सदस्यः:हिम्मतलाल अम्बालाल दवे/प्रयोगपृष्ठम्/1

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

दीवदमणकेन्द्रशासितप्रदेशः सेतुद्वयेन सम्बद्धः अस्ति । अस्मिन् प्रदेशे मण्डलद्वयं वर्तते । दीव-मण्डलं, दमण-मण्डलं च । एतयोः दीवमण्डलं गुजरात-राज्यस्य जूनागढ-मण्डलस्य समीपे स्थितम् अस्ति । दमण-मण्डलं गुजरात-राज्यस्य वलसाड-मण्डलस्य समीपे स्थितम् अस्ति । गुजराती-भाषा, सिन्धी-भाषा च दीवदमण-केन्द्रशासितप्रदेशस्य प्रमुखे भाषे स्तः [१]

भौगोलिकम्[सम्पादयतु]

दीवदमण-केन्द्रशासितप्रदेशस्य भागद्वयं वर्तते । दीव-मण्डलं, दमण-मण्डलं च । दमण-नगरं मुम्बई-महानगरात् १९३ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्य उत्तरदिशि भगवान-नदी, पूर्व-दिशि गुजरात-राज्यं, दक्षिणदिशि कलाई-नदी, पश्चिमदिशि खम्भात-नगरस्य समुद्रकुक्षी च अस्ति । दीव-क्षेत्रं द्वीपः अस्ति । अस्मिन् क्षेत्रे सेतुद्वयम् अस्ति । एकः सेतुः तोड-ग्रामस्य समीपे, अपरश्च घोघले-ग्रामस्य समीपे स्थितः अस्ति । गुजरात-राज्यस्य जूनागढ-मण्डलस्य दीव-मण्डलस्य समीपस्थं मण्डलं विद्यते । दीव-मण्डले नागोवा-समुद्रतटं स्थितम् अस्ति । इदं तटं भारतस्य सुदूरतटेषु अन्यतमं मन्यते । दमणगङ्गा-नदी, कलाई-नदी, कोलक-नदी च अस्य क्षेत्रस्य प्रमुखाः नद्यः सन्ति [२]

जलवायुः[सम्पादयतु]

दीवदमण-केन्द्रशासितप्रदेशस्य तापमानं जनवरी-मासतः मई-मासपर्यन्तं २९ तः ३४ डिग्रीसेल्सियसमात्रात्मकं भवति । अस्मिन् प्रदेशे अत्यधिकं वृष्टिः जायते । दमण-मण्डले प्रायः २००० मिलिमीटरमिता, दीव-मण्डले च प्रायः ५८५ मिलिमीटरमिता वर्षा भवति । अस्मिन् प्रदेशे कुत्रापि वनं नास्ति [३]

इतिहासः[सम्पादयतु]

त्रयोदशशताब्द्यां दमण-नगरं रामनगरराज्यस्य किञ्चन अङ्गम् आसीत् । पञ्चदशशताब्द्यां गुजरात-राज्यस्य शासकेन दीव-मण्डले स्वस्य आधिपत्यं स्थापितम् आसीत् । अस्मिन् प्रदेशे सौराष्ट्र-प्रदेशस्य बहुभिः राजवंशजैः शासनं कृतम् आसीत् । षोडशशताब्द्यां पुर्तगाली-जनैः हिन्दमहासागरे व्यापारनियन्त्रणाय “दीव-क्षेत्रे” ”दमण-क्षेत्रे” च अधिकारं स्थापितम् आसीत् । ई. स.१९६१ तमवर्षं यावत् अस्मिन् प्रदेशे पुर्तगाली-जनानां शासनम् आसीत् । ई. स. १९६१ तमे वर्षे इदं क्षेत्रं भारतस्य अभिन्नः भागः अभवत् । प्रारम्भे इदं क्षेत्रं गोवा-केन्द्रशासितप्रदेशे अन्तर्निहितम् आसीत् । ई. स. १९८७ तमे वर्षे गोवा-केन्द्रशासितप्रदेशः राज्येत्वेन उद्घोषितः । तावदेव तदा दीव-दमण-क्षेत्रं केन्द्रशासितप्रदेशे परिवर्तितम् [४]

