सामग्री पर जाएँ

सदस्यः:शारदा प्रसाद नन्द/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                        संगणकयन्त्रे संस्कृतभाषा


शिक्षा सर्वेषां मानवानां कृते परमावश्यकी । मानवानां निखिलं जीवनं शिक्षाश्रितमेव वेद्यम् । तैत्तरीये विष्णुपुराणे च सा विद्या या विमुक्तये ,(१/ २९/४१) ईशावास्ये- अविद्यया मृत्युं तीर्त्वा विद्ययाsमृतमश्नुते इति विद्याया अभीप्सा सुस्पष्टा । शिक्षा मातृवत्संरक्षिका, पितृवत् पथप्रदर्शिका अस्तीति भर्तुहरिवचनं प्रणिधानतोग्यम् । शिक्ष-विद्योपादाने इत्यस्माद्धातोः गुरोश्च हल इति पाणिनीयसूत्रेण अ प्रत्यये अजाद्यतष्टाप् (४/१/४) अनेन टापि शिक्षाशब्दो निष्पन्नः । शिक्षेर्जिज्ञासायां (अष्टाध्यायां-१/३/१२१) इति वार्तिकेण यदा जिज्ञासा समुदेति तदा शिक्षायाः आवश्यकता जायते । यत्र जिज्ञासा नास्ति तत्र विद्या नास्ति । सुतरां शिक्षा न केवलं मानवानामपितु सर्वप्राणिनां जिज्ञासात्मिका प्रवृत्तिरेव काशिकाकारः निगदति ।

तत्र भाषा नाम अभिप्रायप्रकटसाधनम् । भाषणात्भाषा । अथवा भाषयतीति भाषा । समग्रे विश्वे त्रिसहस्राधिका भाषाः सन्ति । सर्वासु भाषासु संस्कृतभाषा सुमधुरा सुबोधा सरला च वर्तते । सा सर्वासां भारतीयभाषाणां जननी अस्ति । अस्याः भाषायास्तुलना नास्ति । सर्वतन्त्रस्वतन्त्रा इयं सुरभारती न केवलं भारतवर्षे अपितु समग्रे विश्वे परिव्याप्ता । भारतीयवाङ्मये चिरकालादद्यावधि प्रचलिता । यदुक्तं-

यावत्भारतवर्षं स्यात् यावत् विन्ध्यहिमाचलौ । यावद्गंगा च गोदा च तावदेव हि संस्कृतम् ॥ संस्कृतं भारतीयसंस्कृतेरात्मा । संस्कृतमाध्यमेन भारतीयसंस्कृतिः चिरन्तनी । यस्य कस्यापि जनस्य कृते इयं भाषा अत्यावश्यकी । तस्य सामाजिको बौद्धिको राजनैतिकः सांस्कृतिकश्च विकासः अनया भाषया जायते । भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा , अर्थात् न केवलं भारतस्य अपितु निखिलविश्वस्य मुकुटायमाना भारतीयसंस्कृतिः । सुतरामस्य सांस्कृतिकमहत्त्वं सुविदितमेव । यच्चोक्तं कर्णाकर्णिकायां -संस्कृतं संस्कृतिर्ज्ञेया संस्कृते सकला कला । संस्कृते सकलं ज्ञानं संस्कृते किं न विद्यते ॥ इति ।

आधुनिकभारते संस्कृतशिक्षणस्य महत्वमपि वैज्ञानिकैरंगीकृतम् । शैक्षिकविकासः बौद्धिकविकासः चारित्रिकविकासः आत्मानुसन्धानं च सर्वे विषयाः संस्कृते उपनिवद्धाः । संस्कृतशिक्षायाः उद्देश्यं तु न केवलं कर्मकाण्डमेव । वैज्ञानिकदृष्ट्या विचार्यमाणे सर्वादौ अस्याः दिशानिर्धारणं कर्तव्यम् । द्वितीयं तावत् प्राचीनधाराया आमूलचूलपरिवर्तनम् ।

सांप्रतिके संस्कृतशिक्षायै संगणकयन्त्रस्य प्रयोगः दरीदृश्यते विद्वद्भिः । तत्र cumputer नाम अत्याधुनिकविज्ञानस्य प्रायोगिकक्षेत्रम् । यान्त्रिकपद्धत्या सूक्ष्मातिसूक्ष्मानि कार्याणि स्वल्पसमयेन संप्रति वयं कर्तुं शक्नुमः । द्रूततरे गतवति संसारे सर्वे वयं चलचंचलाः । Internet अन्तर्जालं विहाय अस्माकं कार्यं सांप्रतं दुष्करम् । दूरभाषे ओतःप्रोता वयम् । मुखपुस्तके ट्विटरे twiter अन्तर्जालसंकेते website यत्र कुत्रापि सर्वत्र संगणकस्यावश्यकता निश्चिता । संस्कृतं वैज्ञानिकं विज्ञानसम्मतम् । यदि महाविज्ञानस्य संस्कृतस्य संगणकीकरणं क्रियते तर्हि तस्य प्रयोगक्षेत्रं प्रतिदिनं विवर्धते इत्यत्र नास्ति विसंवादः । एतदर्थं बहुकार्यं संपादितं संसाधितं प्रो० मदनमोहन झा महोदयैः । धन्यवादार्हाः भवन्तः ।

