सामग्री पर जाएँ

सदस्यः:मिण्टु दास

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

औचित्य-सम्प्रदायः- भारतीयालंकारशास्त्रस्य अन्यतमो सम्प्रदायोऽस्ति 'औचित्य-सम्प्रदायः' । अस्य सम्प्रदायस्य प्रवर्तकः क्षेमेन्द्रमहाभागः । आचार्यक्षेमेन्द्रविरचितो ग्रन्थोऽस्ति ‘औचित्यविचारचर्चा’ । तत्र तेन औचित्यसिद्धान्तस्य प्रतिपादनं कृतम् । प्राणतत्त्वं विना शरीरे यथा भूषणं व्यर्थं भवति तथैव काव्येऽपि औचित्यं विना गुणालङ्कारदयो व्यर्थाः भवन्ति । अलंकारा अनुप्रासोपमादयः । गुणाः च माधुर्य-ओज-प्रसादादि । काव्यस्य स्थिरमविनश्वरं जीवनं तु औचित्वम् एव अस्ति । यथोक्तम् -

“काव्यस्यालंमलङ्कारैः किं मिथ्यागणितैर्गुणैः । यस्य जीवितमौचित्यं विचिन्त्यापि न दृश्यते ।। अलंकारास्त्वलङ्कारा गुणा एव गुणा सदा । औचित्यं रससिद्धस्य स्थिरं काव्यस्य जीवितम् ।।”

औचित्य रसस्य आत्मा इति क्षेमेन्द्रेन उच्यते । काव्येषु विभिन्नतत्त्वानाम् औचित्येन सन्निवेश एव सौन्दर्याधायकं भवतीति काव्यशास्त्रिणामभिमतम् । काव्येषु रसालंकारगुणरीत्यादितत्त्वानि तदैव सौन्दर्याधायकानि भवन्ति यदा तेषां विनियोजनम् औचित्यपूर्णं भवति । औचित्येन एव गुणानां सत्ता भवति , औचित्यं विना गुणाः अपि काव्यशोभां सम्पादयितुम् असमर्थाः भवन्ति ।

         किम् इदम् औचित्यम् ॽ एतत् विषये जिज्ञासायां यो यत्सदृशः , येन परस्परं सम्मिलनं भवेत् तदेव औचित्यम् । अथ च उचितस्य भाव औचित्यम् । साधारणत औचित्यशब्दस्य अर्थः ‘सम्पत्तिः’ । संस्कृतवाङ्मये औचित्यशब्दस्य प्रयोग अतिप्राचीनादेवकालात् प्रवृत्तो वर्त्तते । औचित्यस्य भावनाध्वन्यादि समस्त काव्यतत्वानां मूलभावना वर्त्तते । अयं हि काव्यं शास्त्रस्य व्यापकतमः सिद्धातो वर्त्तते । 
    आचार्यक्षेमेन्द्रेण औचितस्य स्वरूपम् एव प्रतिपादितम् -

“उचितं प्राहुराचार्याः सदृशं किल यस्य यत् । उचितस्य च यो भावस्तदौचित्यं प्रचक्षते ।।” इति ।

अर्थात् यद् वस्तु यस्यानुरूपं भवति तदेव आचार्याः उचितं कथयन्ति । उचितस्य भाव एव औचित्यमिति कथ्यते । औचित्यमिदं न केवलं काव्ये , लोकेऽपि सर्वत्र व्याप्तं दृश्यते । अस्य औचित्यस्य पद-वाक्यार्थ-रस-कारक-लिङ्ग-वचनादि अनेकस्थलेषु उदाहरणानि प्रदर्श्यं साहित्यरसिकानां महानुपकारः कृतः क्षेमेन्द्रेण । आचार्यक्षेमेन्द्रस्याभिमतं वर्तते यत् औचित्यं काव्यस्य प्रत्यङ्गं भवेत् । अर्थात् रसेषु रसत्वम् , अलंकारेषु अलङ्कारत्वं , गुणेषु गुणत्वं , रीतिषु रीतित्वं तदैव भवति यदा तेषां सन्निवेशनम् औचित्ययुतं भवति । काव्ये यत्र औचित्यस्य अभावो भवति , तत्रैव रसभङ्गो जायते । तेन अचारुत्वमागच्छति , पाठकेषु दर्शकेषु च अरुचि उत्पद्यते । अत एव औचित्यनिर्वाहो अनिवार्य एव । औचित्येन एव काव्येषु सौन्दर्यम् आगच्छति ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:मिण्टु_दास&oldid=483691" इत्यस्माद् प्रतिप्राप्तम्