जनसङ्ख्या[सम्पादयतु]

ई. स. २०११ तमस्य वर्षस्य जनगणनानुसारं दीवदमण-केन्द्रशासितप्रदेशस्य जनसङ्ख्या २,४२,९११ अस्ति । तेषु १,५०,१०० पुरुषाः, ९२,८११ महिलाः च सन्ति । अस्मिन् राज्ये प्रतिचतुरस्रकिलोमीटरमिते २१६९ जनाः वसन्ति अर्थात् अस्य राज्यस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २१६९ जनाः । दीवदमण-केन्द्रशासितप्रदेशे पुरुषस्त्रियोः अनुपातः १०००-६१८ अस्ति [५]

अर्थव्यवस्था, कृषिः, उद्योगश्च[सम्पादयतु]

दीवदमण-केन्द्रशासितप्रदेशस्य अर्थव्यवस्था कृष्याधारिता अस्ति । प्रदेशेऽस्मिन् अधिकतमाः उद्योगाः कृषिकार्यैः सह सम्बद्धाः सन्ति । “तण्डुलाः”, “लोबिया”, “रागी” इत्यादीनि सस्यानि दमण-मण्डलस्य प्रमुखाणि सस्यानि सन्ति । दीव-मण्डले २० प्रतिशतं क्षेत्रं कृषिकार्ये उपयुज्यते । तत्र जलवायुः अपि शुष्कः भवति । दीवदमण-केन्द्रशासितप्रदेशे कृष्युत्पादनस्य संवर्धनाय सर्वकारेण “लघुसेंचनयोजना”, नदीषु “मध्यमसेंचनयोजनाः” प्रचालिताः सन्ति । एताभिः योजनाभिः अधिकसस्योत्पादनाय प्रयासाः क्रियन्ते । अस्मिन् केन्द्रशासितप्रदेशे आहत्य ३००० उद्योगाः सन्ति [६]

राजनीतिः[सम्पादयतु]

दीवदमण-केन्द्रशासितप्रदेशे विधानमण्डलं नास्ति । अस्य प्रदेशस्य शासनं केनचित् प्रशासकेन चाल्यते । राष्ट्रपतिना एव दीवदमण-केन्द्रशासितप्रदेशस्य प्रशासकः चीयते । भारतस्य राष्ट्रपतिः एव दीवदमण-केन्द्रशासितप्रदेशस्य नियमानां निर्माणं करोति । अस्मिन् प्रदेशे न कोऽपि राजनैतिकसमूहः अस्ति । अस्मिन् प्रदेशे लोकसभायाः एकं स्थानं वर्तते [७]

मण्डलानि[सम्पादयतु]

दीवदमण-केन्द्रशासितप्रदेशे द्वे मण्डले स्तः । ते –

  1. दीवमण्डलम्
  2. दमणमण्डलम्

शिक्षणम्[सम्पादयतु]

ई. स. २०११ वर्षस्य जनगणनानुसारं दीवदमण-केन्द्रशासितप्रदेशस्य साक्षरतामानं ८५.४९ प्रतिशतम् अस्ति । तेषु पुरुषाणां साक्षरतामानं ९१.४८ प्रतिशतं, स्त्रीणां च ७९.५९ प्रतिशतं च अस्ति । अस्मिन् प्रदेशे शैक्षणिकस्थानानि बहूनि न सन्ति । एकः कला महाविद्यालयः एव अत्र स्थितः अस्ति [८]

कला, संस्कृतिः च[सम्पादयतु]

