सामग्री पर जाएँ

सदस्यः:प्रशस्तपादभाष्ये आकशनिरूपणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः




द्रव्यगुणकर्मसामान्यविशेषसमवायानां  षण्णां पदार्थानां साधर्म्यवैधर्म्यतत्वज्ञानं निःश्रेयसहेतुः ।

तश्चेश्वरचोदनाभिव्यक्ताद्धर्मादेव ।।


आकाशनिरूपणम्


आकाशकालदिशामेकैकत्वादपरजात्य भावे पारिभाषिक्यस्तिस्र: संज्ञा भवन्ति l आकाश:कालो दिगिति l तत्राकाशस्य गुणा:      शब्दसंख्यापरिमाणपृथक्त्वसंयोगविभागा:l

शब्द: प्रत्यक्षत्वे  सत्यकारणगुणपूर्वकत्वादयावद्द्रव्यव्यभावित्वादाश्रयादन्यत्रोपलब्देश्च न स्पर्शवद् विशेष गुण:l बाह्येन्दियप्रत्यक्षत्वादात्मान्तर  ग्राह्यत्वादात्मान्यसमवायादहङ्कारेण  विभक्तग्रहणाच्च   नात्मगुण :l

श्रोत्रं पुनः श्रवणविवरसंज्ञको नभोदेश :    शब्दनिमित्तोपभोगप्रापकधर्मधर्मोपनिबद्धस्स्य च नित्यत्वे  सत्युपनिबन्धकवैकल्याद्बाधिर्यमिति ।