सामग्री पर जाएँ

सदस्यः:श्वेतालिनि बेहेरा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पाठ्यपुस्तकपद्धतिः(text book method)

अद्यतनेषु दिनेषु भाषाणां, वैज्ञानिकविषयाणाञ्च अध्यापनाय पाठ्यपुस्तकपद्धतिराश्रीयते विद्यालयेषु महाविद्यालयेषु च। एषा पद्धतिः लोकप्रिया वर्तते। एषा पद्धतिः आंग्लेयानां आगमनादारभ्य प्रचलति अस्माकं देशे। कक्षाध्यापनस्य विविधसाधनेषु प्रमुखसाधनमस्ति पाठ्यपुस्तकम्। पाठयपुस्तकमाधारीकृत्य यत्र पाठनं भवति तन्त्र पाठ्यपुस्तकपद्धत्या शिक्षणं प्रचलतीति ज्ञातव्यम्। एषा पद्धति अध्यापकानां छात्राणाञ्च अत्यन्तसौविध्यदायिनी अस्ति। कथोपदेशसंयुक्तः रुचिज्ञानाभिवर्धकः, पाठ्यग्रन्थ इति ज्ञेयः कल्पनाशक्तिपोषकः ।।

सरलं सुन्दरं चैव मनोरञ्जनपूर्वकम्।

शीलनिर्माणसंयुक्तं पाठ्यपुस्तकमीरितम् ।।

पाठ्यपुस्तकम् नाम केपांचन पद्यानां, गद्यानां, रूपकाणां, निबन्धानां, व्याकरणस्य च

संग्रहणात्मकं रूपम् अस्ति। छात्राणां मानसिकस्तरानुकूलं, बौद्धिकस्तरानुकूलं, सुनिश्चित-

समये पूरणीया अंशाः पाठ्यपुस्तकेषु भवन्ति । अध्यापकः अनेन पाठ्यपुस्तकेन छात्रेषु ज्ञानम्

उत्पादयति, सच्चारित्र्यं सम्पादयति, पथप्रदर्शनञ्च करोति। पाठ्यपुस्तकम् अध्यापकस्य

मार्ग-दर्शनं, छात्रेषु रसानुभूतिञ्च सम्पादयति। कविः तस्येतिहासः कालः, इतरग्रन्थाः,

कविताशैली इत्यादय: अंशा: पाठ्यपुस्तके एव उल्लिखिताः भवन्ति । अतः अध्यापकानां कृते

एषा पद्धतिः अतीव प्रोत्साहकरा भवति। पाठ्यपुस्तके प्रतिपाठस्यान्ते निबन्धरूप प्रश्नाः,

अर्थाः, व्युत्पत्तयः, विशेषांशाश्च भवन्ति। शिक्षाशास्त्रिणां, मनोवैज्ञानिकानां, विदुपाञ्च

निरन्तरपरिश्रमेण निष्पन्नेयं पद्धतिः बालकानां विषयाध्ययने नितरामुपकारिणी भवन्ति।

पाठ्यपुस्तकानामध्ययनेन लब्धं ज्ञानं भाविजीवने विस्तृताध्ययनाय उपकरोति। एतदेव अस्याः

पद्धतेः प्रत्यर्पणमूल्यम् [Surrender value) इति डॉ०वेस्ट महोदयेन वर्ण्यते। भाषणात्,

लेखनाच्च वाचनस्य सरलत्वादियं पद्धतिः सुलभा, लाभप्रदा च। एषा पद्धतिः मनोविज्ञाना