दीवदमणकेन्द्रशासितप्रदेशस्य जनैः नृत्यम् अतीव रोचते । तत्र विभिन्नप्रकारकाणि नृत्यानि प्रचलन्ति । तेषु नृत्येषु पुर्तगाली-नृत्यं प्रसिद्धम् अस्ति । अस्मिन् केन्द्रशासितप्रदेशे विभिन्नसंस्कृतीनां प्रभावः दृश्यते । अस्य प्रदेशस्य जनैः गायनम् अपि अतीव रोचते । दीवदमण-केन्द्रशासितप्रदेशे बहवः उत्सवाः आयोज्यन्ते । “होलिका”, “दीपावलिः”, “रक्षाबन्धनम्”, “ईद”, “नवरात्रिः”, “मोहर्रम”, “ईद-उल-जुहा”, “गुड फ्राइडे”, “ईस्टर्”, “कार्निवल्” इत्यादयः अस्य प्रदेशस्य प्रमुखाः उत्सवाः सन्ति । दीवदमण-केन्द्रशासितप्रदेशस्य जनाः सोत्साहेन उत्सवान् आचरन्ति [९]

वीक्षणीयस्थलानि[सम्पादयतु]

दीवदमण-केन्द्रशासितप्रदेशे पर्यटनाय बहूनि वीक्षणीयस्थलानि विद्यन्ते । देवका-समुद्रतटं, काछीगाम-तडागः, नानी-उद्यानं, मोती-मत्स्यालयः, सत्यसागर-उद्यानं, मिरासोल-उद्यानं च इत्यादीनि अस्य प्रदेशस्य दमण-मण्डलस्य वीक्षणीयस्थलानि सन्ति । प्रदेशेऽस्मिन् दुर्गाः, ईसाई-उपासनागृहाणि, विद्युद्गृहाणि च अपि दर्शनीयानि सन्ति । दीव-दुर्गः, “सेण्ट् पॉल् चर्च्”, पानीकोटा-दुर्गः, चक्रतीर्थं, बालोद्यानानि च दीव-मण्डलस्य प्रमुखाणि पर्यटनस्थलानि सन्ति [१०]

दीव[सम्पादयतु]

