सामग्री पर जाएँ

सदस्यः:सरकारकोयले

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
उद्धरेत् संसारसागरे निमग्नम् आत्मना आत्मानं ततः उत् ऊर्ध्व हरेत् उद्धरेत् योगारूढतामापादयेदित्यर्थः। न आत्मानम् अवसादयेत् न अधः नयेत् न अधः गमयेत्। आत्मैव हि यस्मात् आत्मनः बन्धुः । न हि अन्यः कश्चित् बन्धुः यः संसारमुक्तये भवति। बन्धुरपि तावत् मोक्षं प्रति प्रतिकूल एव स्नेहादिबन्धनायतनत्वात्। तस्मात् युक्तमवधारणम् आत्मैव ह्यात्मनो बन्धुः इति। आत्मैव रिपुः शत्रुः । यः अन्यः अपकारी बाह्यः शत्रुः सोऽपि आत्मप्रयुक्त एवेति युक्तमेव अवधारणम् आत्मैवरिपुरात्मनः इति ।। आत्मैव बन्धुः आत्मैव रिपुः आत्मनः इत्युक्तम्। तत्र किंलक्षण आत्मा आत्मनो बन्धुः किंलक्षणो वा आत्मा आत्मनो रिपुः इत्युच्यतेसंस्कृत साहित्यं विविधकाव्यैः, नाटकैः, ग्रन्थैःच समृद्धमस्ति। अस्मिन् साहित्यनिधौ 'भगवद्गीता' नाम अमूल्यं रत्नमस्ति। एषा रचना संस्कृतस्य श्रेष्ठा रचना अस्ति अत्र न कोऽपि संशयः। भगवद्गीता महाभारतस्य सारभूता। इयं रचना महर्षिणा व्यासेन रचिता। अस्मिन् ग्रन्थे वेदानाम् उपनिषदां च सारं भवति। स्वयं भगवता कृष्णेन अस्य महत्वं कथितं यत्-

श्रद्धावान् अननसूयश्च शृणुयादपि यो नरः सोऽपि मुक्तः शुभाल्लोकान्प्राप्नुयात् पुण्यकर्मणाम्।।

श्रीकृष्णेन इदं गीतामृतम् अर्जुनाय अयच्छत्। अस्मिन् ग्रन्थे जीवनौपयोगिनः विचाराः सन्ति । युद्धक्षेत्रे यदा अर्जुनः मोहग्रस्तः अभवत् तदा श्रीकृष्णेन कृतः उपदेशः गीतोपदेशः कथ्यते। अत्र श्रीकृष्णेन 'अनासक्ति-कर्मवादः' कथितः। 'कर्मण्येवाधिकारस्ते मा फलेषु कदाचन', कर्म कुरु परं फलस्य इच्छा मा कुरु इति गीतायाः सारः अस्ति।

गीतायाम् 'आत्मा-शरीरयोः' ज्ञानम् अस्मि । आत्मा शाश्वत् शरीरं च

अशाश्वतम्। अत्र भक्तिमार्गस्यापि सम्यक् दर्शनं वर्तते। भक्तिमार्गे न योनिभेदः, न जातिभेदः न च वर्णभेदः अस्ति। श्रीकृष्णः वदति, 'यो मद्भक्तः स मे प्रियः।'

एवं गीतायां कर्मयोग-भक्तियोग-ज्ञानयोग आदिनाम् अपूर्वः समन्वयः अस्ति। इयं सर्वजनसुखाय सर्वजनहिताय च वर्तते। गीतायां ये उपदेशाः दत्ताः ते सर्वे उन्नतिकारकाः, मार्गदर्शकाः च सन्ति।

विश्वस्य अनेकासु भाषासु अस्याः रूपान्तरं प्राप्यते। गीतायाम् उपरि लोकमान्य तिलकमहोदयेन 'गीतारहस्य' नाम ग्रन्थः लिखितः। विदेशेषु अपि गीतायाः पठनं भवति। जीवनसंदेशदायिनी गीता सर्वेः पठनीया एव। स्वयं वेदव्यासेनापि उक्तं-'गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता ।' उपसंहारः - गीतायां ये उपदेशा दत्ताः सन्ति, ते सर्व एव जीवनस्योतिकारकाः । गीताया उपदेशानकला आचरणं कत्वा सर्वैरपि स्वजीवनमुन्नतं कर्तव्यम्। एतदर्थ गीतायाः पठन पाठनं चापि कार्यम। 'गीता सुगीता कर्तव्या' इति ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:सरकारकोयले&oldid=483724" इत्यस्माद् प्रतिप्राप्तम्