सामग्री पर जाएँ

सदस्यः:स्वर्णप्रभा साहु

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                            पाठयोजन                                                               
भूमिका – 

निश्चित लक्षस्य प्राप्तये निश्चितानाम् उद्देश्यानां साधनाय च कार्यप्रणाली सुनिश्चिताः भवति योजना। किमपि कार्यं सफलतापूर्वकं कर्तुं निश्चित लक्षं प्राप्तिकरणस्य साधनं भवति योजना । कार्याणां सफलतार्थं सुष्ठ कार्यनिर्वहणार्थं च पूर्वयोजनायाः आवश्यकता प्रतीयते । यथा गृह निर्माणात् पूर्वं योजना निर्मीयते । तथा तदनुसारं कार्यं क्रियते तथैव अध्यापकेन कक्षायां पाठस्य वोधनात् पूर्वं वोधनकार्यस्य योजना निर्माण क्रियते । पाठयोजनायाः अर्थः (Meaning of Lesson plan) पाठयोजना नाम पाठस्य तादृशसन्नाहः यत्र अध्यापकः पाठं विषयवस्तु वा छात्राणां पुरतः केन क्रमेण, केन विधिना , कैः सहायकसाधनैः कियति काले उपस्थापयेत् इति निर्धारयति भवति पाठयोजना । वास्तवतः शिक्षणप्रकत्रिया व्यवस्थायाः व्यवहारिकरूपमस्ति पाठयोजना । आई. के. डेवीज महोदयैः स्वस्य प्रथमसोपाने पाठयोजनायाः रचनायां विशेषमहत्वं प्रदीयते । पाठयोजनायां सकलपाठविषयाः विभिनैः उपखण्डैः विभजिताः भवन्ति । शिक्षणे अवस्था त्रयः निम्ने प्रदत्ताः – (a) पूर्वावस्था = (Preactive Stage) (b)अन्तक्रियावस्था = (Interactive Stage) (c) उत्तरोत्तरक्रियावस्था = (Postactive Stage) साधारणतः कथ्यते, शिक्षकः अनुदशनात्मक उद्देश्याणाम् अर्जनाय याः क्रिया कक्षायां करोति तसां क्रियाणां नियोजितरीत्या लेखनमेव पाठयोजना इत्युच्यते। पाठयोजनायाः परिभाषा (Defination of Lesson plan) पाठयोजनाविषये वहवः वहुधा व्याख्यान्ति , केचन पाठयोजना शिक्षणस्य निश्चिताकृतिः इति कथयन्ति । तासु परिभाषासु काश्चन प्रमुखपरिभाषाः अत्र प्रस्तुयन्ते – वोसिंग (Bossing) महोदयानुसारं- ″शिक्षणोद्देश्यानि ज्ञातुं निश्चिते समये शिक्षकः याः क्रियाः नियोजयति, तासां क्रियाणां वर्णनरूपमेव पाठयोजना इत्युच्यते ।‶(Lesson plan is the title give to a statement of the achievement’s to be realized and the specific means by these are attained as a result of activities engaged during the period). ए.डिक्वी (A. Dicky) महोदयानुसारं –″सम्पूर्णान्तशैक्षिकप्रक्रियायां पाठयोजना एव सर्वाधिकं फलदायकं तथ्य भवति ‶ (Properly Conceived Planning for Teaching Can Be One of the Most fascinating as well as one of the most fruitful facts of the inter Educational Process). एषा पाठयोजना विषयानुगुणं , छात्राणां स्तरानुसारञ्च स्यात् , अध्याप्य विषयाणामपि त्रिधा विभागः सिद्धति । यथा – (1)ज्ञानपाठेः- नुतनशब्दज्ञानम्, गद्यपाठः, व्याकरणं, रचना, अनुवादः इत्यादयः । (2)कौशलपाठेः- उच्चारणं, मौखिकनिवन्धः, भाषणं, दृष्टलेखनं, श्रुतलेखनं, वाचनम् इत्यादयः । (3)सौन्दर्यपाठेः - पद्यपाठाः, वर्णनं, नाटकम् इत्यादयः । पाठयोजनायाः उत्पत्ति (Origin of Lesson Plan) पाठयोजनायाः आविर्भावः गैस्टाल्ड मनोविज्ञानतः अभवत् , माननीय अधिगमे गेस्टाल्ड अधिगमसिद्धान्तस्य प्रयोगः अधिकप्रभाशालीनि मन्यते । अस्मिन् सिद्धान्ते सम्पूर्णस्य प्रत्यक्षीकरणस्य अनुभूति अन्वितीनाम् अथवा खण्डनां साहाय्येन भवति । अस्मिन् अधिगमस्य प्रकृतिं खण्डाशं इति मन्यते । अयं सिद्धान्तः अन्वितिपाठयोजनायाः प्रत्यक्षीकरणं कारयति एवं तस्य भागद्वयेन विभजनं करोति । 