सामग्री पर जाएँ

सदस्यः:सुनन्दा बरखने

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
     शिक्षायाः अभिकरणानि

अभि,करणम् इति शब्ददूययोजनेन निष्पन्नोऽयं शब्द:।'अभि'इत्युपसर्गपूर्वक'कृ'धातो:ल्यूट-प्रत्यये विभक्यादिकार्ये अभिकरणम् इति पदं निष्पन्नम्। अभिकरणम् अथवा साधनम् इति आङ्गलभाषायाः Agency शब्दस्य (पर्याय) रूपान्तर अस्ति। अयं शब्द:Agent इति आङ्गलशब्देन आगतम्।

अस्य अभिप्रायः तेन वस्तुना अथवा व्यक्त्या  भवति। यः कार्यं करोति। अथवा प्रभावं जनयति।
बी.डी.भाटिया महोदयेन उक्तम् - "समाज:  

शिक्षायाः कार्याणि कर्तुम् अनेकानां विशिष्टसंस्थानां विकासम् अकरोत्। एता:संस्था: शिक्षायाः अभिकरणानि सन्ति इति । शिक्षायाः अभिकरणानां वर्गीकरणम् - (१) औपचारिकम् (२) अनौपचारिकम् (३) निरौपचारिक-अधिकरणम् (१) औपचारिकम् अभिकरणम् - येन माध्यमेन नियमितरूपेण पूर्वयोजनया सह

शिक्षणप्रक्रियायाः समायोजन क्रियते तत्   माध्यमम् औपचारिकमभिकरणं भवति ।

(क)औपचारिकशिक्षायाः अभिकरणानि- (a) विद्यालयः (b) धार्मिक संस्थाः विद्यालयः – शिक्षणस्य औपचारिक अभिकरणं विद्यते। यत् महत्वपूर्ण कार्य करोति शिक्षायाः क्षेत्रे । अधोलिखितानि कार्याणि विद्यालयरूपेण अभिकरणेन साधयितुं दृश्यन्ते (१) स्वसमाजस्य सांस्कृतिकपरम्पराया:संरक्षणम, संक्रमणश्च (२)छात्राणां सामाजिकगुणानाम्आवश्यकतानुसारं विकासः। (३) सामाजिकपरिवर्तनसन्दर्भे समुचितरूपेण प्रशिक्षणम्। (४)छात्राणां शारीरिक मानसिकविकासार्थ समुचितवातावरणस्य निर्माणम्। (५) विद्यालयः समाजस्य लघुरूपम्।

 वसुधैव कुटुम्बकम् ;- सनातनधर्मस्य संस्कार तथा विचारधारा अस्तित्वत्व। यत्   महोपनिषद: सहितम् अनेका: ग्रन्थेषु   लिपिबध्दम् अस्ति।  

अस्य अर्थमस्ति "वसुधा एव कुटुम्बकम्" एतत् वाक्यं भारतीय संसदस्य प्रवेशकक्षे अपि अंकितमस्ति। अयं निज:परो वेति गणना लघुचेतसाम् । उदारचरितनां तु वसुधैव कुटुम्बकम्।। (महोपनिषद) वसुधाया: शाब्दिक अर्थमस्ति - पृथ्वि तथा कुटुम्बकस्य अर्थमस्ति परिवार: धार्मिकसंस्थाः- विविधधर्माविलम्बनः एकनीड:भारतदेश: विभिन्न धार्मिक संस्थानाम् आकार:वर्त्तते। अत्र यथोचितम् संविधानस्य अनुगुणम् औपचारिक अनौपचारिकञ्च शिक्षणं दीयते। मानवस्य भौतिक–सांस्कृतिक–उन्नतिः। सत्यान्वेषणस्य उपरि बलम्। तार्किक नैतिकताया: विकासः। सर्वधर्म- सद्भावोपरि बलम् दीयते । धार्मिक शिक्षा सुदृढ़ व्यक्तित्वस्य आधारशिला । वसुधैवकुम्बकरय भावनायाः विकासः । (२) अनौपचारिक-अभिकरणानि येन माध्यमेन अनियमितरूपेण पूर्वयोजनां विना शिक्षणप्रक्रियायाः आयोजनं क्रियते। तत् माध्यमम् अनौपचारिकम् अभिकरणं भवति। (१) समुदायः (२) परिवारः

