सदस्यः:बिनायक उपाध्यायः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
 विकासस्य प्रभावककारकाणि(भारतीयपक्षः)                           
    ऋषीणां तथा विदुषां कर्मभूमिः सर्वज्ञानानां जन्मदात्री भवति ।यानि तत्वानि बहुबर्षपूर्वमेव ऋषिमुनिना प्रतिपादितानि तानि तत्वानि आधुनिकयुगे पाश्चात्यविद्वत्जनैः प्रतिपादितानि ।अत्र एतादृशानि शास्त्राणि विद्यन्ते येषामाधारेण वयं वक्तुं पारयामः यत् भारतीयशास्त्रेषु सर्वमुपलभ्यते ।यथोक्तं- “न वेदशास्त्रादन्यत्र किंचिच्छास्त्रं हि विद्यते।“ बालकानां विकाससन्दर्भे प्रभूतं चिन्तनं भारतीयशास्त्रेषु विहितं वर्तते ।तेषां विषये क्रमशः प्रस्तुयन्ते । 
वंशानुक्रमसिद्धान्तः   
     विकाससन्दर्भे वंशानुक्रमस्य अभिमतं तु भारतीयैरेव प्रतिपादितमासीत् ।माण्डूक्योपनिषदि स्पष्टमुल्लिखितं यत् ब्रह्मज्ञस्य कुले एतादृशो जनः नोत्पद्यते यः ब्रह्मवित् न भवतीति ।यथा- “नास्य ब्रह्मवित्कुले य एव एवं वेद ।“ अर्थात् ब्रह्मवित् पितृभ्यां कदापि अब्रह्मवित् शिशोः जन्म नैव भवति ।सः शिशुः अग्रिमे जीवने अवश्यं ब्रह्मज्ञः भविष्यतीति ।वंशानुक्रमस्य सिद्धान्तमिदं मनोवैज्ञानिकाः अपि स्वीकुर्वन्ति ।
 पुनर्जन्मसिद्धान्तः   
     बालकानां विकाससन्दर्भे भारतीयशास्त्रेषु पुनर्जन्मसिद्धान्तोऽपि प्रवर्तितो वर्तते ।पुनर्जन्मसिद्धान्ततस्य मूले कर्मसिद्धान्तः तिष्ठति ।अनयोर्मध्ये परिपूरकसम्बन्धः वर्तते ।जनः यत् कर्म करोति, तत्फलं तेन अवश्यं प्राप्यते ।यतो हि कथ्यते- “अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।“पुनश्च श्रीमद्भगवद्गीतायां उक्तमस्ति, आत्मा जीर्णशरीराणि परित्यज्य नूतनशरीरेषु प्रविशति । यथा-                                  
“वासंसि जीर्णानि यथा विहाय
            नवानि गृह्णाति नरोऽपराणि ।                                    
तथा शरीराणि विहाय जीर्णानि 
          अन्यानि संयाति नवानि देही ॥“
             पूर्वजन्मनि एकः व्यक्तिः यादृशं कर्म कृतवान् तस्य परिणामः अस्मिन् जन्मनि पूर्वजन्मकृतकर्मानुसारेण एव भविष्यति ।यदि पूर्वजन्मनि कश्चन व्यक्तिः पण्डितः आसीत् तर्हि सः अस्मिन् जन्मनि एकस्य अल्पशिक्षितस्य परिवारे जातः भूत्वा अपिअवश्यं सुचरित्रवान् तथा ज्ञानवान् भवितुमर्हति ।परं वैदेशिकमनोवैज्ञानिकाः पूर्वजन्म तथा कर्मसिद्धान्तस्य भारतीयं मतं न मन्यन्ते ।यतो हि उभयसिद्धान्तयोः प्रयोगः नैव भवितुं शक्यते । 
संस्कारसिद्धान्तः              
  भारते संस्काराणां महत्वपूर्णं उ वर्तते ।व्यक्तित्वविकासे संस्काराः अपि अपेक्षितः वर्तते इति भारतीयाः मन्यन्ते ।पतन्जलीमुनि योगसूत्रे संस्कारस्य लक्षणं प्रतिपादितवान् यत् चित्ते यदस्थायिप्रभावो जायते तत् संस्कारपदेनाभिधीयते इति ।“तज्ज संस्कारोऽन्यसंस्कारप्रतिबन्धी”-योगसूत्रम् । इमे संस्काराः व्यक्त्या गृहे समाजे तथा शिक्षानुष्ठानेषु प्राप्यते ।इमे संस्काराः त्रिधा । यथा- ज्ञानातमकाः, भावात्मकाः, क्रियात्मकाश्चेति । ज्ञानात्मकसंस्काराः स्मृतिं, भावात्मकाः क्लेशं संवेगं च, क्रियात्मकास्तु जात्यायुभोगानुत्पादयन्ति ।
   वस्तुतः शिक्षायाः आधाराः इमे संस्काराः एव । संस्कारमाध्यमेनैव शिक्षया बालकस्यशारीरिको, मानसिक:, संवेगातमकः, सामाजिकश्चेत्यादयः विकासाः भवन्ति । शिक्षायाः सर्वैव प्रक्रियाः संस्कारसिद्धान्तैराधृताः भवन्ति । परं साम्प्रतिकाः मनोवैज्ञानिकाः विकासस्य हेतुभूतान् संस्कारान् न मन्यन्ते ।         

बिनायक उपाध्यायः

~~~~~~~~~~~

यथा-