सदस्यः:रामप्रिय भगवत्पादरेणू/प्रयोगपृष्ठम्
व्याकरणे शब्दतत्त्वविवेचनम्
अखिलकोटिब्रह्माण्डनायकस्य परब्रह्मणः अखिलं जगत् शब्दात्मकं विद्यते। अपौरूषेयः प्रत्यक्षप्रमाणरूपात्मकः वेदः शब्दात्मकोऽस्ति। सृष्टेः पूर्वं प्रथमं प्रजापतिना माङ्गलिकौ द्वौ शब्दौ समुच्चारितौ-
"ओङ्कारश्चाथ शब्दौ हि द्वावेतौ ब्रह्मणः पुरा"
"कण्ठं मित्त्वा विनियतौ तस्मान्माङ्गलिका वुमौ"
सर्वस्मिन् लोकव्यवहारे शास्त्रे च शब्दं विना कोऽपि मानवः कुत्रचिदपि किञ्चिदपि व्यवहर्तुं न शक्नोति।
"शब्दसमूहो वाक्यम्"
एतदभिप्रायमादायभाष्यकारपतञ्जलिना मङ्गलात्मकं वाक्यं "अथ शब्दानुसासनमिति प्रोक्तम्। व्याकरणकोशादिभिः अनुशासिताः संशोधिताः शब्दाः ऐहिकामुष्मिकफलप्रदायकाः भवन्ति "अर्थबुध्वाशब्दप्रयोगः" इति न्यायेनार्थज्ञानपूर्वक साधुशब्दोच्चारणेन मानवाः पुण्यं लभन्ते। यथा-
" एकः शब्दः सम्यग्ज्ञातः सुष्ठुप्रयुक्तः शास्त्रान्वितः स्वर्गे लोके च कामधुक् भवति, तस्य मातापितरौ स्वर्गे लोके महीयेते।"
शब्दस्वरूप विवेचन प्रसङ्गे पतञ्जलिनोक्तम्" कस्तर्हि शब्द इति जिज्ञासायां वैदिकानां लौकिकानाञ्चेति द्वैविध्यं प्रतिपादितम्। शब्दस्वरूप कथयन् वर्णितम् -
१-"येनोच्चारितेन सास्नालाङ्गुलककुदखुरविषाणार्थ रुपं शब्दः"।
२- अथवा-"प्रतीत पदार्थको लोके ध्वनिः शब्दतत्त्वोच्यते"।
३-किञ्च-" श्रोत्रेन्द्रियं ग्राह्यत्वे सति गुणत्वं शब्दस्य लक्षणम्"।
अर्थात् शब्दोच्चारण कारण उच्चारयितुः मानस पटल तस्यार्थस्याऽपि ज्ञानं जायते स एव शब्दाः अत्रापि सूत्रं - सुप्तिङ्न्तं पदम्" सुबन्तं तिङ्न्तश्च शब्दलक्षणम् स्वीक्रियते।
शब्दतत्त्वम् "इति सामासिकशब्दस्य व्युत्पत्ति प्रसङ्गेन पाणिनिनाकथितं शब्दाय धातुना विशेष घञ् प्रत्यये सति शब्द इति "शप् आक्रोशे इति धातुना - शप्यते आकुश्यकते, शब्दायते वा इति शब्दः। शप् - धातोः" शाशिविभ्यां ददलौ" इत्युणादि सूत्रेण दकारे जश्त्वे स्वादि कार्ये च शब्द इति सिद्दयति, शब्दानां तत्त्वम् शब्दतत्त्वम्" " तस्यभावस्त्वतलौ" इत्यनेन भावार्थे तल "प्रत्ययो विधियते। अत्र भावशब्देन "भावो भावना सदैवोत्यादना सैव च क्रिया" गृह्यते। शब्दे या क्रिया शब्दः या क्रिया, शब्दनिष्ठ यो व्यापारः स एव तत्त्वम् " इति शब्देतत्त्वस्यार्थे गृह्यते।
" शक्तिवादे" तत्" शब्दो द्विधा प्रतिपादितः
१-पूर्वपरामर्शकः
२-बुद्धिस्थ परामर्शकश्चेति।
अत्र तत् शब्दः सर्वनाम वाचकः बुद्धिस्थ परामर्शको वर्तते। बुद्धि विशयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नेन तत् शब्दः। अर्थात् शब्दतत्त्वे ये गुणात्र बुद्धिस्थाः ते तत्वशब्देन गृह्यन्ते।
निष्कर्षरूपेण वक्तुं शक्यते यत् शब्दानां सर्वविध-नित्यत्व कारणात् आकाशे सदैव विद्यमानता च आधुनिकोपकरणैः दूरभाषादि यन्त्रद्वारा अष्माभिः व्यवहारं विधीयते आकाशवाण्या च श्रुयते।
शब्दतत्त्वविषये किमधिकं ब्रुमहे आत्मसाधनरूप पुरूषार्थचतुष्टयेषुमोक्ष मोक्षप्राप्त्यर्थमपि शुद्धशब्दोच्चारणं कारणां वर्णितमस्ति देहावसाने "ॐ शब्दोच्चारण माध्यमेनैव प्राणिनां मुक्तिः ईश्वरप्राप्तिः भविष्यतीति।
गीतायां भगवता कृष्णेनोक्तम्-
ओमित्येकाक्षरम् ब्रह्म व्याहरन् मामनुस्मरन्।
यः प्रयाति त्यजन्देहं स याति परमां गतिम्।।