1.प्रथम अन्वितियोजनायां पाठ्यवस्तुभ्यः सूचनाभ्याञ्च महत्वं प्रदीयते , यो हरबर्ट उपागम इति कथ्यते। 2.द्वितीय अन्वितीयोजनाम् अनुभावानां प्राथमिकता भवति , यो डीवी तथा किलपैद्रिक उपागम इत्युच्यते। पाटयोजनायाः आवश्यकता महत्वं च पाठयोजनायाः महत्वस्य आवश्यकतायाः च स्पष्टीकरणार्थं , डॉ. ए.के.एम्.परिखवर्यः महोदयः उक्तं यत्- ″वस्तुतः पाठयोजनायाः लिखितस्य अलिखितस्य वा स्वरूपस्य अभावे कक्षायां प्रायः न कापि वास्तविकी अधिगमक्रिया भवितुमर्हति ।‶ अत्र पाठयोजनायाः आवश्यकमहत्वं च विषये निम्नलिखित कारणानि महत्वपूर्णानि वर्त्तते – (1)कक्षायाः शैक्षणिकक्रियाणां सहायकसामग्रीणाञ्च पूर्वज्ञानं भवति । (2 )कक्षायां शिक्षणात् प्राक् शिक्षणे प्रयोक्ष्यमाणानां सहायकसाधनानां विषये पाठयोजना शिक्षकं पूर्णतया वोधयति। (3)प्रस्तुतिकरणस्य क्रमः, पाठ्यवस्तुनः स्वरूपञ्च निश्चितं भवति । (4)छात्राणां पूर्वज्ञानेन सह नूतनज्ञानं योजयति । (5)कक्षाशिक्षणसमये शिक्षकस्य विस्मृतेः आशङ्का न्युना भवन्ति निर्धारित पाठ्यवस्तुनः सर्वेषं तत्वानां विवेचनं क्रियते । पाटयोजनायाः उद्देश्यानि – पाठयोजनायाः उद्देश्यानि निम्ने सन्ति - 1.समयानुसारं पठनीयस्य विषयस्य निर्धारणम् । 2. सुनियोजितशिक्षणकार्यस्य सम्पादनम् । 3. शिक्षणकार्ये मनोविज्ञानिकोद्देश्यानां पूर्तिः । 4.छात्राणां ज्ञानर्जनक्षमतानाम् अभिज्ञानम् । 5.सहायकोपकारणानां समुचितरीत्याप्रयोगः । पाठयोजनायाः विभिन्नरूपाणि – पाठयोजनायाः निर्माणे वहुनि स्वरूपाणि सम्प्रति प्रचलितानि सन्ति । यानि प्रमुख स्वरूपाणि सन्ति तानि अधोलिखितानि वर्त्तन्ते । यथा – 1. हरबर्ट उपागमः , 2. मूल्याङ्कनपाठयोजना , 3. आंशिकपाठयोजना , 4.एन.सी.ई.आर.टी पाठयोजना, 5.आर.सी. पाठयोजना, 6. आर.सी.ई.एम. उपागमः हरबर्ट पाठयोजना –पाठयोजनासु अयं हरबर्ट पाठयोजनाप्रणाली अत्यन्त प्राचीन वर्त्तते । परम्परागत मानवव्यवस्थासिद्धान्तात् एषा पाठ्ययोजना समुद्भता । अयं पाठयोजनायाः निर्मिता जर्मनदेशस्य प्रसिद्ध दार्शनिकः शिक्षाशास्त्री च आसीत् ″जनफेडरिकहरबर्टमहोदय‶। अस्मिन् उपागमे विषयवस्तुतः वस्तुनिकरणस्योऽपरि अधिकं वलं प्रदीयते ,अस्सिन् छात्राणां रूचीनां, मूल्यानाम् अभिवृतीनां सम्बन्धानाञ्च महत्व न भवति । अपितु स्मृतिस्तरस्य शिक्षणस्य महत्वं भवति । हरबर्ट महोदयेन कक्षशिक्षणार्थं चत्वारि एव पदानि प्रोक्तानि । परन्तु तस्य शिष्यैः अधिकानि स्पष्टानि महत्वपूर्णानि च कर्तुं प्रयत्न क्रुतः । हरबर्टस्य शिष्याः अधो लिखित प्रकारेण चत्वारि पदानि पञ्चपदैः परिवर्तयन् । तद्यथा - हरबर्टर्यस्य स्वनिर्मितानि चत्वारि पदानि – संशोधि तानि पञ्चपदानि • स्पष्टता -1.प्रस्तावना, 2.प्रस्तुतीकरणम् • सम्बन्धः /सहयोगः – 3.तुलना • व्यवस्था – 4.सामान्यीकरणम् • विधिः – 5.प्रयोगः एषा पद्धति हरबर्ट पञ्चपदी नाम्ना विख्याता एषा पद्धति इदानीं विश्वविख्यातास्ति । वहुषु विद्यालयेषु महाविद्यालयेषु प्रशिक्षण महाविद्यालयेषु च एषा पद्धतिराश्रीयमाणासि । निष्कर्ष/उपसंहार – हरबर्टमहोदयेन स्वीयमनोविज्ञाने रूपे सिद्धान्तस्योपरि अधिकमहत्वं पदतम् छात्राणां रूचि विकासाय संवर्धनाय च पाठयोजनायाः वैशिष्टं अवश्यमेव विद्यते आरम्भकाले तु इयं पाठयोजना अध्यापकानां मार्गदर्शिका भवति । अतः कक्षाशिक्षण साफल्यार्थं पाठयोजनायाः भूमिका गुरूत्वपूर्णं भवति ।