सदस्यः:मनोरञ्जन पण्डा/प्रयोगपृष्ठम्
· भगवतः शिवस्य महत्त्वं सम्पूर्णे चरित्रञ्च यत्र प्रतिपादितम्स्ति तत्छिवपुराणं प्रागेव द्वादशसंहिताविशिष्टमासीत् । कलिजनान् अल्पायुषअल्पबुद्धिश्च जानित्वा भगवान् व्यासः तत्संक्षिप्य सप्तसंहितात्मकंचतुर्विंशतिसहस्त्रश्लोकयुक्तं चकार ।यथा
व्यासेन तत्तु संक्षिप्तं चतुर्विशत्सहस्त्रकम् ।
शैवं तत्र पुराणं वै चतुर्थं सप्तसंहितम् । ।
शिवपुराणस्य सप्तसंहितासु विद्येश्वरसंहितायां बहुविषयाः चर्चिताः सन्ति । तेषु सदाचारादि विषयाः संहितायामस्यां विस्तृतरूपेण प्रतिपादितासन्ति। सदाचारयुतो विद्वान् ब्राह्मण इत्युच्यते। वेदाचारयुतो विद्वान् विप्र इति कथ्यते। ह्यतैरैकैकवान् पुरूषः द्विज उच्यते। अल्पाचार अल्पवेदः राजसेवकः क्षत्रिय कथ्यते। कृषिवाणिज्यसदाचारवान् पुरूषः वैश्यः,कर्षकः, ब्राह्मणः शूद्रब्राह्मणः,निन्दकः परद्रोहि चाण्डालश्च द्विज कथ्यते। पृथिवि मातः राजा कथ्यते ,इतरे च क्षत्रियाः मताः।धान्यादिक्रयवान् पुरूषः वैशयमुच्यते । ब्रह्मक्षत्रियवैश्यानां यः सेवां करोति स रुद्रः, तेषु यः कृषिः करोति सः वृषलो , इतरे दस्यवः उच्यन्ते। यथा-
शुद्रब्राह्मण इत्युक्तेः स्वयमेव हि कर्षकः ,
असूयालः परद्रोहि चण्डालद्बिज उच्यते ।
पृथवीपालके राजा वीतये क्षत्रिया मताः ,
धान्यादिक्रयवान्वैश्य इतरो वणिगुच्यते ।।
सदाचारविधिः—नित्यनैतिककर्मणि प्रत्येकमनुष्यः प्रातरूत्थाय पूर्वमुखः सन् इष्टं चिन्तयेत्, ततः धर्मार्थच्ञ चिन्तयेत् । पूर्वमुखः सन् शय्यां त्यक्त्वा यदि मनुष्यः उत्थितो भवति तर्हि तस्य आयुर्बृद्धिः भवति । अग्निकोण-दक्षिण-पश्चिम-वायव्य-उत्तर-ईशानभिमुखः सन् उत्थानेन मनुष्यः क्रमेण द्वेषं मरणसदृशं कष्टं पापं भाग्यं व्याधिं शक्तिच्ञ लभते ।निशायां अन्तिमं पादं एषा कथ्यते,यामार्धं संधिरूच्यते। तत्काले समुत्थाय गृहाद् दुरं गत्वा ब्राह्मणः उतराभिमुखः सन् मलमुत्सृजेत् । तत्र मुक्ताः तन्मलं न पश्येत् । जलात् बर्हिः शौचं कृर्यात् । जलदेवान् नमस्कृत्य मन्त्रेण स्नानमाचरेत्, तीर्थजलेन देवादिन् तर्पयेत् । धौतवस्त्र पच्ञकच्छेन धरयेत् । सर्वेषु कर्मसु उत्तरीय धारयेत्। नद्यदितीर्थस्थानेषु स्नानं वस्त्रं न शोधयेत् । जावालक्तोमन्त्रेण भस्माना त्रिपुण्डं धारयेत् । आपो हि ष्ठा मयो भुवः इति मन्त्रं पठित्वा पापं शान्तये शिरसि जलं प्रोक्षयेत्, तत्र तेनैव मन्त्रेण मन्त्रस्नानं कृर्यात्। मन्त्रं यथा
आपोहिष्ठेति शिरसि प्रोक्षयेत्पापशान्तये ।
यस्येति मन्त्रं पादे तु सन्धिप्रेक्षणमुच्यते ।।