सामग्री पर जाएँ

सदस्यः:पूर्णिमा साहुः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
       व्यक्तित्वम् (Personality)


मनोविज्ञान दृष्ट्या मानव-जीवने व्यक्तित्वस्य महत्वपूर्णं स्थानं वर्त्तते सामान्यतः लोके शारीरिक संरचना, स्वास्थ्यम्, सौन्दर्यम्, वेशभूषा इत्यादीन् सामान्य गुणान् व्यक्तित्वम् इति कथयन्ति । व्यक्तित्वस्य कृते आङ्गल भाषायां personality इति शव्दा: प्रयुज्यते । आङ्गल भाषायां Personality शव्दः व्यक्ते: वाह्यगुणान् आचार व्यवहारं च द्योतयति । वस्तुतः personality इति शव्दः “ लाटिन् भाषाया: ” persona इति शव्दात् personality शव्दः निष्पन्नः । persona इत्यस्य “लाटिन् भाषायांमुखावरणं (mask) इत्यर्थः । अस्य प्रयोगः विशेषतया नाटकानां, पात्राणां कृते प्रयुक्तः आसीत् । कदाचित् अन्नपानादीन् भाषाणशैलीं चलन शैलीञ्च दृष्टवा व्यक्ते: विषये सामान्यीकरणं कुर्मः यथा –अयं भोजनप्रियः अयं वाग्मी,अयं मितभाषी, अयं भ्रमणशीलः, अयं उत्तमः,अयं कामुकः,अयं भीरू:,अयं सामाजिकः,अयं एकाकी इत्यादयः गुणा: अथवा अवगुणा:कस्यचित् मानवस्य व्यक्तित्वं द्योतयति । यथोक्ति: -- पञ्चतन्त्रे- आकारैरिङिगतैर्गत्या चेष्टया-भाषणे न च । नैत्रवक्त्रविकारैश्च ज्ञायतेऽन्तर्गतं मनः ।। इति ।। व्यक्तित्वस्य सिद्धान्तः 1. शारीरिकाकृति: सिद्धान्तः (हिप्पोक्रेटिस्,क्रेश्मर् ,शेलडन) 2. लक्षणसिद्धान्त ( आलपोर्ट, कैटिल) 3. संरचनात्मक सिद्धान्तः (सिग्मण्ड फ्रायड् मनोविश्लेषण सिद्धान्त:) शरीराकृति सिद्धान्तः - मनोविज्ञाने मानव व्यक्तित्वे विश्लेषणं शरीराकृतिमाश्रित्य व्यक्तित्वस्य व्याख्यानार्थं जैविक कारकाणां प्रभावः परिशील्यन्ते तत्र एते सिद्धान्तः प्रमुखा: वर्त्तन्ते । 1. हिप्पोक्रेटिस् महोदयस्य सिद्धान्तः–

   		 ग्रीक् देशीय हिप्पोक्रेटिस् नामक वैद्य: मानवस्य शरीराकृति माश्रित्य मनुष्याणां व्यक्तित्वस्य व्याख्यानमकरोत्  । अस्य सिद्धान्तस्य अपरं नाम आकृति  सिद्धान्तोऽपि अस्ति । सिद्धान्तोऽयं देश-विदेशेषु प्रसिद्धिमागतः । हिप्पोक्रेटिस् महोदयस्य सिद्धान्तानुसारेण –“मानव शरीराकृति अधोलिखित भेदा: वर्त्तन्ते ।

 पैत्तिकः ( choleric) अयं शरीराकृत्या दृष्ट्या दृढः, परं च सांवेगिक दृष्ट्या दुर्वलः भवति । अयं उत्साही, कर्मठः,असहिष्णु: एवं च क्रोधशीलभवति ।  श्यामपित्तीयः ( meloncholic)

      अयं शरीराकृत्या सांवेगिक रीत्या च दुर्वलः भवति । अतः शक्तिहीनः, निराशावादी, दु:खी, विषादशीलश्च भवति ।

 पीतपित्तीयः ( phlegmatic) अयं शरीराकृत्या दुर्वलः, सांवेगिक दृष्ट्या सशक्तः च भवति । अतः अयम् अलसः निद्रालुश्च भवति ।  सुप्रत्याशी (sanguine) अयं शरीराकृत्या दृढः, सांवेगिक दृष्ट्या स्थिरःच भवति । अतः अयम् उत्साही, आशावादी, आत्मविश्वासी, हास्य प्रायश्चित भवति । 2. क्रेश्मर् महोदयस्य सिद्धान्तः - सिद्धान्तेऽस्मिन् मानवानांशारीरिक संरचनामाश्रित्य त्रिधा विभागः क्रियते ।  तुन्दिलः ( pyknic) एते स्थुला:, वामना:, कुम्भोदराश्च भवन्ति । एते सामाजिका: , विनोदप्रिया:,विश्रान्तिप्रिया: लोकप्रियाश्च भवन्ति ।  कृशकाया: (Asthenic) अस्यान्तर्गते जना: ,उन्नता:,कृशकाया:,कुम्भोदराश्च भवन्ति । एते लज्जावन्तः, निराशावादिनः,एकान्तप्रिया: एवं कुसमायोजिता: भवन्ति ।  दृढकाया: ( Athletic) अस्यान्तर्गते मानवः बलवान्, शारीरिक रुपेण स्वस्थः,तथा च सामाजिक:,आशावादिनः, कर्मशील:,सुसमायोजिताःच भवन्ति 3. शेलडन महोदयस्य सिद्धान्तः - शेल्डन महोदयः शारीरिक संरचना व्यक्तित्वयो: संम्वन्धस्य विस्तृताध्यनमकरोत् । अस्मिन् सिद्धान्तेशेल्डन महोदयः मानवशरीराकृति माश्रित्य मनुष्याणांत्रिधा विभागमकरोत् ।  स्थूलाकृति: ( Endomorphic) स्थूलाकृति: जना:स्थुलः,कोमलशरीरा:, शक्तिहीनाश्चभवन्ति ।तथा च स्वभावतः एते भोजनप्रियः,विश्रान्ति प्रिया,परंपरावादिनः,स्नेहशीलाः ,सामाजिकाश्च भवन्ति ।

 मध्याकृति: (mesomorphic) एते मानवा: शैक्षिकदृष्टया दृढाःपुर्णतः स्वस्थाःतथा च स्वभावतः एते भयरहिता:, साहसिका: , आशावादिनः वर्हिमुखीप्रतिभायुक्तः, उत्साही हीनश्च भवन्ति ।  लम्वाकृति: (Ectomorpich) शारीरिकदृष्ट्या इमे कृशकाया: दीर्घाश्च भवन्ति । एतेषां हस्तपादौ दीर्घौ भवतः,तथा च स्वभावतः एते निराशावादिनः, एकान्तप्रिया:, अल्पनिद्रालवः, एकाकिनः असामाजिका: , अल्पकाले श्रान्ताश्च भवन्ति ।