सामग्री पर जाएँ

सदस्यः:राऊत निवासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कोणार्क-मन्दिरम्

भारतीय-संस्कृतेः प्राचीन-स्थापत्यकलायाः च एकं दिव्यं रत्नं कोणार्क-मन्दिरम् अस्ति। एतत् मन्दिरं ओडिशा-राज्ये समुद्रतटे स्थितम्। अस्य मुख्य-देवता भास्करः (सूर्यदेवः)। अस्य मन्दिरस्य निर्माणं ईस्वी त्रयोदशशतके नरसिंहदेवेन प्रथमेन कृतम्। एतत् मन्दिरं रथाकारम् अस्ति, यत्र सूर्यदेवस्य महा-रथः प्रतीतिः भवति। मन्दिरस्य बाह्य-भागे द्वादश भव्यचक्राणि निर्मितानि सन्ति, ये कालचक्रस्य प्रतीकानि सन्ति। तस्य रथं सप्त अश्वाः वहन्ति इति दृश्यते, ये सूर्यस्य तेजोगामित्वं दर्शयन्ति। कोणार्क-मन्दिरे शिल्प-कला अत्यन्तं आकर्षकास्ति। दीवारासु नानाविधानि सुन्दराणि उत्कीर्ण-चित्राणि दृश्यन्ते—देवताः, नर्तक्यः, वादकाः, पशुपक्ष्यः च। एते शिल्पाः तस्यकालीन-सांस्कृतिक-जीवनस्य जीवन्तं चित्रं दर्शयन्ति। अतोऽयं मन्दिरः “शिल्प-विश्वविद्यालयः” इव प्रसिद्धः। चन्द्रभागा-सागरस्य समीपे अवस्थितम् इदं मन्दिरं उदयमानस्य सूर्यस्य किरणैः दिव्यानुभूतिं जनयति। कालक्रमेण मुख्य-शिखरस्य किञ्चन भागः नष्टः, किन्तु जगमोहनं, चक्राणि, अश्वाः, भित्तिशिल्पानि च अद्यापि सुरक्षितानि सन्ति। वर्षे १९८४ तमे युनेस्को-संस्थया कोणार्क-मन्दिरं विश्व-धरोहरे स्थाने उपनिबद्धम्। भारतीय-इतिहासे, कले, स्थापत्ये च अस्य मन्दिरस्य महत्त्वं अतुलनीयम्।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:राऊत_निवासः&oldid=496942" इत्यस्माद् प्रतिप्राप्तम्