संस्कृतस्य प्रचार-प्रसारदृष्ट्या तैरखिलव्यवस्था software माध्यमेन कृता । दुर्लभ-दुष्प्राप्य-दुर्मूल्यकोशग्रन्थाः पाणिनीयव्याकरणादीनि बहूनि शास्त्राणि संप्रति software माध्यमेन सरलीकृतानि, mobile phone क्षेत्रेष्वपि सुव्यवस्थानि च दृश्यन्ते । एतदतिरिक्तं ज्योतिष-दर्शनादीनि बहुशास्त्राणि च तैः चित्रमाध्यमेन सुबोधनाय सुसज्जितानि । पाठकानां छात्राणां शिक्षकाणां च बहु उपकाराय दिग्दर्शका इव ते नियुक्ता अन्तर्जाले । google play store इत्यत्र तेषां सर्वे software वर्तन्ते । संप्रति अन्येषु विभिन्नेषु website स्थलेषु wikipidia आदिषु संस्कृतभाषा चलचञ्चला । facebook, whatsapp, messenger, telegram, mail, instagram, print midia, electronic midia इत्यादिषु अधुना वयं जागरिताः । केनोपायेन अस्माकमयं कार्यक्रमः क्रमवर्द्धिष्णु भविष्यति , तस्य कृते प्रयत्नः अवश्यमेव वाञ्छनीयः ।

Picture- poster- banner- माध्यमैः आदौ शिक्षणं पश्चात् संस्कृतस्य प्रचारः प्रसारोपि कर्तुं शक्यते । print midia यथा पत्रपत्रिकासु सम्बादपत्रेषु वर्तमानेषु संस्कृतकार्यं करणीयम् । electronic midia -tv-redio-fm इत्यादिषु बहुलतया प्रसारेण संस्कृतस्य शिक्षणं रक्षणं च भविष्यति । एतेषामुपयोगेन वयं यत्नशीलाश्चेत् संस्कृतमयं भारतं भविष्यति ।

सांप्रतिके काले facebook तथा whatsapp गोष्ठिषु संस्कृतभारतं, संस्कृतपद्यरचनम्, कवयो वयममी, वन्दे वाणीविनायकौ, काव्यादर्शः, चिरन्तनी, काव्यामृतवर्षिणी, विश्वसंस्कृतकुटुम्बकम्, वैदिकगणः,

Sanskrit poet conference, ugc/ net/set/jrf/tgt/pgt/ sanskrit news paper, sanskrit speakers, संस्कृतधारा, centre for sanskrit information, sanskrit ganga, sanskrit sahitya academy, संस्कृतसर्जना, सार्वभोम संस्कृतप्रचारसंस्थानम्, इत्यादयः समलंकृताः समूहाः विलसन्ति तराम् ।

संस्कृतसम्बन्धीयाः बहवः website सन्ति । ये नित्यशः संस्कृतं प्रचारयन्ति प्रसारयन्ति च । तेषु archive.org, open librery.org, sanskrit document.org, muktabali.org, sanskrit.nic.in,  sanakritdictionary.com, vedic granth.org, scribd.com, इत्यादयः सुप्रसिद्धाः सन्ति , यत्र असंख्याः ebooks pdf रूपेण संगृहिताः वर्तन्ते  ।

Print midia क्षेत्रे international journal of sanskrit research, जाह्नवी, प्राचीप्रज्ञा, जगन्नाथज्योतिः, गीर्वाणी, सप्तगिरिः, आरण्यकम्, आर्षज्योतिः, संस्कृतामृतम्, शोधप्रभा, सम्भाषणसन्देशः, स्रग्धरा, रसना, लोकभाषासुश्री, प्रियवाक्, भारती आदयः विराजन्ते । सम्बादपत्रक्षेत्रे विश्वस्य वृत्तान्तम्, सुधर्मा, संपतिवार्ता, संस्कृतसम्बादः आह्निकवार्तापत्रादीनि संस्कृतप्रचारे संलग्नाः सन्ति । सर्वे संस्कृतक्षेत्रे द्रूततराः नवीनशिक्षणोपायान् धृतवन्तः अग्रे धावन्ति भारतवर्षेsस्माकम् । पाश्चात्येपि  संस्कृतभाषा बहुसम्मानिता । जयतु संस्कृतम् ।

शारदा प्रसाद नन्दः