सामग्री पर जाएँ

सदस्यः:सरोजिनी स्वाईं

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अनुशासनम्-:

अनुशासनस्य अपरं नाम वर्तते आत्मसंयमः।अनुशासनेन जीवनं संयमितं भवति।अस्माकं शरीररक्षायै यथा भोजनस्य आवश्यकता अस्ति तथैव जीवनेऽनुशासनस्य तादृश्येवावश्यकता वर्त्तते। परिवारस्य विद्यालयस्य समाजस्य च नियमसमुदायस्य परिपालनम् तदनुसारमाचरणं अनुशासनम् इति कथ्यते। सर्वेषु स्थानेषु अनुशासनस्य पालनं परमावश्यकम् वर्त्तते। अनुशासनम् विना जीवनमुन्नतं न भवति। साम्प्रतिक समये बालकानां शारीरिक-बौद्धिक-सामाजिक-नैतिक-मूल्यानाम् विकाशाय अनुशासनस्य महत्वं अतीव दृश्यते।अनुशासनस्य पालनेन मानवः स्वजीवने सफलतां प्राप्नोति।

       अनुशासनप्रकाराः -

                   दमनात्मकम्, प्रभावात्मकम्, मुकत्यात्मकम्, आधिकारिकम्, प्राकृतिकम्, सामाजिकम्, स्वानुशासनम् च।

• दमनात्मकम्- प्राचीनकाले अध्यापकानां चिन्तनम् आसीत् यत् छात्राः बहु कलुषितमनस्काः भवन्ति। तेषां मनसि कलुषितमन्द भावनां दूरीकरणार्थं अध्यापकेन कठिनशारीरिकदण्डः दीयते स्म। तस्मिन् समये छात्रः अध्यापकात् विभेति स्म। ततः अध्यापकैः छात्रेभ्यः भीतिम् प्रदर्श्य अध्याप्यते स्म। विशेषतः भारतीयप्राचीनकालीनशिक्षाप्रणाल्याम् दमनात्मकानुशासनं दृश्यते स्म। अध्यापकः दमनद्वारा छात्रान् पाठयति स्म। तस्मिन् समये छात्राणां स्वातन्त्र्यं  स्वाधीनता च नासीत्। ते अध्यापकानां उपयुक्तमनुपयुक्तं आज्ञापालनं तथा सर्वाणि कार्याणि अकुर्वन्।

• प्रभावात्मकानुशासनम्- अस्मिन् अनुशासने छात्राः अध्यापकस्य व्यक्तित्वम् अनुसरणम् कुर्वन्ति। अध्यापकस्य व्यक्तित्वम् यथा भवति तथैव छात्रस्य व्यक्तित्वम् भविष्यति। अतः अध्यापकः सुयोग्यः, चरित्रवान्,विचारशीलः आदर्श चिन्तकः च भवेत्। यद्वारा छात्राः अध्यापकस्य व्यक्तित्वम् अनुसरणम् करिष्यन्ति। एवं च भविष्यत् काले  चरित्रवन्तः तथा सुनागरिकाः च भविष्यन्ति। आदर्शवादिजनाः विशेषतः अस्मिन् अनुशासने स्वमनः निवेशयन्ति। एते कथयन्ति यत् एकः आदर्शः तथा चरित्रवान् शिक्षकः छात्रान् अनुशासितुं सक्षमो भवति।

• मुक्त्यात्मकानुशासनम्- मुक्त्यात्मकानुशासनस्य ये प्रवर्त्तकाः सन्ति ते दमनात्मकानुशासनं प्रभावात्मकानुशासनं वा न स्वीकुर्वन्ति। ते वदन्ति यत् दमनात्मकानुशासने शारीरिकदण्डेन बालकस्य स्वाभाविकविकाशे वाधाप्रार्प्ति भवति। पुनः सः मानसिकस्तरे दुर्बलः भवति। अतः अध्यापकः स्वस्य व्यक्तित्वम् बलपूर्वकं छात्रस्य उपरि प्रयोगं न कुर्यात्।मुक्त्यात्मकानुशासने स्व विकाशार्थं वालकाय पूर्णं स्वातन्त्र्यं च स्वाधीनता दातव्या। येन सः स्व भावनानुसारं निजव्यक्तित्वं निर्मायति।

