सामग्री पर जाएँ

सदस्यः:शताब्दी चक्रवर्ती

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अधिगमः

शिशुः जन्मसमये निस्सहायः भवति। स्वावश्यकतानां पूर्तये सः सर्वदा मातरम् आश्रयति। गच्छता कालेन ज्ञानेन्द्रियेषु चेतनाशक्तिः प्रबला भूत्वा विविधाः प्रतिक्रियाः करोति येन वातावरणे सामञ्जस्यं संपादयति । सामञ्जस्यसंपादनावसरे सः विभिन्नानुभवान् अर्जयित्वा तदाधारेण स्वव्यवहारे परिवर्तनमानयति । इत्थमनुभवैः व्यवहारपरिवर्तनमेव अधिगमः इति कथ्यते। ज्ञानस्य, कौशलानाम्, अभिवृत्तीनाम् आचाराणाञ्च प्राप्तिरप्यधिगमः निगद्यते। नूतनपरिवेषे सामञ्जस्यप्रक्रियापि अधिगमः इत्युच्यते। प्रक्रियेयम् आजीवनं (जन्मतः मरणपर्यन्तं) निरन्तरं प्रचलति । इमाम् अधिगमप्रक्रियाम् अनुभवः परिपक्वता च अत्यन्तं प्रभावयतः। यथा- लघुबालः दीपं दृष्ट्वा हस्तेन तं ग्रहीतुं प्रयतते, तस्य हस्तः ज्वलति तथा पीडामनुभवति। अनेन अनुभवेन सः भविष्ये न कदापि दीपं स्पृशति । वर्षद्वयात्मकबालकः द्विचक्रिकां चालयितुं न शक्नोति यतः द्विचक्रिकां चालयितुम् अपेक्षितशारीरिकविकासः नाभूत्। अर्थात् बालकः शारीरिकपरिपक्वतां न प्राप्तवान्। परन्तु कालान्तरे 10 अथवा 12 वर्षात्मके वयसि बालकः प्रशिक्षणेन द्विचक्रिकाचालने निपुणः भवति । इत्थं दैनन्दिनजीवने वयं बहून् विषयानधिगच्छामः। विद्यालये कक्ष्याप्रकोष्ठेषु च शिक्षकस्य प्रमुखकर्तव्यं छात्रेष्वधिगमसंपादनम्। अतः शिक्षकाः अधिगमस्य स्वरूपमवश्यं जानीयुः।