दीव-नगरं दीवदमण-केन्द्रशासितप्रदेशस्य दीव-मण्डलस्य मुख्यालयः विद्यते । इदं नगरं गुजरात-राज्यस्य सौराष्ट्र-प्रान्तस्य दक्षिणदिशि स्थितम् अस्ति । स्थलमिदं स्वर्गः इति प्रतिभाति । प्राचीने काले अस्मिन् नगरे बहुभिः राजभिः शासनं कृतम् आसीत् । अनन्तरं नगरमिदं पुर्तगाली-जनानाम् आधिपत्ये आगतम् । अस्मिन् नगरे पुर्तगाली-संस्कृतिः अपि दृश्यते । ई. स. १९८७ तमे वर्षे नगरमिदं केन्द्रशासितप्रदेशत्वेन उद्घोषितम् । अस्मिन् नगरे समुद्रतटं विद्यते । इदं समुद्रतटं भारतस्य समुद्रतटेषु उत्कृष्टतमं वर्तते । समुद्रतटमिदं जनान् आकर्षति । नागोआ-तटं अस्य नगरस्य आकर्षणस्य केन्द्रं विद्यते । नागोआ-तटं जलक्रीडायै उत्तमं वर्तते । जनाः जलक्रीडाः कर्तुं तत्र गच्छन्ति । घोघला-तटं घोघला-ग्रामे स्थितम् अस्ति । इदं तटं दीव-मण्डलस्य शान्तं समुद्रतटम् अस्ति । जालन्धर-समुद्रतटम् अपि दीव-मण्डलस्य सुन्दरं समुद्रतटम् अस्ति । जालन्धर-नामकस्य असुरस्य नाम्ना अस्य समुद्रतटस्य नामकरणम् अभवत् । समीपस्थे पर्वते अस्य मन्दिरम् अपि स्थितम् अस्ति । समुद्रतटम् इदम् अत्यन्तं शान्तं सौहार्दं च अस्ति । दीव-नगरे बहूनि मन्दिराणि, ईसाई-उपासनागृहाणि च अपि सन्ति । तत्र गङ्गेश्वर-मन्दिरं स्थितम् अस्ति । मन्दिरमिदं भगवतः शिवस्य अस्ति । इदं मन्दिरं दीव-नगरात् ३ किलोमीटरमिते दूरे फादुम-ग्रामे स्थितम् अस्ति ।तत्र “सेण्ट् पॉल् चर्च्”, “सेण्ट् थॉमस् चर्च्” च स्थितम् अस्ति । “सेण्ट् थॉमस् चर्च्” इत्यस्य ईसाई-उपासनागृहस्य निर्माणं ई. स. १५९८ तमे वर्षे पुर्तगाली-जनैः कृतम् आसीत् । “सागर शैल सङ्ग्रहालयः”, “दीव-दुर्गः”, “पानीकोठा-दुर्गः” इत्यादीनि दीव-नगरस्य प्रमुखाणि पर्यटनस्थलानि सन्ति । दीव-नगरस्य वातावरणं सर्वदा सुखदं, शान्तं, मनोहरं च भवति । जनाः कस्मिँश्चि अपि समये दीव-नगरं गन्तुं शक्नुवन्ति । जनाः अक्टूबर-मासतः मार्च-मासपर्यन्तं दीव-नगरं गच्छन्ति । दीव-नगरं ८ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः दीव-नगरं गुजरात-राज्यस्य विभिन्ननगरैः सह सञ्योजति । गुजरात-राज्यस्य च सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः दीव-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । दीव-नगरात् जूनागढ-नगराय, राजकोट-नगराय, सोमनाथ-नगराय, भावनगराय इत्यादिभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । दीव-नगरात् जूनागढ-नगरं १७३ किलोमीटरमिते दूरे स्थितम् अस्ति । दीव-नगरे रेलस्थानकं नास्ति । जूनागढ-नगरस्य रेलस्थानकं दीव-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । दीव-नगरात् जूनागढ-नगरस्य रेलस्थानकं १७६ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं गुजरात-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । जूनागढ-रेलस्थानकं गुजरात-राज्यस्य अन्यैः रेलस्थानकैः सह विशिष्टतया सम्बद्धम् अस्ति । जूनागढ-रेलस्थानकात् मुम्बई-नगराय, अहमदाबाद-नगराय, वडोदरा-नगराय इत्यादिभ्यः प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । दीव-नगरस्य समीपे नागोआ-स्थलं वर्तते । अस्य स्थलस्य समीपे दीव-नगरस्य विमानस्थानकं स्थितम् अस्ति । इदं विमानस्थानकं दीव-नगरात् १० किलोमीटरमिते दूरे स्थितम् अस्ति । इदम् राष्ट्रियविमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् शनिवासरं विहाय प्रतिदिनं मुम्बई-नगराय वायुयानानि प्राप्यन्ते । अनेन प्रकारेण दीव-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया दीव-नगरं प्राप्नुवन्ति ।

दमण[सम्पादयतु]

