सदस्यः:सिद्धार्थ वारिक
वृद्धिविकासयो: अवबोध:-
अनुक्रमणिका :- वृद्धि: एवं विकास: जीवानां जीवनकाले प्रचलिता प्रकिया। प्रत्येकानां प्राणीणां वृद्धि: भवति, विकासो भवति। अत्र केवलं मानवानां वृद्धिविकासयोर्विषये आलोचितं भवति। वृद्धि एवं विकास: द्वयो: शब्दयो: प्रयोग: भेदभावं विना पर्यायवाचीपदरूपेण अस्माभि: क्रियते। परन्तु द्वयो: शब्दयो: मध्येभेद: वर्तते। वृद्धे: तात्पर्यम् आकार:, भार:, जटिलता आदि परिमाणात्मकं भवति। सम्पूर्णतया परिपक्कस्य अनन्तरं व्यक्ते: वृद्धि: स्थगिता भवति। परञ्च विकासस्य तात्पर्यं व्यक्ते: एकावस्था त: द्वितीयावस्थायां प्रवेशेन भवति। विकास स्यस्वरूपं गुणात्मकं भवति अपि च व्यक्ते: वृद्धावस्था यावत्विकास प्रक्रिया चलति।
वृद्धिविकासयो: संज्ञा:- वृद्धिविकासयो: अनेका: संज्ञावर्तन्ते। तत्रवृद्धिविषये फ्रैंकमहोदय: वदति- “शरीरस्य एवं व्यवहारस्य कस्यापि पक्षस्य भावीपरिवर्तनम् एव वृद्धि:/ अभिवृद्धि: इत्युच्यते।” मेरिडिथमहोदयस्य मतानुसारं- “केश्चन लेखका: केवलम् आकारस्य वृद्धिरर्थे अभिवृद्धे: प्रयोगं कुर्वन्ति, अपि च विभेदे अथवा विशिष्टकरणरूपे विकासस्य प्रयोगं कुर्वन्ति।” (Some writers reserve the use of growth to designate increments in size and in development of mean differentiation. ) हरलाँकमहोदयस्य मतेन– ‘विकास: अभिवृद्धे: पर्यन्तमेव सीमित: नास्ति। अस्य कारणमस्ति, अस्मिन्प्रौढ़ावस्थाया: लक्ष्यस्य अपि च परिवर्तनस्य प्रगतिशील: क्रम: निहित: भवति। विकासस्य परिमाणस्वरूप व्यक्तो नूतना विशेषता अपि च नूतना योग्यता प्रकटिता भवति।' ( Development is not limited to growing larger. Instead, it consists of a progressive series of changes towards the goal of maturity. Development results in new characteristics and new abilities on the part of the individual. )
वृद्धिविकासयो: भेद: :- १. वृद्धिशब्दस्य प्रयोग: परिमाणार्थे भवति परत्नु विकासशब्दस्य प्रयोग: गुणात्मकताया: कृतेभवति। २. वृद्धिशब्द: व्यक्ते: शरीररस्य कस्यापि अवयवस्य तथा व्यवहारस्य कस्यापि पक्षस्य भावीपरिवर्तनं बोधयति। परञ्च विकासशब्द: स्वयमेव विस्तृतार्थं बोधयति। वृद्धि: अस्यैव एक: भाग: भवति। ३.वृद्धे:प्रक्रिया आजीवनं न चलति। परिपक्कता ग्रहणेन साकम् इयं समाप्ता भवति। किन्तु विकासस्य प्रक्रिया निरन्तरं प्रचलति। परिपक्कताया: अनन्तरं समाप्तं न भवति अपि तु न चलति। ४. वृद्धे: फलस्वरूपेण यत परिवर्तनं भवति तत परिवर्तनं विना विशेषप्रयासेन दृग्गोचर: भवति। पुन: विकासस्य फलस्वरूपेण यत परिवर्तनं भवति तत परिवर्तनं प्रत्यक्ष रूपेण दृग्गोचर: न भवति। ५.वृद्धि: साकं सदैव विकासोSपि भवेत् इति आवश्यकं नास्ति। परन्तु विकास: वृद्धिं विनाSपि सम्भव: अस्ति।