सामग्री पर जाएँ

सदस्यः:राजश्री(मिताली)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

विषयः-जन्ममवर्ववकरथा अासित् कौशाम्बी नाम नगरी|तत्र देवधरनामा गणकः प्रतिवसति स्म|तस्य शान्तिधरो नाम पुत्रो बभूव| स च जन्मवर्वरः पित्रा गुणिना प्रयत्नेन पाठ्यमानः पदार्थ नाधिगच्छति|तथापि लोकदुयप्रत्याशाड्कुंरः सकलमनोरथस्थानम् एक एव तस्य पुत्रः|स्नेहाधिक्यात् स तं यत्नेन पाठयति स्म|ततो महता समयेन महता च पितुः श्रमेण स शुकवदभ्यस्तशास्त्तः अभवत्| तमधिगतशास्रं कृत्वा गणकश्चिन्तितवान् | 'यदेनं राज्ञः परिचितगुणं करोमि'|ततः स गणको राज्ञः समिपं तं पुत्रं नीतवान्|तं पुरोवर्तिनं दुष्टवा राजोवाच-'अरे देवधर गणक!किमधीतम् अनेन रारपुत्रेण'|गणक उवाच-'देव!गणकशास्रम् अधीतम् अनेन|प्रश्नस्योत्ररं च जानाति|ततोऽद्य देवेन पृष्टो यदि प्रश्नस्योत्ररं विज्ञास्यति तदध्ययनफलं प्रप्स्यति'| तदनन्तरं सकौतुको राजा सुवर्णाङ्गुलीयकम् एकं मुष्टौ कृत्वा तमुवाच-'अये गणककुमार!जानीहि तावत् किं वस्तु मम मुष्टौ वर्तते इति'|ततो गणकपुत्रः कठिनीमादाय शास्रानुसारेण गणयति स्म|गणनाय च विदित्वा अब्रवीत्-'देव!न जीवो न मूलं किन्तु धातुरुपं वस्तु देवस्य मुष्टौ तिष्ठति'| राजोवाच-त्रुटिशून्यगणना गणकपुत्रः पुनरुवाच 'मण्डलाकृति वस्तु वर्तते'|गणकपुत्रः पुनरवदत् -'गुरुद्रव्यं मध्ये शून्यं च भवति'| राजोवाच-'साधु गणककुमार साधु!भद्रं जानासि कथय कथयः'|ततः राजप्रशंसया जातरभसः पुलकितबाहुमूलः सः त्वरितं कथतवान्-'देव!पाषाणनि्मितं छिद्रयुक्तं चक्रमेकं विद्यते देवस्य मुष्टिगर्भेः'| राजा विहस्य उवाच-'अये गणक!तव पुत्रः शास्रकृताभ्यासोऽस्ति किन्तु अबुद्धिः|यावद् दूरें शास्रानुसारिण्या गणनय कथितं तावत् समुचितम् एव| अन्यच्च स्वकीयतर्केण यदुक्तं तत्र विसंवादो जातः| अरे मूर्ख गणकपुत्र!त्वं न जानास्येव महत् एतादुशं विशालं पाषाणचक्रं मनुष्यमुष्टिगर्भे न सम्भवति| तत् कथम् असंगतः एवायं तर्कस्तव चेतसि अायातः| तस्मादवश्यं बुद्धिहीनोऽसि'|इत्यभिधाय राजा तस्मै किंचिद् वस्तु दत्वा तमाज्ञप्तवान्-गुरुं निषेवन्रपि जीवनाय भ्रमन् धरित्र्यामपि यावदम्बुधि अधीत्य शास्राण्यापि चिन्तयन् मुहुर्धिया विहीनो न हि याति धन्यताम्|| (समाप्त)