सामग्री पर जाएँ

सदस्यः:बन्दना राजबंशी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वेदो हि भारतीयसंस्कृतेः मूलाधारः । स च भाषादृष्ट्या भावदृष्ट्या च दुरूहः । तस्यार्थावगमः सामान्यतः कर्तुं न शक्यते । अतस्तस्य सम्यक् अर्थज्ञानायानेकविषयाणां ज्ञानमावश्यकम् । इत्यनुभूय आचार्यैः वेदार्थज्ञानय केचन ग्रन्थाः विरचिताः । एतानि वेदज्ञानोपकारकाणि शास्त्राणि वेदाङ्गानीति व्यपदिश्यन्ते। अङ्गशब्दस्य व्युत्पत्तिलभ्यः अर्थोऽस्ति 'उपकारक': । 'अङ्ग्यन्ते ज्ञायन्ते अमीभिरिति अङ्गानि' इति व्युत्पत्या सारल्येन वस्तुस्वरूपज्ञाने अङ्गानि उपकारकाणि भवन्ति। शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्यौतिषमिति षड् वेदा‌ङ्गानि सन्ति। वैदिकमन्त्राणां शुद्धोच्चारणाय शिक्षायाः, यज्ञानुष्ठानस्य सम्यक् सम्पादनाय कल्पस्य, शब्दज्ञानाय रचनायै च व्याकरणस्य, वैदिकगूढपदार्थानामर्थज्ञानाय निरूक्तस्य, वैदिकमन्त्राणां यथाविधिपाठायोच्चारणाय च छन्दस्स्तथा यज्ञेषु सत्कालपरिज्ञानाय ज्यौतिषशास्त्रस्य च उपादेयत्वं वर्तते । कल्पः-

वेदाङ्गसाहित्ये कल्पस्य द्वितीयं स्थानं विद्यते। पाणिनीयशिक्षाया कल्पाङ्गं वेदपुरुषस्य हस्तस्थानीयं कल्पितम्। यथा हस्तादृते न कोऽपि पुरुषः स्वक्रियासम्पादने समर्थो भवति एवमेव कल्पवेदाङ्गं विना यज्ञप्रधानस्य वेदस्य यज्ञानुष्ठानं न सम्भवति। अतः वेदाङ्गेषु कल्पस्य प्रमुखस्थानं वर्तते ।

यागप्रयोगाणां सम्यगर्थापकं शास्त्रं कल्प इत्युच्यते- "कल्प्यते समर्थ्यते यागप्रयोगोऽत्र ।" अथवा वेदविहितकर्मणां सम्यगुपकल्पकं शास्त्रं कल्प इति - "कल्पो वेदविहितानां कर्मणामानुपूर्येण कल्पनाशास्त्रम्" ।