सदस्यः:सीताम्बर नायकः
अधिगमः शिशुः जन्मसमये निस्सहायः भवति। स्वावश्यकतानां पूर्तये सः सर्वदा मातरम् आश्रयति। गच्छता कालेन ज्ञानेन्द्रियेषु चेतनाशक्तिः प्रबला भूत्वा विविधाः प्रतिक्रियाः करोति येन वातावरणे सामञ्जस्यं संपादयति। सामञ्जस्यसंपादनावसरे सः विभिन्नानुभवान् अर्जयित्वा तदाधारेण स्वव्यवहारे परिवर्तनमानयति । इत्थमनुभवैः व्यवहारपरिवर्तनमेव अधिगमः इति कथ्यते। ज्ञानस्य, कौशलानाम्, अभिवृत्तीनाम् आचाराणाञ्च प्राप्तिरप्यधिगमः निगद्यते। नूतनपरिवेषे सामञ्जस्यप्रक्रियापि अधिगमः इत्युच्यते। प्रक्रियेयम् आजीवनं (जन्मतः मरणपर्यन्तं) निरन्तरं प्रचलति । इमाम् अधिगमप्रक्रियाम् अनुभवः परिपक्वता च अत्यन्तं प्रभावयतः। यथा- लघुबालः दीपं दृष्ट्वा हस्तेन तं ग्रहीतुं प्रयतते, तस्य हस्तः ज्वलति तथा पीडामनुभवति। अनेन अनुभवेन सः भविष्ये न कदापि दीपं स्पृशति । वर्षद्वयात्मकबालकः द्विचक्रिकां चालयितुं न शक्नोति यतः द्विचक्रिकां चालयितुम् अपेक्षितशारीरिकविकासः नाभूत्। अर्थात् बालकः शारीरिकपरिपक्वतां न प्राप्तवान्। परन्तु कालान्तरे 10 अथवा 12 वर्षात्मके वयसि बालकः प्रशिक्षणेन द्विचक्रिकाचालने निपुणः भवति। इत्थं दैनन्दिनजीवने वयं बहून् विषयानधिगच्छामः। विद्यालये कक्ष्याप्रकोष्ठेषु च शिक्षकस्य प्रमुखकर्तव्यं छात्रेष्वधिगमसंपादनम्। अतः शिक्षकाः अधिगमस्य स्वरूपमवश्यं जानीयुः।