महाभारत युगे अस्य राज्यस्य नाम कलिङ्गः आसीत् । अस्य भूखण्डस्य क्षत्रीयसंप्रदायाः परमशूराः आसन् । ते अपि महाभारतयुध्दे योगदानमकुर्बन् । स़हस्राणां कलिङ्गवीराणां मातृभूमेः कृते आत्मबलिदानं दृष्ट्वा व्यथितः अशोकःतदैव युद्धवर्जनं कर्तुं निष्पत्तिं चकार। आसौ धवलगिरौ बौद्धधर्मैण दीक्षितः सन् देशे विदेशे च धर्मप्रचारमकोरत् । तत्रत्यः शान्तिस्तूपः कलिङ्गकीर्त्तिं स्मारयति ।

   कलिङ्गसम्राट् महामेघवाहनः ऐरखारवेलः मगघं विजित्य विशालं जिनासनमानीय उदयगिरौ अस्थापयत्। खण्डगिरौ खोदिताः हस्तिगुहादयः तथा शिलालेखाश्च खारवेलस्य विजयगाथां घोषयन्ति।अशोकस्य प्रभावेण ललितगिरि – पूष्पगिरि –रत्नगिरिप्रभृतिस्थलेषु यथा बौद्धधर्मस्य प्रचारोSभवत् खारवेलस्य समये जैनधर्मस्य तथा प्रचारोSभूत् ।

    उत्कलस्य सागरः महोदधिः उत्कलस्य नदी महानदी पर्वतः महेन्द्रः राजपथः बडदाण्डः महाप्रभुः श्रीजगन्नाथः प्रसादः महाप्रसादः एवं प्रकारेण महाभूमिरियं युगे युगे महीयसी । कपिलसंहितायामुक्तं यत् –

        पृथिव्यां भारतं श्रेष्ठं भारते चोत्कलः स्मृतः।

         उत्कलस्य समो देशः क्वापि नास्ति महीतले।।