सदस्यः:रत्ना देवी
विश्वनाथघाटः
असमप्रदेशस्य प्रसिद्ध ऐतिहासिकं पर्यटनकेन्द्रम् आकर्षणीयस्थलं वर्तते विश्वनाथघाटः । पौराणिकीतिहासानुसारं विश्वनाथघाटस्य नाम गुप्तकाशी इति नाम्ना अपि ज्ञायते । विश्वनाथजनपदस्य विश्वनाथचारियाली तः नवकोश परिमिते दक्षिणे ब्रह्मपुत्रनद्याः उत्तरदिशि स्थानम् इदं वर्तते । स्थानम् इदं प्राकृतिकसोन्दर्येण परिपूर्णं वर्तते । ब्रहमपुत्रनद्याः जले पर्यटकस्य मनः आकर्षति ।
अहोमराजत्वसमये विश्वनाथे अनैके दोलाः देवालयाः च निर्मिताः अभवन् ।
विश्वनाथे मुख्यरूपेण त्रिंशत् देवालयाः सन्ति । यथा उमा - चक्रेश्वरम् – हरिहरकर्दमेस्वरम् – वासुदेवं – नाङ्गलेश्वरं – भेरवेश्वरम् – वाधेश्वरी - सिद्धेश्वरं – विश्वनाथं – चण्डी - कमलेश्वरं – शिवनाथं - मुक्तिनाथां – वानेश्वरं – प्रतापगडम् – कालभैरवं - वीरभद्रारं - जोङाशिल - पूर्वशङ्करं - सूर्यामाधवं – गणेशमन्दिरं – वृषधजं – काशीनाथमन्दिरम् – उद्रेश्वरं - गौरीवल्लवम् – विष्णुः – दुर्गाशक्तिः – मङ्गलचण्डिका चेति ।
अनेकैः सुन्दरैः सुशोभितः विश्वनाथघाटः असमप्रदेशे विश्वनाथजनपदे अस्ति ।