दमण-नगरं भारतस्य दीवदमण-केन्द्रशासितप्रदेशस्य दमण-मण्डलस्य केन्द्रं विद्यते । इदं नगरं ४५० वर्षाणि यावत् पुर्तगाली-साम्राज्यस्य भागः आसीत् । ई. स. १९६१ तमस्य वर्षस्य दिसम्बर-मासस्य १९ तमे दिनाङ्के दमण-नगरं भारते सम्मिलितं जातम् । अनन्तरं नगरमिदं भारतस्य केन्द्रशासितप्रदेशत्वेन उद्घोषितम् । दमण-नगरं, दीव-नगरात् ४०० किलोमीटरमिते दूरे स्थितम् अस्ति । दमण-नगरे विभिन्नसंस्कृतीनां प्रभावः दृश्यते । अस्मिन् नगरे विभिन्नजातयः अपि निवसन्ति । अस्मिन् नगरे समुद्रतटम् अस्ति । इदं समुद्रतटं १२.५ किलोमीटरमितम् दीर्घम् अस्ति । इदं समुद्रतटं शान्तं, सुन्दरं च अस्ति । ये जनाः प्रकृतिप्रियाः भवन्ति, तेभ्यः इदं स्थलं सर्वोत्तमं वर्तते । अस्य नगरस्य समीपे दमणगङ्गा-नदी प्रवहति । नगरमिदं अरब-सागरस्य तटे स्थितम् अस्ति । दमण-नगरस्य भागद्वयं वर्तते । “मोटी दमण”, “नानी दमण” च । नानीदमण-स्थलात् ५ किलोमीटरमिते दूरे देवका-समुद्रतटम् स्थितम् अस्ति । जलक्रीडा कर्तुं जनाः तत्र गच्छन्ति । तत् समुद्रतटम् अत्यन्तं सुन्दरं वर्तते । दमण-नगरे बहूनि जलोद्यानानि (Water Parks) सन्ति । भारतस्य विभिन्ननगरेभ्यः जनाः आनन्दं प्राप्तुं तत्र गच्छन्ति । दमण-नगरस्य समीपे कडाइया-ग्रामः स्थितः अस्ति । अस्मिन् ग्रामे एकः तडागः विद्यते । पुरा इदं नगरं पुर्तगाली-संस्कृतेः प्रभावितम् आसीत् । अतः तत्र बहूनि ईसाई-उपासनागृहाणि सन्ति । मोटीदमण-नगरे “बोम जीसस चर्च्” स्थितम् अस्ति । इदम् उपासनागृहं पुर्तगाली-वास्तुकलाभिः निर्मितम् अस्ति । तत्र “चैपल् ऑफ् ऑवर् लेडी ऑफ् रोजरी” इत्येतत् दमण-नगरस्य पुरातनं धार्मिकस्थलं वर्तते । सप्तदशशताब्द्यां पुर्तगाली-जनैः अस्य स्थलस्य निर्माणं कारितम् आसीत् । अन्येभ्य शासकेभ्यः संरक्षणाय पुर्तगाली-जनैः बहूनां दुर्गाणां निर्माणं कारितम् आसीत् । “सेण्ट् जेरोम दुर्गः”, “दमण-दुर्गः” च दमण-नगरस्य प्रमुखं पर्यटनस्थलं वर्तते । दमण-नगरे “प्रकाशस्तम्भः” स्थितः अस्ति । अयं स्थम्भः लोकप्रियः वर्तते । दमण-नगरस्य वातावरणम् आवर्षं सुखदं, स्वास्थ्यकरं च भवति । जनाः अक्टूबर-मासतः मार्चमासपर्यन्तं भ्रमणार्थं तत्र गच्छन्ति । दमण-नगरं ८ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः दमण-नगरं महाराष्ट्र-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सञ्योजति । महाराष्ट्र-राज्यस्य, गुजरात-राज्यस्य च सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः दमणनगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । दमण-नगरात् वलसाड-नगराय, मुम्बई-नगराय, वापी-नगराय इत्यादिभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । दमण-नगरात् मुम्बई-नगरं १९३ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मिन् नगरे रेलस्थानकं नास्ति । वापी-नगरस्य रेलस्थानकं दमण-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । दमण-नगरात् वापी-नगरं १२ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं गुजरात-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । वापी-रेलस्थानकं गुजरात-राज्यस्य अन्यैः रेलस्थानकैः सह विशिष्टतया सम्बद्धम् अस्ति । वापी-रेलस्थानकात् मुम्बई-नगराय, देहली-नगराय, अहमदाबाद-नगराय, जयपुर-नगराय, अमृतसर-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । दमण-नगरे विमानस्थानकं नास्ति । मुम्बई-नगरस्य विमानस्थानकम् दमण-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । इदम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । दमण-नगरात् इदं विमानस्थानकं १७० किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । इदं विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । अनेन प्रकारेण दमण-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया दमण-नगरं प्राप्नुवन्ति ।