• आधिकारिकानुशासनम्- अस्मिन् अनुशासने बालकः किञ्चित् अपि कार्यं स्वीय इच्छानुसारं न करोति। सः ज्येष्ठानामादेशानुसारं कार्यं करोति। आधिकारिकानुशासने बालकः स्व अपेक्षया ये ज्येष्ठाः सन्ति तेषां अधीने तिष्ठति। ततः सः अनुशासितः भवति। गृहे मातापित्रोः आदेशानुसारं बालकः परिचालितः भवति। प्रत्येकं क्षेत्रे माता पिता च गुरूजनवर्गाः तस्य सहायकाः भवन्ति। तथैव विद्यालये महाविद्यालये वा शिक्षकस्य, स्वसांसारिकजीवने स्वामीनः धर्मपत्न्याः वा वृत्तिकरणकाले अधिकारीणां अनुशासनम् पालयति।

• प्राकृतिकानुशासनम्- अस्य अनुशासनस्य समर्थकः रूसो महोदयः आसीत्। तस्य अभिप्रायः आसीत् यत् बालकः प्रकृत्या जीवति। प्रकृतिं विना वयं क्षणमपि जीवितुं न शक्नुमः। अतः बालकः प्रकृत्या सह सम्बन्धं स्थापयित्वा तया अनुशासितः भवति। स्वयं कार्यं कर्तुं बालकेभ्यः अवसरः दातव्यः। तेन सह वास्तविकीं स्थितिं जानीयात्। परिस्थितीं विज्ञाय सः स्व समस्यायाः समाधानं स्वयं एव कुर्यात्।यदि सः प्रकृतिनियमानुसारं कार्यं करोति तर्हि जीवने सफलतां प्राप्नोति, अन्यथा विफलतां प्राप्नोति।यदि प्रकृतेः विरूद्धं किमपि कार्यं करोति तर्हि सः प्रकृत्या अनुशासितः भवति। उदाहरणम् यथा-यदि सः अग्निम् स्पृशति तर्हि सः अग्निना दग्धीभूतो भवति। तथैव यदि सः जले अधिकः सिक्तः चेत् ज्वरेण पीडितो भवति। अतः वयं प्रकृत्यां सपक्षे कार्यं कुर्मः।

• सामाजिकानुशासनं- वयं समाजे तिष्ठामः। अतः एव बालकस्य जीवने

सामाजिकानुशासनम् मुख्यं स्थानं भजते।सामाजिकानुशासनम् तं उत्तम नागरिकरूपेण निर्माति। समाजे स्थित्वा सामाजिकगतिविधिना सह,संस्कृत्या सह च सम्बन्धं स्थापयित्वा स्वयं अनुशासितः भवति। तेन छात्रस्य सामाजिककार्यकरणक्षमतायाः वृद्धिः भवति। ततः समाजे स्वकीर्त्तिं उत्तमतया प्रतिष्ठापयति। पुनः सामाजिककार्यकलापे प्रवर्त्तितः सन् सर्वान्

उपकरोति। येन समाजे तस्य प्रतिष्ठा सर्वत्र परिवर्त्तते।

• स्वानुशासनम्- स्वानुशासनं नाम वैयक्तिकानुशासनं आत्म नियन्त्रणं स्वचरित्रनिर्माणं वा। अद्य समाजे परिवर्त्तितेषु विविधेषु अपराधिक कार्येषु प्रवृत्तः सन्तः जनाः चरित्रभ्रष्टाः भवन्ति। परिणामतः सर्वे अनुशासनरहिताः सन्तः समाजं दूषयन्ति। अतः प्रत्येकं जनेभ्यः स्वानुशासनशिक्षा आवश्यकी।यदि स्वानुशासनाय सर्वे प्रवर्त्तन्ते तर्हि समाजे चौर्यकलहादिसमाजदूषकाः गुणाः न वर्द्धिष्यन्ते। अतः सर्वे स्वानुशासने स्वचरित्रनिर्माणे, आत्मनियन्त्रणे वा तत्पराः भवेयुः। येन उत्तमसमाजः निर्माणं भविष्यति। अथः च समाजे शान्तिः, दया, क्षमा, प्रेम इत्यादयाः गुणाः संविकश्यः सर्वेषां मंगलं साधितं भवेत्।।