सामग्री पर जाएँ

सदस्यः:हरप्रिया

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अहिंसाचरणम्- कश्चन ग्रामः|तत्र कश्चन वटवृखः अासीत्| तस्मिन् वृखे कश्चित् सर्पः वसति स्म|सः अतिव विषधरः अासीत्| वृखस्य समीपे मार्गेण अागतान् सर्वान् अपि सः दशति स्म|तस्मात् कारणात् ग्रामजनाः तेन मार्गेण गमनागमनं कर्तुं भयम् अनुभवन्ति स्म|एकदा कश्चन मुनिः तेन एव मार्गेण गच्छन् अासीत्| तं दुष्ट्वा सर्पः'एषः दशनीयः' इति वेगेन तत्र अागतवान्|परन्तु महात्मनः तपः प्रभावतः सर्पः तं दष्टुं न शक्तः मुनिः अपि तं सर्पम् अहिंसायाः महत्वं बोधितवान्| सर्पः मुनेः वचनेन प्रभावितः अभवत्|तदारभ्य सः दंशनं त्यक्तवान्| यद्यपि सर्पः विषधरः तथापि इदानिं सः विषहीनः इव व्यवहरति स्म|अतः जनाः निर्भयं गमनागमनं कुर्वन्ति स्म|दुष्टाः बालाः तस्य उपरि शिलाखण्डं खिपन्ति,पिडयन्ति स्म|परन्तु सर्पः शान्ततया तेषां पीडां सहते स्म|कानिचन दिनानि अतीतानि|सः मुनिः यदा तत्र अागतवान्,तदा सर्पस्य शरीरं खतविखतम् अासीत्| सः मुनिम् उक्तवान्-'स्वामिन्!भवतः उपदेशकारणतः अहं हिंसाचरणं त्यक्तवान्|परन्तु मम स्थितिः शोचनीया जाता अस्ति'| तदा मुनिः उक्तवान्-'भोः मित्र!अन्यान् मा दशतु परन्तु फुत्कारं मा त्यजतु'| सर्पः तथा कृतवान्| फलतः कोऽपि तस्य समीपं नागतः| सः हिंसां त्यक्त्तवाऽपि शान्त्तया वसति स्म|मुनेः उपदेशात् सर्पः नूतनं जीवनदर्शनं प्रात्पवान्|शक्तिमान् भव,परन्तु अपराणामनिष्टं मा कुरु| (समाप्त) महोदयः-मिताली साहु

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:हरप्रिया&oldid=460635" इत्यस्माद् प्रतिप्राप्तम्