परिवहनम्[सम्पादयतु]

दीवदमण-केन्द्रशासितप्रदेशः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धः अस्ति । एतैः मार्गैः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः दीवदमण-केन्द्रशासितप्रदेशं गन्तुं शक्नुवन्ति । अतः जनाः सरलतया दीवदमण-केन्द्रशासितप्रदेशं प्राप्नुवन्ति ।

भूमार्गः[सम्पादयतु]

दीवदमण-केन्द्रशासितप्रदेशः भूमार्गेण सम्पूर्णभारतस्य विभिन्नराज्यैः सह सम्बद्धः अस्ति । अस्मिन् प्रदेशे आहत्य २६८ किलोमीटरमिताः दीर्घाः मार्गाः सन्ति । तेषु दीव-मण्डलस्य मार्गाः ७८ किलोमीटरमिताः दीर्घाः, दमण-मण्डलस्य च मार्गाः १९० किलोमीटरमिताः दीर्घाः सन्ति [११]। अस्य प्रदेशस्य अन्तर्गतेषु सर्वेषु लघुग्रामेषु अपि भूमार्गस्य सौकर्यं लभ्यते । दीवदमण-केन्द्रशासितप्रदेशस्य सर्वे ग्रामाः परस्परं सम्बद्धाः सन्ति । गुजरात-राज्यस्य, महाराष्ट्रराज्यस्य च सर्वकारेण यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः जनाः दीवदमण-केन्द्रशासितप्रदेशस्य विभिन्नस्थलानां भ्रमणं कर्तुं शक्नुवन्ति । जनाः भाटकयानैः अपि भ्रमणं कुर्वन्ति ।

धूमशकटमार्गः[सम्पादयतु]

दीवदमण-केन्द्रशासितप्रदेशे रेलमार्गाः न सन्ति । दीवदमण-केन्द्रशासितप्रदेशः गुजरात-राज्यस्य, महाराष्ट्र-राज्यस्य च धूमशकटमार्गेण भारतस्य विभिन्ननगरैः सह सम्बद्धः अस्ति । एतेभ्यः रेलस्थानकेभ्यः बसयानानि भाटकयानानि वा प्राप्यन्ते । तैः बसयानैः भाटकयानैः वा दीवदमण-केन्द्रशासितप्रदेशस्य नगराणि गन्तुं शक्यन्ते ।

वायुमार्गः[सम्पादयतु]

दीवदमण-केन्द्रशासितप्रदेशस्य दीव-नगरे, दमण-नगरे च राष्ट्रियविमानस्थानके स्तः । एते विमानस्थानके मुम्बई-नगरेण सह सम्बद्धे स्तः । दीवदमण-केन्द्रशासितप्रदेशस्य विमानस्थाकाभ्यां बसयानानि भाटकयानानि च प्राप्यन्ते । तैः बसयानैः, भाटकयानैः च दीवदमण-केन्द्रशासितप्रदेशस्य पर्यटनस्थलानि गन्तुं शक्यन्ते । भारतस्य विभिन्ननगरेभ्यः वायुमार्गेण दीवदमण-केन्द्रशासितप्रदेशः प्राप्यते ।

  1. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३८७
  2. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३८९
  3. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३८९
  4. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३८७-३८८
  5. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३८६
  6. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३८९
  7. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३८८
  8. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३९०
  9. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३९०
  10. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३९०
  11. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३९०