सामग्री पर जाएँ

सदस्यः:हरप्रिया(मिताली)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अहिंसाचरणम्- कश्नन ग्रामः|तत्र कश्नन वटवृखः अासीत्|तस्मिन् वृखे कश्चित् सर्पः वसति स्म|सः अतीव विषधरः अासीत्|वृखस्य समीपे मार्गेण अागतान् सर्वान् अपि सः दशति स्म|तस्मात् कारणात् ग्रामजनाः तेन मार्गेण गमनागमनं कर्तुं भयम् अनुभवन्ति स्म|एकदा कश्नन मुनिः तेन एव मार्गेंण गच्छन् अासीत्|तं दुष्टवा् सर्पः`एषः दइनीय´ इति वेगेन तत्त अागतवान्|परन्तु महात्मनः तपः प्रभावतः सर्पः तं दष्टुं न शक्तः मुनिः अपि तं सर्पम् अहिंसायाः महत्वं बोधतवान्|सर्पः मुनेः वचनेन प्रभावितः अभवत्|तदारभ्य सः दंशनं त्यक्तवान्|यद्यपि सर्पः विषधरः तथापि इदानीं सः विषहीनः इव व्यवहरति स्म|अतः जनाः निर्भयं गमनागमनं कुर्वन्ति स्म|दुष्टाः बालाः तस्य उपरि शिलाखण्डं खिपन्ति,पिडयन्ति स्म|परन्तु सर्पः शान्ततया तेषां पीडां सहते स्म|कानिचन दिनानि अतितानि स्म|सः मुनिः यदा तत्त अागतवान् तदा सर्पस्य शरीरं खतविखतम् अासीत्|सः मुनिम् उक्तवान्-'स्वामिन्!भवतः उपदेशकारणतः अहं हिसांचरणं त्यक्तवान्|परन्तु मम स्थितिः शोचनीया जाता अस्ति'| तदा मुनिः उक्तवान्-'भोः मित्र! अन्यान् मा दशतु परन्तु फुत्कारं मा त्यजतु'|सर्पः तथा कृतवान्| फलतः कोऽपि तस्य समीपं नागतः|स हिंसां त्यक्त्तवाऽपि शान्त्तया वसति स्म|मुनेः उपदेशात् सर्पः नूतनं जीवनदर्शनं प्रात्पवान्| शक्तिमान् भव,परन्तु अपराणामनिष्टं मा कुुुरु| (समाप्त)