सदस्यः:बिजलेश त्रिपाठी
अधिगमः मानवस्य धिगमप्रक्रिया जन्मतः एव आरभ्यते | अत: सः - आजीवनम् - अधिगच्छन् भवति। मानवस्य अधिगमार्थं न कोपि निश्चितः समयः नः किञ्चित् सुनिश्चितं स्थानं भवति । सः सर्वदा सर्वत्र - यत्किमपि अधिगच्छन् भवति। न केवलं शिक्षासंस्थाभ्यः अपि तु परिवारात् समाजात् मित्रसमुदायात् चलच्चित्रात् परिचितापरिचित - व्यक्तिभ्यः स यत्किमपि शिक्षमाणः भवति।
अधिगमस्य अर्थः
एषः अधिगमः इति शब्दः अधिगमप्रक्रियार्थ तस्याः प्रक्रियायाः परिणामार्थञ्च प्रयुज्यते । अधिगमस्य अर्थः शिक्षणम् अथवा व्यवहारपरिवर्तनम् । व्यवहार परिवर्तनम् अनुभवेन प्रशिक्षणमाध्यमेन च सञ्जायते । उदाहरणार्थं - कश्चन लघुबालः ज्वलन्तं दीपं स्पृशति । ज्वलन्तः दीपस्य स्पर्शेण तस्य हस्तः दग्घो भवति । तेन सः पीडाम् अनुभवति । भाविष्ये स बालः कदापि तथा न समाचरिष्यति । एतदेव अनुभवेन ' अधिगमः ' इति उच्यते । कश्चित् बालकः द्विचक्रिकां चालयितुं न शक्नोति । शनैः शनैः सः कस्यचन साहाय्येन द्वि चक्रिकायाः उपरि आरुहा , तच्चालने नैपुण्यं प्राप्नोति । एषः अधिगमः प्रशिक्षणेन इति उच्यते । दैनन्दिनजीवने अस्माभिः अधिगमस्य अनेकानि उदाहरणानि दृश्यन्ते । यथा - पाठस्य स्मरणं गणितप्रश्नानां समाधानं . विविध यानानां चालनं टङ्कणम् इत्यादीनि ।
अधिगमस्य परिभाषाः
अधिगमः व्यवहारपरिवर्तनम् एका प्रक्रिया । मनोवैज्ञानिकैः एतस्य अर्थ स्पष्टयितुं नैका : परभाषाः प्रदत्ताः यतो हि मनोविज्ञाने एव बहुविधाः शैक्षिक सम्प्रदायाः वर्तन्ते । अतः एकै केनापि सम्प्रदायेन अधिगमस्य परिभाषाः स्वदृष्टया प्रत्तपादिताः 1. स्किनर महोदयानुसारम् - व्यवहारे उत्तरोत्तरसाम - ञ्जस्यप्रक्रिया एव अधिगमः इति कथ्यते । 2. वुडवर्थ महोदयानुसारम् - ) महोदयानुसारम् - नवीन ज्ञानम् अनुक्रियां च प्राप्तुं क्रियमाणा प्रक्रिया अधिगम प्रक्रिया इति उच्यते ।
अधिगमसिद्धान्ताः
1. अधिगमे उद्दीपनस्य अनुक्रियायाश्च विकासः सञ्जायते ।
२. अधिगमे छात्राणां योग्यता महत्वपूर्णा भवति ।
3. सामूहिकवातावरणमपि अधिगम प्रक्रियायाः कृते महत्वपूर्णं भवति ।
4. शिक्षणे कृत्वाधिगमः (learning by doing ) अत्यन्तं प्रभावशाली भवति । अतः छात्रैः क्रियाशीलैः भाव्यम् ।
5. अधिगम प्रक्रियायाः निमित्तं छात्राणाम् उत्सुकतायाः स्तरः निर्धार्यते
शिक्षणाधिगमप्रक्रिया 1 . उद्देश्य निर्धारणम् २. परिस्थितेः निर्माणम् 3. शिक्षार्थिनाम् अन्तः क्रिया अधिगमप्राप्तिश्च । 4. मूल्याङ्कनम्
शिक्षणाधिगमयोः सम्बन्धः बर्नाडमहोदयेन निम्नाङ्किताचित्रमाध्यमेन शिक्षणाधिगमयोः सम्बन्धं व्यञ्जयितुं प्रयत्नो विहितः -
o शिक्षकः
छात्रः O अधिगमः
( शिक्षणाधिगयोः सम्बन्धः )