 समुदायः- समुदायः एकः ईदृशः अतिलघु क्षेत्रीयसमूहः वर्तते। यस्य अन्तर्गते सामाजिक जीवनस्य  सर्वेषां पक्षाणां समावेश भवितुं शक्यते। इति
समुदायस्य अनेकानि वैशिष्यनि सन्ति

१.एकं निश्चितं भौगोलिकं परिक्षेत्रं भवति। २.स्थायी एवं अस्थायी समूहः भवति । ३.जनानाम् आदर्श-लक्ष्य-उद्देश्येषु समानता भवति। ४.सदस्यानाम् अधिकतमाः संख्या:। ५.समुदायः पारस्परिक विश्वासाधारितः भवति। परिवार: अनौपचारिक – अभिकरणरूपेण सक्रियं साधनं भवति। परिवारस्य सदस्या:सम्पूर्णसमाजस्य आधारभूताः सन्ति । अतः परिवारः समाजस्य राष्ट्रस्य च विकासाय शैक्षिकं कार्यं निर्वहति ।

लॉरी-"शैक्षिकेतिहासस्य सर्वेषु स्तरेषु परिवारः  बालकस्य शिक्षाया: प्रमुखं साधनम् अस्ति ।

(३) निरौपचारिक - अभिकरणानि येन माध्यमेन औपचारिक-अनौपचारिकयोः अभिकरणयोः यथावश्यकं सम्मिश्रणेन शिक्षायाः आयोजनं क्रियते तत् माध्यमम् निरौपचारिकम् अभिकरणं भवति । १.जनसंचारसाधनानि २. मुक्तविद्यालय: जनसञ्चारमाध्मानि- जनसञ्चारमाध्यमेन'सर्वेभ्यः शिक्षा' संविधानस्य पञ्चचत्वारिंशत् (४५)धारायाः

राष्ट्रियलक्ष्यस्य सामाजिकदृष्टया जनेषु   सजगतायाः विकास:। राष्ट्रिय -अन्ताराष्ट्रियस्तरे  घटितघटनानां बोधः भवति । मनोवैज्ञानिकदृष्ट्या सूचनानां सारल्यीकरणम्   भवति। शिक्षायाः गुणवत्ताविकासः भवन्ति।  विभित्र क्षेत्रीयकार्यक्रमाणां ज्ञानम् भवति । 
जनसञ्चारमाध्यमानि/साधनानि वा

१.निरोपचारिकशिक्षायाः क्षेत्रम् अतिव्यापकं वर्तते। २. जनसञ्चारसाधनानि पत्राचारः,दूरदर्शनम् आकाशवाणी,इन्टरनेट आदयः। ३. सर्वाङ्गीणविकासोपरि बलम्। ४. ज्ञानस्य उपयोगिता। ५. पाठ्यक्रमे विविधता ।

मुक्तविद्यालयः- एतस्याः शिक्षायाः उद्देश्यं  सामान्यरूपेण शिक्षायाः प्रसारं  भवति।
शिक्षायाः आयोजनमपि जनानां सौविध्यानुसारं भवति। यथा- महाविद्यालयः, विद्यालयः,धार्मिकस्थलम्,धर्मशाला,सामुदायिकभवनम्,कारखाना,मन्दिर-मस्जिद गुरुद्वारादयः स्थानानि सन्ति । समयस्य   निर्धारणमपि तेषां सुविधानुसारं भवति । पूर्वे  अस्यां योजनायां परीक्षायोजनं प्रमाणपत्रादिवितरणस्य व्यवस्था नासीत्। परन्तु   वर्तमानकाले मुक्तविद्यालयेषु मुक्तविश्वविद्यालयेषु च परीक्षाव्यवस्था अनिवार्या वर्तते ।
समवयस्कवर्ग:- यथा राजनीतिकसंघटनानि   N.S.U.I., स्वयुवासंघटनानि  ABVP  निर्मान्ति तथैव समाजे N.S.S.,स्काउट – गाईड N.C.C. आदयः व्यस्कवर्गाः   स्वसंघटनम् निर्माय कार्यं कुर्वन्ति।   नेहरूयुवाकेन्द्रम्, श्रमकल्याणकेन्द्रम्ष सामाजशिक्षाकेन्द्रम् एवं बहुमुखीकेन्दम्  प्रथमकेन्द्ररूपेण मुम्बई नगरे स्थापितम् ।
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:सुनन्दा_बरखने&oldid=461052" इत्यस्माद् प्रतिप्राप्तम्