सदस्यः:लेलिन विश्वाल
मनोविज्ञानस्य सम्प्रदायाः
आत्मनः विज्ञानम् इति मनोविज्ञानम् ।अस्य शव्दस्य उत्पतिः न्युनानी भाषायाः “psyche “ यस्य अर्थः भवति आत्मा, एवं च “Soul“, “Logus”यस्य अर्थः भवति अध्ययनम् ।अस्य विस्तृतार्थः अभवत् “आत्मनः विज्ञानम् “।
मनोविज्ञानस्य सम्वन्धः सर्वादौ दर्शनशास्त्रेण एव आसीत् । परन्तु कालान्तरे मनोवैज्ञानिकैः दार्शनिकविचारधारां विहाय वैज्ञानिकाधारेण एव व्यवहाराध्ययनं प्रारव्धम् । उन्नविंशतिशताव्द्याः उन्नतः विंशतिशताव्द्याः प्रारम्भं पर्यन्तं मनोवैज्ञानिकानां मध्ये मनोविज्ञानस्य विषयवस्तु-दृष्टिकोण-विचारविधि-प्रभृतिविषयेषु मतभेदः अभवत्, एवं ते विविधसम्प्रदायेषु स्वकीयचिन्तनं प्रणाली आधारेण विचारधारेण च मनोविज्ञानाध्ययनं प्रारव्धवन्तः । एते सम्प्रदायाः न केवलं मानवव्यवहारस्य विविधप्रवृत्तिः प्रभावयन्ति, तेन सह मानवशिक्षाव्यवस्थामपि प्रभावयन्ति ।मनोविज्ञानसम्प्रदायानां संख्याविषये विदुषां मतभेदः वर्तते । अतः मुख्यतः पच्ञसम्प्रदायाः वर्तन्ते । तेन भवन्ति यथा –
1-संरचनावादः(structuralism) 2-प्रकार्यवादः(functionalism ) 3-व्यवहारवादः(Behaviourasim ) 4-समग्रवादः(gestaltism ) 5-मनोविश्लेषणवादः(psycho-analysis )
1-संरचनावादः(Structuralism )- अस्य वादस्य प्रवर्तकः जर्मनदेशस्य मनोवैज्ञानिकः विलियम् ऊण्टमहोदयः आसीत्।सः 1879 तमे संवत्सरे मनोविज्ञानस्य व्यवस्थिताध्ययनाय जर्मनदेशस्य लिपजिनगरे विश्वस्य मनोविज्ञानस्य प्रथमप्रयोगशालां संस्थाप्य मनोविज्ञानमेकं स्वतन्त्रविज्ञानरुपेण स्थापितवान् । ऊण्टमहोदयः तस्य अनुचराश्च संरचनावादिनः इति कथ्यन्ते,यतः तेषां मतानुसारं जटिलमानसिकानुभवः वस्तुतः संरचनाः भवन्ति, या बहवः सरलमानसिकानुभवः वस्तुतः संरचनाः भवन्ति । जटिलमानसिकानुभवानां संरचनामन्विष्य मनोविज्ञानस्य अध्ययनं कर्तुं शक्यते इति तेषां मतमासीत् 2-प्रकार्यवादः (functionalism )- अस्य वादस्य प्रवर्तकः विलियम जेम्समहोदयः आसीत् ।सः मनसः अध्ययनं जीवविज्ञानाधारेण कृतवान् । संरचनावादिनः मनसः किमपि वक्तुं न शक्नुवन्ति, यतः मानसिकानुभवं तत्वरुपेण विभाजनं कर्तुं न शक्यते इति तेषां मतमासीत् । प्रकार्यवादिनां मतानुसारं मनसः संरचनाविषये ज्ञानार्जनस्य आवश्यकता नास्ति । तादृशी आवश्यकता मानसिकानुभवानाम् उपयोगः कुर्वतीति ज्ञातुं ते अध्ययनं कृतवन्तः। प्रकार्यवादिनां मुख्यकेन्द्रम् आसीत् अधिगमप्रक्रिया । 3-व्यवहारवादः(Behaviourasim )- विंशतिशताव्द्याः द्वितीयशतके एवं तृतीयशतके मनोविज्ञानस्य व्यवहारसम्प्रदायस्य विकासः बभूव । अस्य वादस्य प्रवर्तकः जे.वि बाटसन् महोदयः आसीत्। व्यवहारवादिनः मानवव्यवहारोपरि अध्ययनं कृतवन्तः। एवं मानवव्यवहारस्य विज्ञानमेव मनोविज्ञानम् इति स्वीकृतवन्तः। व्ववहारस्य अध्ययने ते वलं दत्तवन्तः। बाटसन्महोदयेन मनोविज्ञाने मानवव्यवहारस्य व्यापकार्थः स्वीकृतवान् । 4-समग्रवादः(Gestaltism )- विंशतिशताव्द्याःआरम्भे जर्मनदेशे समग्रवादानाम्ना एकमनोविज्ञानसम्प्रदायस्य उद्भवः अभवत्। गेष्टाल्ट अस्मात् जर्मनशव्दात् समग्रवादः इति पदं जातम्। अस्य अर्थः भवति पूर्णकारः समग्रव्यवस्थितः वा। फुर्ट कोप्का, मैक्स वर्दिमर, च एतौ समग्रवादिनौ आस्ताम् । समग्रवादिनौ उक्तवन्तौ – संरचनावादिनः,प्रकार्यवादिनः,व्यवहारवादिनः च मनोविज्ञानस्य अध्ययनं कर्तुम् असाधुमार्गं स्वीकृतवन्तः । अधिगमप्रक्रियाः अध्यपनाय ते अन्तदृष्टिभूमिका उपरि अधिकवलं दत्तवन्तः। 5-मनोविश्लेषणवादः(Psycho-analysis )- विंशतिशताव्द्याः प्रारम्भे मनोविज्ञाने भिन्नसम्प्रदायस्य प्रादुर्भावः अभवत्, यस्य नाम मनोविश्लेषणवादः। सिगमण्ड फ्रायडमहोदयः अस्य सम्प्रदायस्य जनकः आसीत्। तेन अचेतनमानसिकप्रक्रियाः अध्ययनकाले उक्तं – मानसिकद्वन्दस्य मानसिकव्यतिक्रमस्य च अधिकांशमूलकारणं भवति अचेतनमनः। अचेतनमनसः अध्ययनाय फ्रेडमहोदयेन मनोविश्लेषणविधेः आविष्कारः कृतः। यः विधिः मुख्यतः मुक्तसाहचर्याविचारप्रवाहे एवं स्वप्नविश्लेषणे आधारितः आसीत् ।
उपर्युक्ताः पच्ञसम्प्रदायाः यद्यपि परस्परभिन्नाः वर्तन्ते, तथापि तेषां समन्वयेन एव सम्पुर्णमनोविज्ञानस्य संरचना जायते। एते सम्प्रदायाः प्राचीनाः जाताः । वर्तमानकाले अध्ययनाय मानवदृष्टिकोणे एवं संज्ञानात्मकदृष्टिकोणे च अधिकवलं दीयते ।