सामग्री पर जाएँ

सदस्यः:सुमनः व्यानार्जी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संस्कृतभाषायाः महत्त्वम्प्रचारं प्रसारं च।

संस्कृत भाषा मधुरा।संस्कृत भाषा: न केवलं उच्चारणे सर्वोत्कृष्ट अपितु मधुरा दिव्या च। इयं भाषा आचारशास्त्र शिक्षिका, जीवनोन्नतिकारिणी च अस्ति।संस्कृतभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा सर्वोत्तमसाहित्यसंयुक्ता चास्ति ।। संस्कृतभाषाया उपयोगिता एतस्मात कारणाद् वर्तते यद एषैव सा भाषाऽस्ति यतः सर्वासा भारतीयानाम् आर्यभाषाणाम् उत्पत्तिर्बभूव । सर्वासामेतासां भाषाणाम् इयं जननी । सर्वभाषाणां । मूलरूपज्ञानाय एतस्या आवश्यकता भवति । प्राचीने समये एषैव भाषा सर्वसाधारणा आसीत् , सर्वे जना : संस्कृतभाषाम् एव वदन्ति स्म । अत : ईसवीयसंवत्सरात्पूर्व प्रायः समग्रमपि साहित्यं संस्कृतभाषायामेव उपलभ्यते । संस्कृतभाषायाः सर्वे जनाः प्रयोगं कुर्वन्ति स्म , इति तु निरुक्तमहाभाष्यादिग्रन्थेभ्यः सर्वथा सिद्धमेव । आधुनिक भाषाविज्ञानमपि एतदेव सनिश्चयं प्रमाणयति

एतेषाम् अध्ययनेन भारतवर्षस्य, प्राचीन धर्मस्य, आयुर्वेदस्य, तथा अतीत सभ्यतायाः पूर्णः परिचयः प्राप्यते। एवं संस्कृत वाग्मय एव भारतस्य संस्कृतेः आध्यात्मिकस्य च ज्ञानस्य विशुद्ध रूपज्ञानाय एकं साधनम्। एवं इयं भाषा: प्राचीनतमा इति निर्विवादम्। कतिपयैः उदाहरणैः अस्याः परिकृतिः अपि प्रकटयितुम् शक्यते। आंग्लभाषायां लिख्यते ‘बुट’ पठ्यते च ‘बट’ लिख्यते पुट पुनः बटवत् ‘पट’ इति न पठ्यते। एवमेव अनेकानि भ्रष्ट्रभाषायाः उदाहरणानि सन्ति। संस्कृतमेव सा भाषा यस्यां यत् लिख्यते तदेव पठ्यते।

ये कथयन्ति यत् कर-भाषा कठिना वर्तते, ते न जानन्ति यत् स्वल्य प्रयासेनैव संस्कृतं पठितं शक्य। संस्कृत भाषाः अस्माकं देशस्य सांस्कृतिकः निधिः अस्ति। सम्पूर्णमपि सांस्कृतिक वाङ्गमयं संस्कृतमाश्रित्य एव अवतिष्ठते। संस्कृत्याः वाङ्मयेन रहितरस्य राष्ट्रस्य जातेश्च अध: पतनम् अनिवार्यम्। संस्कृस्य एतादृशं महत्त्वं दृष्टैव कश्चित् कविना सत्यम् एवं उक्तम्:-

“भारतस्य प्रतिष्ठे हे संस्कृतं चैव संस्कृतिः”

अद्यत्वे केचित् मूढाः संस्कृतं मृतभाषां कथयन्ति ते न जानन्ति यत् ये संस्कृतस्य रसेन ज्ञानेन, संस्कृति बलेन अद्यापि कृतकृत्याः भवन्ति कि तेभ्यः संस्कृत भाषा मृता? पुनरपि यदि केचित् कुपुत्राः स्वजननी सदृशीम् इमां भाषां मृतां कथयन्ति येन च भारतवर्षे संस्कृत भाषा उपेक्ष्येत, तर्हि गीर्वाण वाणी एवं क्षमयतु तेषाम् अपराधः। यतो हि-“कुपुत्रो जायेत् क्वचिदपि कुमाता न भवति” शिक्षा- कर्मे संस्कृतम् अनिवार्यत्वेन क्रियमाणम्। अतः माध्यमिकविद्यालयेसु महाविद्यालयेसु च संस्कृतस्य शिक्षा आवश्यकरूपेण प्रदेया। केन्द्रीय- संस्कृत-विश्वविद्यालयः भारतस्य विविधेषु प्रदेशेषु स्थितानां परिसराणां द्वारा संस्कृतविद्यया ज्ञानप्रज्ञयो प्रसारणं करोति। अधुना अन्तर्जालमाध्यमेन कक्षाम् अपि चलति। विकिपीडिया इत्येन चलच्चित्रेन च प्रचारं प्रसारंं कर्तुं शक्नुमः। आकाशवाणी, DD NEWS इत्यत्र संस्कृतेन वार्तां प्रचारयति। UTUBE मध्ये अधुना आधुनिक-संगीतानि अनुवादेन संस्कृतभाषायां प्रकाशयति। वयं यदि संस्कृत नाटकं कुर्मः तर्हि जनानां चित्ते सं संस्कृतं प्रति अनुरागः भविष्यति। वयं यदि विभिन्नस्थाने भाम्रमान- संस्कृत-शिविरं करिष्यामहे तर्हि सं संस्कृतभाषायाः प्रचारं भविष्यति।संस्कृत- संगीतमेला , संस्कृत -सप्ताहः,मेघदूतोत्सवः , संस्कृत -नाट्यमेला करिष्यामहे तर्हि सं संस्कृतभाषायाः प्रचारं भविष्यति। ------- -सुमनः व्यानार्जी 24.04.2021