सदस्यः:ललित भट्टराइ/प्रयोगपृष्ठम्
दिखावट
शंकरदेव शिशु निकेतन
विद्या भारत्याः असम प्रान्तीय शिशु शिक्षा समिति असम द्वारा प्रचाल्यमानाः विद्यालयाः शंकरदेव शिशु निकेतन इति नाम्ना प्रसिद्धाः। एतेषां विद्यालयानां नामकरणं तु असमराज्यीय महापुरुष शंकरदेवस्य नाम्ना जातः। विद्यार्थीनां सर्वाङ्गीन विकासार्थं शंकरदेव शिशु निकेतन समुहः अहर्निशं कार्यं कुर्वन्ति इति सर्वजन विदितमेव। अस्य शंकरदेव शिशु निकेतन समुहस्य अयं विशेषता वर्तते यत् यद्यपि एते विद्यालयाः असमीया माध्यमेन चाल्यते तथापि अत्र द्वितीय कक्षादारभ्य सप्तमी कक्षा पर्यन्तं संस्कृतम् अनिवार्य विषय रूपेण अध्यापनं क्रियते। अष्टमी कक्षादारभ्य तु सर्वकारीय नियमानुसारम् ऐश्चिक विषयत्वेन पाठ्यक्रमे सन्निवेशो वर्तते। अस्य निकेतन समुहस्य अन्तर्गतं ५५० विद्यालयाः असम राज्ये विद्यन्ते, इतोऽपि वर्धमानं दृश्यते च।
विद्यालय समुहः-
• शंकरदेव शिशु कुंज
एषु विद्यालयेषु अंकूर तथा मूकूल इति पूर्व प्राथमिक कक्षायाः सञ्चालनं भवति।
• शंकरदेव शिशु निकेतन
एषु विद्यालयेषु प्राथमिक कक्षायाः सञ्चालनं भवति।
• शंकरदेव विद्या निकेतन
एषु विद्यालयेषु माध्यमिक एवं उच्च माध्यमिक कक्षायाः सञ्चालनं भवति।
इतिहासः
असम राज्ये शिशु शिक्षा समिति असमस्य गठनं अप्रैल २१, १९७९ तमे वर्षे जातः। शिशु शिक्षा समिति असम द्वारा विद्याभारत्याः परियोजनानुसारं प्रचाल्यमानानां विद्यालयानां नामकरणं तु असमराज्यीय महापुरुष शंकरदेवस्य नाम्ना कृतम्। सितम्बर ४, १९७९ तमे वर्षे शिशु शिक्षा समिति असम द्वारा प्रप्रथमः विद्यालयः गुवाहाटी नगरस्थ अम्बिकागिरी नगरे शंकरदेव शिशु निकेतन, अम्बिकागिरी इति नाम्ना जातः।