सामग्री पर जाएँ

सदस्यः:पुष्पिता नाथ/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

गुरुदक्षिणा

    अस्त्रगुरुः द्रोणाचार्यो धनर्वेदे निपुणाः। सर्वतो राजानो राजपुत्राश्च अस्त्रविद्यां शिक्षितुं तं निकषा आगच्छत्। कौरवाः पाण्डवाश्च द्रोणाचार्यस्य शिष्या आसन्।

निषादराजस्य पुत्र एकलव्योऽपि विद्याग्रहणाय तं निकषा आगच्छत्। एकलव्यं निषादं ज्ञात्वा द्रोणाचार्यः तं शिष्यरुपेण न गृहीतवान्। द्रोणा उवाच-उकलव्य! त्वं मम शिष्यः, गृहं निवर्तस्व।

एकलव्यो वनं गत्वा द्रोणस्य मृन्मर्यो मूर्तिं निर्माय तां गुरुरुपेण कल्पयित्वा मुर्त्याः पदतले शरचालनाभ्यासं करोति स्म। क्रमेण स निपुणो धनुर्धरोऽभवत्। एकदा कौरवाः पाण्डवाश्च मृगयायै तद्वनं गताः।एकः श्व शाराभ्यासरतम् एकलव्यं दृष्ठा उच्चैः शब्दम् अकरोत्। तदा एकलव्यः शुनोः मुखे सप्तशरान् युगपत् अक्षिपत्। वाणपुर्णमुखः स्वा पाण्डवान् निकषा आगतः। तद् अस्त्रविद्यानैपुण्यं दृष्ठा सर्वे विस्मिता अभवन्। वने अन्विष्य ते एकलव्यम् अपश्यन्, एकलव्यो द्रोणशिष्य इति ज्ञातवन्तश्च। वनात् प्रत्यावृत्य पाण्डवाः सर्वं वृत्तान्तं द्रोणाय निवेदितवन्तः। अर्जुनस्तु निर्जने, द्रोणम् अपृच्छत्-गुरो! भवता उक्तं यत् अहं भवतः अन्यतमः शिष्यः। किन्तु वने मत्तो निपुणातरो भवत एकलव्यो नाम शिष्योऽस्ति।

द्रोणाचार्यः क्षणं विचिन्त्य अर्जुनमादाय एकलव्यं निकषा गतः। एकलव्योऽपि गुरुं समागतं दृष्ठा श्रद्धया शिरसा अनमत्। ततो द्रोणाचार्य उवाच-एकलव्यः त्वं मम शिष्य, अतो देहि मे दक्षिणाम्। एकलव्यः अवदत्-दवे! किं प्रयच्छामि, भवते किमपि मम अदेयं नास्ति। द्रोणः अवदत्-तव दक्षिणाङ्गुष्ठं मे देहि। एकलव्यस्तदा सानन्दं तस्य दक्षिणाङ्गगष्ठं छित्वा गुरुवे दक्षिणाम् अददात्।

ईदृशी गुरुभक्तिः जगति दुर्लभा एव।