सामग्री पर जाएँ

सदस्यः:भूपेनसरकारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

माँ त्रिपुरेश्वरीमन्दिरम्

त्रिपुरासुन्दरीमन्दिरं हिन्दूमन्दिरम् अस्ति, यत् स्थानीयः त्रिपुरेश्वरी देवी इति नाम्ना प्रसिद्धम् अस्ति । इदं मन्दिरं त्रिपुराराज्यस्य आगरतलातः प्रायः ५५ कि. मी. दूरे प्राचीननगरे उदयपुरे स्थितम् अस्ति। आगरतलातः रेलयानेन लोकयानेन च मन्दिरं गन्तुं शक्यते । इदं मन्दिरं महाराजधन्य- माणिक्यस्य शासनकाले १५०१ शताब्द्द्यां निर्मितम्। इदं मन्दिरं भारतस्य ५१ महापीठेषु अन्यतमम् अस्ति । अस्मिन् स्थाने मातासत्याः प्रत्यक्षाङ्गुलिचिह्नानि अद्यापि अस्ति । देशस्य पवर्वोत्तरभागे पवित्रहिन्दूमन्दिरेषु अन्यतमः अस्ति तथा च असमप्रदेशस्य कामाख्यामन्दिरस्य अनन्तरं पर्वोत्तर भारतस्य कस्यापि मन्दिरस्य पर्यटकानां सर्वाधिक भ्रमणम् अस्मिन् क्षेत्रम् एव भवति । अस्य मन्दिरस्य नाम्नैव त्रिपुराराज्यस्य नामकरणं कृतम् अस्ति । माताबाडी इति लोकप्रियम् एतत् मन्दिरं कूर्मस्य कुब्जसदृशे लघुपर्वते स्थितम् अस्ति। देवी पारम्परिकब्राह्मणपुरोहितैः सेवते ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:भूपेनसरकारः&oldid=483698" इत्यस्माद् प्रतिप्राप्तम्