सामग्री पर जाएँ

सदस्यः:मित्रभानु सहु

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्त्री-शिक्षायाः महत्त्वम्

स्त्री-शिक्षा समाजस्य प्रमुखं आधारम् अस्ति। यदा स्त्रियः शिक्षिताः भवन्ति, तदा ते स्वजीवनं सुगमं कर्तुं शक्नुवन्ति, परिवारं च उत्तमरीत्या पालयितुं समर्थाः भवन्ति। शिक्षिता स्त्री आत्मविश्वासं प्राप्नोति, नूतन-कौशलानि शिक्शितुं शक्नोति, समाजे सम्मानं च लभते।

प्रस्तावना

पूर्वकाले स्त्री-शिक्षा अल्पा आसीत्। बहवः जनाः मन्यन्ते स्म यत् स्त्रियः केवलं गृहे कार्यं कुर्वन्तु। किन्तु कालेन सह जनानां विचाराः परिवर्तिताः। अद्य स्त्री-शिक्षा आवश्यकत्वेन स्वीकृता अस्ति।

स्त्री-शिक्षायाः लाभाः

स्वावलम्बनम् – शिक्षिता स्त्री स्वकार्यं स्वयं कर्तुं शक्नोति। परिवार-उन्नतिः – शिक्षिता माता स्वसन्तानान् उत्तमरीत्या शिक्षयितुं शक्नोति। समानता – स्त्री-शिक्षा समाजे समान-अधिकारान् वर्धयति। स्वास्थ्य-ज्ञानम् – शिक्षिता स्त्री स्वास्थ्य, स्वच्छता, पोषणम् इत्यादिषु अधिकं जानाति। राष्ट्र-विकासः – स्त्रियः शिक्षिता भूत्वा देशस्य प्रगत्यै सहायकाः भवन्ति।

आधुनिकस्थितिः

अद्य भारतदेशे बहुविधाः योजनाः स्त्री-शिक्षायाः विकासाय चलन्ति। विद्यालयाः, छात्रवृत्तयः, जन-जागरण-कार्यक्रमाः च स्त्री-शिक्षां प्रोत्साहितुम् अत्यन्तं सहायकाः सन्ति।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:मित्रभानु_सहु&oldid=496895" इत्यस्माद् प्रतिप्राप्तम्