सदस्यः:प्रद्युम्न किशोर बेहेरा
नैतिकबिकासे शिक्ष्यकश्य महत्वम्
शिशोः नैतिकविकासक्षेत्रे शिक्षकस्य भूमिका एकान्तापरिहार्या । शिशोः जीवनस्य मूल्यवान् वाक्यानि विद्यालयस्य परिसरादेव स्वीकरोति । साम्प्रतिकसमाजे छात्राणां यत् नैतिकस्खलनं भवति, यदि सैव दिशि शिक्षकाः तत्पराः भवन्ति तर्हि युवसमाज उपयुक्तमार्गे परिचालितं भविष्यति । देश एवं समाजस्य प्रत्येकस्मिन् क्षेत्रे जीवनस्य प्रकृतमूल्यबोधं सर्वे हृदयङ्गमकर्तुं समर्था भवेत् । शिशो: नैतिकविकासे शिक्षकस्य कर्तव्यसम्बन्धे आलोचिष्यामः । यथा- १. शिशोरावश्यकतां प्रति सदासर्वदानुकूलभावं प्रदर्शनं कुर्यात् । २. उत्तमव्यवहाराय शिशो: मौखिकप्रशंसा पुरस्कारप्रदानञ्च करणीयम् । ३. शिशुं प्रति कठोरव्यवहारपरिवर्ते सौहार्द्यबन्धुत्वपूर्णव्यवहारः प्रदर्शेत् । ४. समाजस्य परम्परा प्रथा सम्बन्धे मनसि धारणा दातव्या । ५. समाजसेविनां जीवनवृत्तान्तोपरि लिखितपुस्तकं पठितुं छात्रः उत्साहितं करणीयम् । ६. विभिन्नधर्मसम्बन्धीयपुस्तकानि पत्रपत्रिकाः पतनाय सुयोगदातव्यम्। ७. शिशुः मनसि स्नेह भ्रातृभाव-सहानुभूति एवं समयानुवर्तिता इत्यादि महानगुणानां विकास कुर्यात् । ८. देश-समाज-अवहेलितजाति-निसहायं प्रति सेवामनोभावं शिशुः मनसि उद्रेक करणीयम्। ९. देशजातेश्च ऐतिहासिकसम्बन्धे छात्रः सच्चेतयेत् । १० शिशो: उत्तमचरित्रनिर्माणे साहाय्यं कुर्यात् । ११. समाजे सरल-निराडम्बर नीतिपूर्णञ्च जीवनयापनाय परामर्शप्रदानम् । १२. जीवनस्यो च्चादर्श भिन्नभिन्नमूल्यबोधसम्बन्धे च छात्रः अवगतं कारयेत् । १३. असामाजिककार्यकलापं कुचरित्रव्यक्तिभ्यञ्च दूरे स्थापनाय छात्रः प्रवर्तयेत् । १४. अश्लीलपुस्तकं नग्नचलच्चित्रम् इत्यादिविषये छात्रेभ्यः निवारणाय परामर्शः दातव्यः । समाजस्य प्रत्येकऽस्मिन् क्षेत्रे गुरुजनान् प्रति आनुगत्यस्वीकर्तुं छात्रेभ्यः शिक्षाप्रदेयम्।